ಭಾನುವಾರ, ಅಕ್ಟೋಬರ್ 8, 2023

मम कौशिकः

कन्नडमूलम्- अनघा शिवरामः

संस्कृतभावानुवादः - सूर्यहेब्बारः ।  

करोनारोगस्य द्वितीयतरङ्गः आरब्धः आसीत् । पदवीविद्यालये पठन्त्याः मम कक्ष्याः आभासीयमाध्यमेन चलन्ति स्म । प्रातः नववादनादारभ्य सायं चतुर्वादनपर्यन्तं निरन्तरं सङ्गणकस्य पुरतः एव उपवेष्टव्यम् आपतितम् । एकान्ते उपविश्य, प्रकाशवत् सङ्गणकं पश्यन्ती, प्राध्यापकानां पाठनं कष्टेन शृण्वती आसम् । करोनाप्रथमतरङ्गे यथा कृतं तथा द्वितीयतरङ्गे अपि यूट्यूब् दृष्ट्वा नूतनानां पाकानां निर्माणे उत्साहः नासीत् । गृहजनाः अपि तद्विषये क्रुध्यन्ति स्म । विना लाभं महार्घ्याणि वस्तूनि आनीय तस्य ईषदुपयोगं कृत्वा अवशिष्टम् अवकरकण्डोले क्षिपेयं चेत् को वा न क्रुध्येत् मह्यम् ? फेस्बुक् व्याट्साप् इत्यादीनां दर्शनम् अपि पर्याप्तम् इति अभासत । अतः करोनारोगस्य द्वितीयतरङ्गे गृहं कारागारः इव अभासत । कथञ्चित् क्वापि दूरं गन्तव्यम् इति मनः काङ्क्षति स्म ।

तावता करोनातीव्रता किञ्चिदिव न्यूना जायमाना अस्ति इति वार्ता आगता । विद्यालयान् विहाय सर्वत्रापि जनसञ्चारः आरब्धः आसीत् । दिनद्वयं वा आभासीयकक्ष्यातः मुक्तिं प्राप्नुयाम् एवइति निरन्तरं रटन्ती आसम् । मम विक्षिप्तव्यवहारं दृष्टवतः पितुः हृदयं द्रवितम् । मित्रैः सह क्वापि  गत्वा आगच्छतु इति सूचितवान् । प्रवासार्थं कुत्रापि गच्छेम किम् ? इति वाट्साप् द्वारा मित्राणां गणे सन्देशं प्रेषितवती । परन्तु सर्वा अपि किञ्चित् व्याजम् उक्त्वा न आगच्छामि इति उक्तवती । मम मित्राणां परिवाराः धनिकाः न सन्ति । करोनाकारणतः अनेकासां गृहे धनविषयिणी समस्या इतोऽपि अवर्धत इति अहं जानामि स्म । अतः एव ताः अनागमने व्याजं कथितवत्यः । परन्तु तासां परिस्थितेः प्रतिस्पन्ददाने अहम् असमर्था आसम् ।

पितुः अनुमतिप्राप्तिर्नाम वन्ध्यायाः धेनोः दोहनमिव । अनुमत्यां प्राप्तायामपि क्वापि न गच्छेयं चेत् अहं निश्चयेन मूर्खा भविष्यामि । अतः मैसूरुनगरे विद्यमानाय मम मातृभगिन्याः पुत्राय सन्देशं प्रेषितवती । अग्रज ! किं भवान् परश्वः मैसूरुनगरे वर्तते ? अहं आगच्छेयं वा ? इति । बाल्यकाले सः अग्रजः मम गृहे उषित्वा एव प्राथमिकशालां गच्छति स्म । त्रिचतुरवर्षाणि यावत्  मां प्रीत्या प्रतिदिनं विद्यालयं नयति स्म । अतः मयि अतिशया प्रीतिः तस्य आसीत् । सः मैसूरुनगरे क्वचित् साफ्ट्वेर् उद्योगं करोति स्म । करोनाकारणतः यद्यपि तस्य कार्यालयकार्यमपि गृहतः एव शक्यं तथापि सः स्वग्रामं न गतवान् । तस्य लघुग्रामे अन्तर्जालसम्पर्कः न लभ्यते इति हेतोः मैसूरुनगरे एव आसीत् । तस्य मित्राणि तु ग्रामं गत्वा ततः एव कार्यं कुर्वन्ति स्म । अतः निवासस्थाने सः एकाकी आसीत् ।

अवश्यम् आगन्तुम् अर्हति । परश्वः शनिवासरः । ममापि कार्यालयविरामः । मैसूरुनगरे दर्शनयोग्यानि स्थानानि बहूनि सन्ति । करोनाकारणतः सम्मर्दः अपि न्यूनः अस्ति । अतः सुखेन अटितुं शक्नुमः इति प्रतिसन्देशं कृतवान् । पुनश्च दूरवाण्या आहूय आगच्छति खलु भवती, अहं यानचिटिकायाः आरक्षणं करिष्यामि । भवत्याः आधार् कार्ड् प्रेषयतु इति उक्तवान् । चिटिकाम् अहमेव करिष्यामि इति उक्त्वा यानस्य आरक्षणं कृतवती ।

रात्रौ नववादने यानम् आसीत् । एकाकिन्या किमर्थं मैसूरुनगरं गन्तव्यम् ?  अधुना अटनस्य का आवश्यकता ? विवाहः यदा भविष्यति, तदनन्तरं पत्या सह अटितुं शक्ष्यति खलु । भवान् मूर्खः किमर्थम् अनुमतिं दत्तवान् । सा यानचिटिका-आरक्षणात् परं मां सूचयन्ती अस्ति । इति माता पित्रा सह कलहं कुर्वती आसीत् । पिता अपि अनुमतिं दत्तवान् इति पश्चात्तापवाक्यानि मन्दध्वनिना वदन्निव अभासत । अहं गमनाय वस्त्राणि स्यूते पूरयन्ती आसम् ।

रात्रौ नववादने मम ग्रामतः लोकयानम् आसीत्  । गमनावसरे पिता पञ्चसहस्ररूप्यकाणि दत्त्वा जागरूकतया गच्छतु, नगरे सर्वदा मुखावरणं धरतु, दूरवाणीविषये धनविषये च विशेषावधानं भवतु । इति उक्तवा याने उपावेशितवान् ।

 प्रातः चतुर्वादनसमये मैसूरुनगरे लोकयाननिस्थानकं प्राप्तवती । किञ्चित्पूर्वं दूरवाणीं कृतवती इति हेतोः मम अग्रजः निस्थानकम् आगत्य मां प्रतीक्षते स्म । मयि अवतीर्य इतस्ततः पश्यन्त्यां भगिनि ! इति आहूतवान् । अनतिदूरे विद्यमानां स्ववसतिं स्वकीयद्विचक्रिकया नीतवान् । अहम् आगच्छामि इति ज्ञात्वा प्रकोष्ठे विशेषस्वच्छता कृता अस्ति इति अवगतवती ।

घट्टप्रदेशमार्गेण प्रयाणं कृत्वा श्रान्ता अस्ति इति भवत्याः मुखदर्शनेन एव ज्ञायते । तथापि शीघ्रं स्नानादिकं समापयतु । चामुण्डीपर्वते सूर्योदयकालः मनोहरः भवति । प्रातःकाले एव देव्याः दर्शनमपि शक्यते । ततः उपाहारं कृत्वा किञ्चित् विश्रामं कर्तुं शक्नोति । इति अग्रजः असूचयत् । सः तु स्नानं कृत्वा सज्जः आसीत् । अहं झटिति स्नानं कृत्वा दशनिमेषाभ्यन्तरे सज्जा अभवम् । सः दूरवाण्यां किमपि पश्यति स्म । अहं सज्जा अस्मि इति कथिते सः विस्मयेन मम मुखं दृष्टवान् । शिरः चालयन् मम अनुजायाः अनघायाः अधुना महती प्रगतिः दृश्यते केषुचित् विषयेषु । बाल्यकाले शालागमनावसरे सज्जतार्थं महान् समयः स्वीक्रियते स्म भवत्या । अधुना तु क्षणाभ्यन्तरे एव सज्जा अस्ति । मम आवुत्तस्य कौशिकस्य भाग्यम् । पत्न्याः अलङ्कारकाले बहुकालं प्रतीक्षा करणीया न भविष्यति तेन । इति परिहासेन अवदत् ।

कौशिकः

नामश्रवणमात्रेण अहं स्मितं प्रदर्शितवती । सप्ताहात् प्राक् एव मम कौशिकस्य च मध्ये कस्मिंश्चित् तुच्छे विषये कलहः जातः आसीत् । भवती मह्यं दूरवाणीं न कुर्यात् । सन्देशं च न प्रेषयेत् इति सः उक्तवान् आसीत् कोपेन । अहमपि कुपिता सती तस्य सम्पर्कं न कृतवती । परन्तु दिने दशवारं सः भावनात्मकवाक्यानि व्हाट्साप् स्टेटस् मध्ये स्थापयति । अहमपि अन्ये केऽपि न जानीयुः इति मत्वा शेर् ओन्लि विथ् इति विकल्पं चित्वा भावनात्मकचित्राणि, वाक्यानि च आरोपयामि । सः तद्दृष्ट्वा अपि न प्रतिस्पन्दते । अहं तस्य सन्देशान् दृष्टवती इति सः यथा न जानीयात् तथा दूरवाण्यां संयोजनानि परिवर्तितवती । एषु दिनेषु मम मनसः विक्षुब्धायाः इदमपि एकं कारणम् आसीत् ।

आवयोर्विषयम् एषः अग्रजः एव जानाति स्म । मम आत्मीयः अग्रजः इति मत्वा अहं सर्वम् उक्तवती आसम् । सः रहस्यं कुत्रापि न प्रकटयेत् इति धैर्येण सह, अहं विषयस्य गोपनं कुर्वती नास्मि इति आनन्दः अपि मम भवति स्म । अग्रजस्तु पाषाणहृदयी । प्रेमभावादिविषयेषु तस्य विशिष्टा आसक्तिः नास्ति । यदा अहं प्रथमवारं कौशिकविषये उक्तवती तदा सः एवं सन्ति विचाराः । सः भवतीं वञ्चयन् नास्ति खलु ?” इति केवलं पृष्टवान् आसीत् । कौशिकोऽपि अस्मत्परिवारीयाणां सर्वेषां परिचितः एव आसीत् । कौशिकस्य परिवारीयाः मम परिवारीयाणाम् आत्मीयाः आसन् । अतः तस्य विषये मम भीतिः तु नासीत् एव ।

अग्रज ! आवयोर्मध्ये सप्ताहात् सम्भाषणं नास्ति इत्युक्तवती खलु । पुनः किमर्थं तस्य विचारः ?” । अहं अग्रजं तर्जितवती । भवत्याः प्रेमकथां शृण्वन् उपविशामि चेत् सूर्यः न प्रतीक्षते । शीघ्रं गच्छावस्तावत् चामुण्डीपर्वतम् । भवत्याः कथाः तु सर्वदा भवन्ति एव । अनन्तरं श्रोष्यामि इति सः अवदत् ।

ततः चामुण्डीपर्वतं गतवन्तौ । सुमनोहरः प्रातःकालः पर्वतस्योपरि अनुभूतः । चामुण्डीदेव्याः, महिषासुरस्य, महानन्दिनः च दर्शनं सम्पन्नम् । तत्रैव उपाहारगृहे अल्पाहारं समाप्य सार्धसप्तवादनसमये गृहम् आगतवन्तौ । अग्रजः अधुना किञ्चित् शयनं करोतु । दशवादने जन्तुशाला उद्घाट्यते । तत्र गमिष्यामः । मम प्रतिशनिवासरं सार्धसप्तवादनतः नववादनपर्यन्तं संस्कृतकक्षया भविष्यति इति उक्त्वा सङ्गणकम् उद्घाटितवान् । शय्यायां शयिता अहं संस्कृतं शृण्वती निद्रालोकं प्रविष्टवती ।

अग्रज ! अहं कौशिकस्य मेलनं कुर्याम् । जन्तुशालातः प्रत्यागमनसमये अग्रजम् उक्तवती । अग्रजः मम मुखं दृष्ट्वा विचित्रं भावं प्रदर्शितवान् । तस्मिन् दिने मया एव दोषः आचरितः । अतः क्षमा प्रार्थनीया इति पुनरपि उक्तवती । भवतोः प्रेमभावादिकम् अहं न अवगच्छामि । सः उत्तमः भवत्याः अनुरूपः च वर्तते इति मया चिन्त्यते । अतः अहं भवतोः प्रेमविषये बाधकः नास्मि । परन्तु तस्य मेलनं कथं शक्यम् ? सः तु वर्तते बेङ्गलूरुनगरे.......

इतः बेङ्गलूरुनगरं प्रति रैलयानेन गम्यते चेत् घण्टात्रयम् इति गूगल् म्याप् दर्शयति ।अहम् दूरवाणीं पश्यन्ती उक्तवती ।

भवती लघुग्रामात् आगता । बेङ्गलूरुनगरं नाम महासागरः । तत्र गत्वा कथं भवती तम् अन्विष्यति ? तेन सह सप्ताहात् पूर्वमेव सम्भाषणं कृतम् इत्यपि वदति भवती । तर्हि सः तत्रैव बेङ्गलूरुनगरे अस्ति वा नास्ति वा इति विश्वासः कथं कर्तुं शक्यः ? इत्येवं बहुविधप्रश्नान् निरन्तरं पृष्टवान् अग्रजः ।

सः ह्यः एव स्टेटस् स्थापितवान् । बेङ्गलूरुनगरे एव क्वचित् उपाहारमन्दिरे खादन्नस्ति। इति दूरवाणीं दर्शितवती । पुनः व्याट्साप् उद्घाट्य स्वस्य गृहस्य सङ्केतम् अत्र प्रेषितवान् अस्ति सः पश्यतु । इत्यपि उक्तवती ।

मैसूरुतः बेङ्गलूरुगमनमार्गे आरम्भिकबिन्दौ एव तस्य गृहम् अस्ति । अतः यदि मिलति चेदपि बेङ्गलूरुनगरस्य वाहनसम्मर्दे भवत्या पतनीयं नास्ति । ततः मेट्रोयानद्वारा दशनिमेषात्मके दूरे आवयोः मातुलस्य गृहमपि अस्ति । अग्रजः निपुणः प्रवासी इव उक्तवान् ।

मम मनसि कौशिकस्य मेलनोपायार्थं बहुविधाः मार्गाः स्फुरिताः । अहं श्वः प्रातः शीघ्रं प्रस्थाय बेङ्गलूरुं गच्छामि । सप्तवादनसमये तस्य मेलनं शक्येत । ततः मध्याह्नाभ्यन्तरे मातुलस्य गृहं गच्छामि । रात्रौ बेङ्गलूरुनगरतः एव ग्रामं गन्तुं यानस्य आरक्षणं करिष्यामि । इति वदन्त्याः मम दूरवाण्यां यानारक्षणस्य वेब्सैट् उद्घाटितम् आसीत् ।

भवत्यां तस्मिन् च विश्वासं कृत्वा अहम् एतत् अङ्गीकरोमि । अद्यत्वे कालः सम्यक् नास्ति । एकाकिन्या गत्वा मेलनं नाम क्लेषाह्वानम् एव । परन्तु भवत्याः दृढनिश्चयं प्रेम च दृष्ट्वा मम मनः द्रवति अग्रजः अवोचत् । शिलायाः अपि द्रवीभावः जायते करोनाकालानन्तरम् इति अहम् उपहासं कृतवती । अग्रजः मातुलस्य सम्पर्कं कृत्वा इयम् अनघा अस्मद्गृहे मैसूरुनगरे अस्ति । अहं श्वः प्रातः उपाहारानन्तरं बेङ्गलूरुयाने उपवेशयामि । मध्याह्ने भवतः गृहम् आगच्छति । रात्रौ पुनः ग्रामगमनार्थं ततः एव आरक्षणं कृतवती इति सूचितवान् ।

मैसूरुनगरे बहूनि स्थानानि करोनाकारणतः निषिद्धानि आसन् । अतः अधिकम् अटनं न कृतम् । श्वः शीघ्रम् उत्थातव्यम् इति चिन्तयित्वा शयनं कृतवन्तौ । प्रातः चतुर्वादने एव अग्रजः मां रैलनिस्थानकं प्रापितवान् ।

तं मेलितुं गच्छन्त्याः मम मनः अपि विक्षुब्धम् आसीत् । तावता पुरतः आसने उपविष्टा काचित् वृद्धा दूरवाण्या वदति स्म । परस्परसम्बधे अहङ्कारभावः न स्यात् । सः एव लगुडः इव हस्तबन्धः भवति । दिवसः रात्रिः च कदाचित् कलहं कृत्वा परस्परमेलनं स्थगितवन्तौ वा ?  समुद्रं त्यक्त्वा तीरं दूरं धावति किं ?  नास्ति खलु । कदाचित् परस्परसम्बन्धे वैमनस्यं भवेत् । परन्तु दीर्घद्वेषः न शोभते

सा मामेव वदन्ती अस्ति इति अभासत । मनसि कौशिकस्य विषये चिन्तनम् आरब्धम् । दूरवाणीसम्भाषणेन एव कथम् आवाम् तथा आत्मीयौ सञ्जातौ । परस्परमेलनं तु पञ्चषवारं जातं स्यात् । तदपि ज्येष्ठानां भयात् भावान् गोपयित्वा । आवयोर्मध्ये कीदृशः मधुरबन्धः अस्ति । तस्य वास्तविकं नाम अन्यत् अस्ति चेदपि कौशिक इति तस्य नामकरणम् अहमेव कृतवती खलु । तस्य नेत्रं किञ्चिदिव बृहदाकारकम् अस्ति । कदाचित् संस्कृताध्यापकः कौशिकशब्दस्य इन्द्रः, विश्वामित्रः, उलूकः इति त्रीन् अर्थान् विवृतवान् । अहं भल्लूकरूपम् अर्थं स्वीकृत्य कौशिक इति तम् आह्वयामि स्म । तेन अर्थे पृष्टे इन्द्रः, विश्वामित्रः इति अर्थद्वयमेव उक्तवती । अहं मेनका अथवा शचीदेवी इव । भवान् विश्वामित्रः अथवा इन्द्रः इव इति विवरणमपि दत्तवती । आप्टेकोषे उलूक इत्यर्थम् गोपयित्वा अवशिष्टभागस्य चित्रं स्वीकृत्य प्रेषितवती आसम् अहम् । परन्तु प्रेमिणोर्मध्ये रहस्यं कियत्कालं तिष्ठेत् । सः तिरुपतौ विद्यालये पठन्तं कञ्चन बन्धुं पृष्ट्वा कौशिकशब्दस्य उलूकरूपोऽप्यर्थः अस्ति इति ज्ञातवान् । तदा अपि कोपेन द्वित्रदिनानि सम्भाषणं त्यक्तवान् आसीत् खलु । सम्यक् स्मरामि । तदा तेन एव प्रथमं पुनर्भाषितम् आसीत् इति स्मरन्त्यां मयि केङ्गेरी निस्थानकम् आगतम् ।

तत्रावतीर्य कुत्र गन्तव्यम् इति अहं दिग्भ्रान्ता आसम् । दूरवाण्यां लोकेशन् दृष्टं चेदपि प्रथमपदं कस्यां दिशि स्थापनीयम् इति सन्दिहाना स्थिता । क्षावकारणतः मुखावरणं निष्कासितवती  । तदानीं काचित् महिला निर्निमेषं मां पश्यति स्म । आदौ अहं भीता । सा स्वयं माम् उपसर्प्य भवती अनघा खलु? ” इति अपृच्छत् । विस्मिता अहं कथं जानाति भवती?” इति प्रतिप्रश्नं कृतवती । फेस्बुक् पुटे भवत्याः कथाः अहं पठामि । बहु सुन्दरं लिखति । परन्तु भवती बेङ्गलूरुनगरीया न इति मन्ये । कुतः अत्र आगमनम् इति अपृच्छत् ।

मया अमुकस्थानं गन्तव्यम् । अहं सङ्केतं दर्शितवती । अनतिदूरे एव अस्ति तत् स्थलम् । अर्धकिलोमीटर् एव । पादाभ्यां एतेन मार्गेण गम्यताम् इति सा उक्तवती । भवत्या सह सेल्फी स्वीकर्तुं शक्यते खलु इति पृष्टवतीनिश्चयेन शक्यते । परन्तु मध्याह्नपर्यन्तं फेस्बुक् इत्यादिषु न प्रसारयतु इत्युक्त्वा चित्रस्वीकरणाय अनुमतिं दत्तवती ।  

अहं चलन्ती गतवती । परन्तु यदा लोकेशन् पञ्चाशत् मीटर् दूरे भवदीयं स्थानं  वर्तते इति दर्शयति  तदा पुनरपि भ्रान्ता अभवम् । किं गृहं प्रवेष्टव्यम् ? इति निश्चयं कर्तुं न शक्तवती । तदानीं विभिन्नानि चिन्तनानि आरब्धानि । अहं आगमिष्यामि इति पूर्वसूचनां न दत्तवती । यदि सः अत्र न भवति चेत् किं करणीयम्, अथवा भानुवासरं चेदपि तस्य अद्य अनिवार्यं कार्यान्तरं स्यादेव । क्वचित् गत्वा द्वारताडनं करोमि चेत् कः आवश्यकः इति पृच्छति  चेत् किं वक्तव्यम् इत्यादिभिः प्रश्नैः मम मनः विक्षुब्धम् आसीत् । साक्षात् मातुलस्य गृहमेव गच्छेयं वा इत्यपि चिन्तनं प्रवृत्तम् । परन्तु उन्मत्तवत् कृतेन धैर्येण एतावत्पर्यन्तं प्राप्तवती अस्मि यत्किमपि वा भवतु तं मिलित्वैव गमिष्यामि इति निर्णीतवती । ग्रामे चेत् गृहान्वेषणं कियत् सरलम् । सर्वे सर्वं जानन्ति । ते एव गृहं प्रापयन्ति । अत्र प्रतिवेशी अपि न जानीयात् कौशिकम् इति चिन्तयन्ती अनन्यगतिकतया दूरवाणीं स्वीकृतवती ।

कौशिकः इति नाम्नः उपरि नुन्नवती । हृदयस्पन्दनं व्यत्यस्तम् । कण्ठः शुष्कः जातः ।

वदतु

ततः ध्वनिः श्रुतः ।

सर्वं कुशलम् । भवान् कथम् अस्ति?” इति पृष्टवती ।

किं वक्तव्यम् । अहं जीवामि इति प्रत्युत्तरम् आगतम् ।

भवान् द्रष्टव्यः मया

तावदेव खलु विडियो काल् करिष्यामि

न । भवन्तं साक्षात् मेलितुम् इच्छामि

ध्वनिः न श्रुतः ।

भवान् अधुना व्यस्तः तु नास्ति खलु । पुनरपि मया पृष्टम् ।

किं वदन्ती अस्ति भवती ? अहं बेङ्गलूरुनगरे अस्मि । भवती ग्रामे अस्ति । कथं मेलनं शक्येत ?

अहं भवतः गृहसमीपे बेङ्गलूरुनगरे एव अस्मि । परन्तु भवदीयं निवासस्थानं किम् इति स्पष्टतया न ज्ञायते । अत्रैव लघु उपाहारगृहम् अस्ति । तस्य पुरतः स्थिता अस्मि । आगन्तुं शक्नुयात् किम् ?

किं वदन्ती अस्ति भवती ? बेङ्गलूरुनगरे अस्ति वा ?

असत्यं न । अहम् अत्रैव अस्मि । दशनिमेषाभ्यन्तरे आगच्छति चेत् मेलिष्यामि

तावता मुखावरणधारी कश्चन मया दृष्टः । स एव कौशिकः । नीलवर्णीययुतकधारी भवान् एव ननु

अहं मन्दं तस्य समीपे गतवती । सः मम पुरतः स्थित्वा स्वस्य केशं प्रसाधयन् भवती कथम् अत्र आगता? इति पृष्टवान् ।

वर्षात् पूर्वम् एव कौशिकः साक्षात् दृष्टः मया । अहं दूरवाणीं भ्रामयन्ती निर्निमेषं तमेव पश्यन्ती आसम् ।

एवम् अनुक्तवा हठात् आगमनं कुतः कृतवती ? ”  सः अपृच्छत् ।

गाढम् आलिङ्ग्य मया क्षमा याचनीया इति चिन्तितम् । अतः अत्र आगतम्

तस्य मुखे अपि मम दर्शनेन महान् आनन्दः दृश्यते स्म । तत् वर्णयितुम् अशक्यम् ।

तस्य दूरवाणी शब्दम् अकरोत् । सः यावता दूरवाणीसम्भाषणं कृतवान् तावता अहं मम प्राप्तिम् अग्रजं सूचितवती ।

अल्पाहारः कृतः वा ? कौशिकः अपृच्छत् ।

आम् । रैलयाने एव कृतवती

रैलयानेन आगतवती वा ?

आम् । ह्यः मैसूरुनगरम् आगतवती आसम् । अद्य प्रातः अग्रजः रैलयाने उपवेशितवान् । मध्याह्ने मातुलगृहं गन्तव्यम्

सः किमपि अनुक्त्वा निवासदिशि मां नीतवान् ।

अद्य भवान् व्यस्तः वा.... तस्य क्लेशः न भवेत्  इतिधिया प्रष्टवती ।

भवती मां द्रष्टुम् आगतवती खलु । इतः परम् अहं यथा वदामि तथा शृणोतु । चिन्ता मास्तु

प्रकोष्ठं नीत्वा पातुं किं स्वीकरोति ? ओह् स्मृतम् । भवती चायं काफीं वा न पिबति । तदतिरिच्य जलम् एव अत्र वर्तते परिहासपूर्वकं तेन उक्तम् ।

तावता तस्य दूरवाणी शब्दम् अकरोत् । दशनिमेशं यावत् विश्रान्तिं स्वीकरोतु । अहमागतः इति दूरवाणीं गृहीत्वा बहिः गतः ।

अहं गृहस्य अन्तः प्रविष्टवती । लघु गृहं चेदपि सर्वं व्यवस्थितरूपेण स्थापितम् आसीत् । पाकशालायां पात्राणां दर्शनेन अस्य अल्पाहारः इतोऽपि न समाप्तः इति ज्ञायते स्म ।

अनुमतिं विना अन्यस्य पाकशालां प्रविष्टवती इति अपराधिभावः सकृत् मनसि प्रविष्टः । मदीयस्य कौशिकस्य गृहं खलु  । चिन्ता नास्ति इति अवहिता अभवम् ।

पाकशालायां पुरतः एव म्यागी दृष्टम्  । अद्य अहमेव पक्त्वा मम कौशिकं भोजयामि । इति जलं क्वथनार्थं स्थापितवती । क्षालनस्थाने स्थापितं चायपात्रं, अन्यत् लघुपात्रं च क्षालितवती । पाकशालायां शब्दं श्रुत्वा दूरवाण्या सम्भाषणमाणः कौशिकः आगतः ।

क्षन्तव्या । अनुमतिं विना ...........

 मम वाक्यं कर्तयित्वा अनुवर्तयतु इति हस्ताभिनयेन तेन सूचितम् ।

अहं खादनपात्रं तस्य पुरतः स्थापितवती ।

मम दूरवाण्यां सन्देशः आगतः । कुशलं खलु...   पितुः सन्देशः आसीत् ।

कुशलिनी अस्मि । अद्य रात्रौ प्रस्थानं करिष्यामि अहं प्रत्युत्तरं दत्तवती ।

 भवती म्यागी न खादति वा ?

न । मह्यं मास्तु ।

भवती तु वायुना एव जीवति । एतादृशं खाद्यं किमर्थम् ? मां परिहासपूर्वकम् उक्तवान् सः

अहं भुक्त्वा एव आगता । कोपेन उक्तवती । भोजनविषयः आगतः चेत् शतशः सन्देशानां विनिमयः भवति स्म आवयोः सम्भाषणे ।

आभासीयकक्ष्याः न सन्ति वा... भवत्याः तु सर्वदा विरामः एव खलु.. सः परिहासवाक्यम् उक्त्वा हसितुम् आरब्धवान् ।

बहूनां दिनानाम् अनन्तरं तस्य हासं पश्यन्ती आसम् । सः पात्रं प्रक्षाल्य मम समीपे उपविष्टवान् ।

अहम् आत्मानं न विश्वसितवती । अहं मम कौशिकेन सह उपविष्टवती अस्मि !!!...

अहं क्षन्तव्या । दीनतया उक्तवती ।

तथा कोऽपि अपराधः भवत्या न कृतः क्षमायाचनस्य अपेक्षा नास्ति । सः मम सान्त्वनम् अकरोत् ।

एवमेव मार्गे चलावः । भवत्या सह ऐदम्प्राथम्येन चलितुम् अहम् उत्सहे ।

मार्गे वृष्टिः आसीत् । एकस्मिन् एव छत्रे आवां गतवन्तौ । तदा बहूनि आत्मीयानि सम्भाषणानि प्रवृत्तानि । पुनरपि गृहं प्रत्यागतवन्तौ । घटी द्वादशवादनं दर्शयति स्म ।

मया गन्तव्यं कौशिक ! मातुलः प्रतीक्षते । अहं उक्तवती ।

मेट्रोनिस्थानकपर्यन्तं प्रापयिष्यामि । इत्युक्त्वा सोऽपि प्रस्थितः ।

मेट्रोनिस्थानके चिटिकां स्वीकृत्य अवरोधस्थानम् अवतीर्य अग्रे गता । सः ततः एव हस्तं चालयित्वा आपृष्टवान् ।

सः मम जीवनस्य इन्धनम् इव अस्ति । मम जीवनं चलनीयं चेत् अनिवार्यतया तेन मम हृदये भवितव्यम् । सः अस्ति इति भावः कदापि शून्यः न भवेत् । अहं चिन्तयन्ती आसम् । मेट्रो यानम् वेगेन अग्रे गच्छति स्म । अहं मम मनः तावतैव वेगेन कौशिकस्य समीपं नयामि स्म ।

तावता मातुः तर्जनध्वनिः श्रुतः । मम सङ्गणकयन्त्रं अपि निरन्तरं शब्दायते स्म । आभासीयकक्ष्या प्रविश्यताम् इति सूचना यन्त्रस्योपरि बृहद्भिः अक्षरैः दृश्यते स्म । अहं आच्छादकं क्षिप्त्वा सङ्गणकं नुत्त्वा विडियो आफ् कृत्वा दन्तकूर्चं स्वीकृत्य स्नानगृहं प्रस्थिता ।  

ಭಾನುವಾರ, ಜೂನ್ 25, 2023

ಕವಿನಾಮಾಂಕಿತ ಷಡರ ಚಕ್ರಬಂಧ

ವಿವಿಧ ಚಿತ್ರಗಳ ಆಕಾರದಲ್ಲಿ ಅಕ್ಷರಗಳನ್ನು ಜೋಡಿಸಿ ಪದ್ಯಗಳನ್ನು ರಚಿಸುವುದೇ ಚಿತ್ರಬಂಧ. ಮೊದಲು ಚಿತ್ರವನ್ನು ಬಿಡಿಸಿ ಅನಂತರ ಎಲ್ಲಿ ಯಾವ ಅಕ್ಷರಗಳು ಬರಬೇಕು, ಹೇಗೆ ಅವುಗಳ ಪುನರಾವರ್ತನೆಯಾಗಬೇಕು ಎಂದು ಕೂಲಂಕಷವಾಗಿ ನೋಡುತ್ತಾ ಒಂದು ವಿಷಯದ ಬಗ್ಗೆ ಅರ್ಥಗರ್ಭಿತವಾದ ಪದ್ಯವನ್ನು ಬರೆಯುವುದೇ ಕಷ್ಟಸಾಧ್ಯ. ಅಷ್ಟಾವಧಾನದಲ್ಲಿ ಇಂತಹ ಪದ್ಯ ರಚಿಸುವುದು ಅಸಾಧ್ಯ ಎಂದುಕೊಂಡರೆ ತಪ್ಪೇನಿಲ್ಲ. ಚಿತ್ರವು ಎದುರಿನಲ್ಲಿ ಇಲ್ಲದೆ, ಬರೆಯಲು ಪೆನ್ನೂ ಇಲ್ಲದಾಗ ಅನೇಕ ಜನರು ವಿವಿಧ ವಿಷಯಗಳನ್ನು ಕುರಿತಾಗಿ ಕೇಳುತ್ತಿರುವಾಗ, ಅನೇಕ ಛಂದಸ್ಸುಗಳಲ್ಲಿ ಪದ್ಯರಚನೆ ನಡೆಯುತ್ತಿರುವಾಗ ಇಂತಹ ಚಿತ್ರಬಂಧಗಳಿಗೆ ಅವಧಾನಿ ಕೈಹಾಕುವುದು ಸಾಹಸವೇ ಸರಿ.

ಶತಾವಧಾನಿ ಗಣೇಶ್ ಅವಧಾನಗಳಲ್ಲಿ ಚಿತ್ರಬಂಧಗಳನ್ನೂ ರಚಿಸಬಹುದು ಎಂಬುವುದನ್ನು ತೋರಿಸಿದ್ದಾರೆ. ಚಿತ್ರಬಂಧಗಳಲ್ಲೂ ಕೆಲವೊಂದು ಬಂಧಗಳು ಸರಳ ಎಂದೆನಿಸುತ್ತವೆ. ಇನ್ನು ಕೆಲವು ಬಂಧಗಳು ಸಂಕೀರ್ಣ. ನಿನ್ನೆಯ (24-06-2023) ಅವಧಾನದಲ್ಲಿ ಗಣೇಶಭಟ್ಟ ಕೊಪ್ಪಲತೋಟ ಸಂಕೀರ್ಣವಾದ ಬಂಧರಚನೆಗೆ ಕೈ ಹಾಕಿ ಸೈ ಎನಿಸಿಕೊಂಡಿದ್ದಾರೆ.

ಗಂಗಾನದಿಯ ವರ್ಣನೆಯನ್ನು ಕವಿನಾಮಾಂಕಿತ ಷಡರ ಚಕ್ರಬಂಧದಲ್ಲಿ ಮಾಡಿದ ಪದ್ಯ ಹೀಗಿದೆ.

ಜನ್ಯಳ್ ಜಾಹ್ನವಿ ತೋಷಕಂ ಪರಮದಳ್ ಸಾವಿಲ್ಲಿ ಪುಣ್ಯಪ್ರದಂ

ಧನ್ಯಾತ್ಮರ್ಗೆನೆ ಟಕ್ಕೆಯಂತರಕೆನಲ್ಕಾಚನ್ದ್ರನಾರ್ದ್ರತ್ವಮೇ-

ನನ್ಯಂ ನೀಗಿರೆ ಕರ್ಮಮೇ ವರಮವಳ್ ವಕ್ರತ್ವದಿಂ ತೋರ್ದುದೈ

ದೈನ್ಯಕ್ಕಂಜದಗಾಧಯಾನೆ ನರರಿಂದಂ ಪೂಜ್ಯೆ ಮೇಲ್ ಪಾರ್ವುದೈ

 ಜಾಹ್ನವಿ ಸಂತೋಷವನ್ನು ನೀಡುವವಳು, ಧನ್ಯರಿಗೆ ಗಂಗೆಯಲ್ಲಿನ ಸಾವು ಪುಣ್ಯವನ್ನು ನೀಡುವಂತಹದು, ಗಂಗೆ ಧರ್ಮಕ್ಕೆ ಧ್ವಜದಂತಿರುವವಳು (ಟಕ್ಕೆ – ಧ್ವಜ, ಅಱ- ಧರ್ಮ), ಚಂದ್ರನಂತೆ ಶೀತಲಳಾದವಳು, ಕರ್ಮಬಂಧವನ್ನು ಕಳಚಿ ಮೋಕ್ಷವನ್ನು ಕೊಡುವವಳು, ಭೂಮಿಯಲ್ಲಿ ವಕ್ರವಾಗಿ (ಓರೆಕೋರೆಯಾಗಿ) ಕಾಣಿಸುವವಳು, ದೀನಸ್ಥಿತಿಯಿದ್ದರೂ (ಭೂಮಿಗಿಳಿಯುವ ಸಂದರ್ಭದಲ್ಲಿ ಎಷ್ಟೇ ಕಷ್ಟ ಬಂದರೂ) ಹೆದರದೆ ಆಳವಾದ ಹರಿವಿನಿಂದ ಚಲಿಸುವವಳಾಗಿ, ಜನರಿಂದ ಪೂಜಿಸಲ್ಪಟ್ಟವಳಾಗಿ ಮೇಲೆ ಬಂದು (ಉಕ್ಕಿ) ಹರಿಯುತ್ತಿದ್ದಾಳೆ.

ಪದ್ಯದಲ್ಲಿನ ಅಕ್ಷರಗಳನ್ನು ಚಿತ್ರದಲ್ಲಿ ಬರೆದಾಗ ಆರು ಕಡ್ಡಿಗಳುಳ್ಳ ಚಕ್ರವೊಂದು ಸಿದ್ಧವಾಗುತ್ತದೆ. ಆದ್ದರಿಂದ ಷಡರ ಚಕ್ರಬಂಧ. ಈ ಚಕ್ರದಲ್ಲಿ ಆರನೆಯ ಅಕ್ಷರದಿಂದ ರಚಿತವಾದ ಸಣ್ಣ ಚಕ್ರವನ್ನು ನೋಡಿದಾಗ ಕವಿಯ ಹೆಸರು ಕಾಣಿಸುತ್ತದೆ. (ಚಿತ್ರದಲ್ಲಿ ಕೆಂಪು ಬಣ್ಣದಿಂದ ತೋರಿಸಲಾಗಿದೆ) ಆದ್ದರಿಂದ ಇದು ಕವಿನಾಮಾಂಕಿತ ಷಡರ ಚಕ್ರಬಂಧ.

ಮೊದಲ ಮೂರು ಸಾಲುಗಳನ್ನು ಮೂರು ಕಡ್ಡಿಗಳಲ್ಲಿ ಓದಬಹದು. ಕೊನೆಯ ಸಾಲು ಚಕ್ರದ ಪರಿಧಿಯಲ್ಲಿದೆ. ದೈ ಎಂಬಲ್ಲಿಂದ ಆರಂಭಿಸಿ ದೈ ಎಂಬುವುಬಲ್ಲಿಗೆ ಮುಗಿಯುತ್ತದೆ.

ಇಲ್ಲಿ ಇಂತಹ ಅರ್ಥಗರ್ಭಿತವಾದ ಸುಂದರ ಪದ್ಯಗಳನ್ನು ರಚಿಸುವಾಗ ಅನೇಕ ಸವಾಗಲುಗಳಿದ್ದವು

ಶಾರ್ದೂಲವಿಕ್ರೀಡಿತ ಛಂದಸ್ಸನ್ನು ಅನುಸರಿಸಬೇಕು.

ಪ್ರತಿ ಪಾದದ ಎರಡನೇ ಅಕ್ಷರ ಪ್ರಾಸಾಕ್ಷರವೇ (ನ್ಯ) ಇರತಕ್ಕದ್ದು.

ಕವಿಯ ಹೆಸರು ಬರುವಂತೆ ಮಾಡಲು ಮೊದಲ ಮೂರು ಪಾದಗಳ ಆರನೆಯ ಅಕ್ಷರಗಳು ತೋ,ಟ,ಕ ಎಂದೂ ಹದಿನಾಲ್ಕನೆಯ ಅಕ್ಷರಗಳು ವಿ, ಚ, ಕ್ರ ಎಂದೂ ಇರಬೇಕು

ಮೊದಲ ಮೂರು ಪಾದಗಳ ಹತ್ತನೆಯ ಅಕ್ಷರ ಇರಬೇಕು. ಅದು ಚಕ್ರದ ಮಧ್ಯದಲ್ಲಿರುತ್ತದೆ.

ಮೂರನೆಯ ಪಾದದ ಕೊನೆಯ ಅಕ್ಷರ, ನಾಲ್ಕನೆಯ ಪಾದದ ಮೊದಲನೆಯ ಹಾಗೂ ಕೊನೆಯ ಅಕ್ಷರಗಳು ಸಮಾನವಾಗಿರಬೇಕು. (ದೈ)

ಕೊನೆಯ ಸಾಲು ರಚಿಸುವಾಗ ಏಳು ಅಕ್ಷರಗಳು ಮೊದಲೇ ಸಿದ್ಧವಾಗಿರುತ್ತವೆ. ಅದಕ್ಕನುಗುಣವಾಗಿ ಅರ್ಥ ಬರುವಂತೆ, ಛಂದಸ್ಸು ತಪ್ಪದಂತೆ ಉಳಿದ ಹನ್ನೆರಡು ಅಕ್ಷರಗಳನ್ನು ಜೋಡಿಸಬೇಕು.

ಇವಿಷ್ಟನ್ನೂ ಮನಸ್ಸಿನಲ್ಲಿಟ್ಟುಕೊಂಡು ಅವಧಾನದ ಇತರ ಅಂಗಗಳ ನಡುವೆಯೇ ಪದ್ಯ ರಚಿಸಬೇಕು.

ಇಂತಹ ಕಷ್ಟಕರವಾದ ಕವಿನಾಮಾಂಕಿತ ಷಡರಚಕ್ರಬಂಧವನ್ನು ಸುಂದರವಾಗಿ ರಚಿಸಿದ ಗಣೇಶ ಭಟ್ಟ ಕೊಪ್ಪಲತೋಟ ನಿಜವಾಗಿಯೂ ಅಭಿನಂದನಾರ್ಹರು.



ಶನಿವಾರ, ಆಗಸ್ಟ್ 28, 2021

ज्ञात्रज्ञानेन वञ्चितः

समाजे उन्नतस्थानं प्राप्तवतां ज्येष्ठानां मेलनं रोमाञ्चं जनयति । संस्कृतक्षेत्रे विद्यमानाः ज्येष्ठाः मां न परिचिनुयुः इति अहं भावयामि । यतो हि अहं सामान्यः । विद्वत्सभासु वा इतरत्र वा सर्वे यथा पश्येयुः तादृशे स्थाने तु अहं न भवामि । केचन विद्वद्भिः सह कपटविनयं दर्शयित्वा सम्भाषमाणाः भवन्ति । (तुळुभाषया ओङ्गुना इति पदं विद्यते तस्य समानार्थकपदं भाषान्तरेषु अहं न स्मरामि ) । अहं न तादृशः । यदि तेषां समयस्वीकारे मम अधिकारः अस्ति इति भासेत तर्हि एव ज्येष्ठैः सह भाषे । नो चेत् तेभ्यः दूरदेशे एव भवामि । अपरिचितः कश्चित् मया सह भाषमाणः अस्ति इत्येतस्य भावः मम कारणतः तेषां न भवेत् इति मम मतिः । परन्तु अद्यत्वे आन्तर्जालिककार्यक्रमाणां प्रभावतः बहवः अस्मान् दृष्टवन्तः भवन्ति । अनेके परिचिन्वन्ति च ।

काचित् व्याख्यानमाला मम वासस्थानस्य समीपे एव प्रचलति । तत्र व्याख्यानमालां द्रष्टुम् अहं गतवान् । करोनाकारणतः अङ्गुलिमेयाः एव जनाः  आसन् । व्याख्याता विद्वान् मम गुरुः । सः तु मां परिचिनोति, तेन सह मम आत्मीयता अपि अस्ति । तत्रोपस्थितेषु विद्वत्सु अनेकान् अहं परिचिनोमि । मां ते न परिचिनुयुः इत्येव चिन्तितवान् आसीत् । परन्तु मत्पार्श्वे उपविष्टः देशस्य प्रख्यातः संस्कृतविद्वान् मामेव पश्यति स्म । एवं मयि दीर्घं दृष्टिं दधतः तस्य अवज्ञा न कार्या इति धिया अहं तं शिरः अवनमय्य साञ्जलिः प्रणतवान् । 

'किं भोः सूर्य! अस्यां सभायां कदाचित् भवतः अपि व्याख्यानं भवेत्' इति सः ज्येष्ठः विद्वान् अवोचत् । एषः मां न केवलं परिचिनोति परन्तु मम नाम अपि जानाति इति ज्ञात्वा विस्मितः । मम भाषणं कुत्रापि अयं श्रुतवान् स्यात् । नो चेत् अत्र भवान् कदाचित् भाषेत इति कथं वा सः वक्तुं शक्नुयात्? सभायां व्याख्यानं प्रचलद् एव आसीत् इति कारणतः तेन सह अधिकसम्भाषणाय अवसरः मया न लब्धः । कार्यान्तरवशात्  सभातः उत्थाय आगतः । 

परन्तु सः मां न जानाति इति मत्वा अहं यदि तस्य वन्दनं नाकरिष्यं तर्हि किम् अचिन्तयिष्यत् सः? एषः अहङ्कारी वर्तते । विनयः एव नास्ति इति निश्चयेन अचिन्तयिष्यत् । तस्य स्थाने यदि अहम् अभविष्यं तर्हि निश्चयेन तथा अचिन्तयिष्यम् । सर्वे मां जानन्ति इति गर्वः यथा उन्नतेर्बाधकः तद्वदेव एषः मां न जानीयात् इति अवज्ञापि ज्येष्ठाशीर्भिः वञ्चनस्य हेतुः भवेत् ।


ಶುಕ್ರವಾರ, ಜೂನ್ 18, 2021

ಒಂದು ನಿದ್ದೆಯ ಕತೆ

 ದೇವರ ದಯೆಯಿಂದ ನಿದ್ದೆಯ ವಿಚಾರದಲ್ಲಿ ನಾನು ಅದೃಷ್ಟವಂತ. ಎಷ್ಟು ಹೊತ್ತು ಮಲಗಿದರೂ ಎಲ್ಲೇ ಮಲಗಿದರೂ ನಿದ್ದೆ ಬರುತ್ತದೆ. ಕೆಲವೊಂದು ಸಲ ನಿದ್ದೆಮಾಡಬಾರದಾದ ಸ್ಥಳದಲ್ಲೂ ನಿದ್ದೆ ಬರುವುದುಂಟು. ಈ ವಿಷಯದಲ್ಲಿ ಪಿ.ಎಚ್.ಡಿ ಯ ತರಗತಿಗಳಿಗೋಸ್ಕರ ಪ್ರಯಾಗದಲ್ಲಿದ್ದಾಗ ನಡೆದ ಘಟನೆಯೊಂದನ್ನು ಎಂದಿಗೂ ಮರೆಯಲು ಸಾಧ್ಯವಿಲ್ಲ.

ಮಾರ್ಚ್ ತಿಂಗಳಿಗಾಗಲೇ ಚಳಿ ಕಳೆದು ಸೆಖೆ ಆರಂಭವಾಗಿತ್ತು. ನಮ್ಮ ತರಗತಿಗಳೂ ಮಾರ್ಚ್ ತಿಂಗಳಲ್ಲೇ ನಡೆಯುತ್ತಿದ್ದವು. ಹಿರಿಯ ವಿದ್ವಾಂಸರ ಭಾಷಣಗಳನ್ನು ಅಲ್ಲಿ ಆಯೋಜಿಸಲಾಗುತ್ತಿತ್ತು. ಕೆಲವು ಹಿರಿಯರ ಮಾತುಗಳು ಹೊರಗಡೆ ಶೃಂಗಾರ ಒಳಗಡೆ ಗೋಳಿಸೊಪ್ಪಿನಂತೆ ಇರುತ್ತವೆ. ಇಂತಹ ಸಂದರ್ಭದಲ್ಲಿ ಪ್ರಯಾಗದ ಹಿರಿಯ ವಿದ್ವಾಂಸರಾದ ಪ್ರೊ. ಹರದತ್ತ ಶರ್ಮಾ ಅವರ ವ್ಯಾಖ್ಯಾನವನ್ನು ನಮ್ಮ ವಿಶ್ವವಿದ್ಯಾಲಯದಲ್ಲಿ ಆಯೋಜಿಸಲಾಗಿತ್ತು. ಯಾವುದೋ ವಿಷಯದ ಬಗ್ಗೆ ಹಿಂದಿಯಲ್ಲಿ ಮಾಡುತ್ತಿದ್ದ ವ್ಯಾಖ್ಯಾನ ನನಗಂತೂ ಜೋಗುಳ ಹಾಡಿದಂತಾಗಿತ್ತು. ಅಲ್ಲದೇ ಕಂಬವೊಂದಕ್ಕೆ ಒರಗಿಕೊಂಡು ಕೂತಿದ್ದೆ. ಇದರಿಂದಾಗಿ ವ್ಯಾಖ್ಯಾನ ನಡೆಯುತ್ತಿದ್ದಾಗ ಚೆನ್ನಾಗಿ ನಿದ್ದೆ ಮಾಡಿದ್ದೆ.

ಬೋಧಿಸುತ್ತಿರುವವರೂ ಗಮನಿಸಿದರು. ಹತ್ತು ನಿಮಿಷಗಳ ನಂತರ ನನ್ನ ಪಕ್ಕದವನ ಹತ್ತಿರ ನನ್ನನ್ನು ಎಬ್ಬಿಸಲು ಹೇಳಿದರು. ನಾನು ಆವಾಗಿನಿಂದ ನೋಡ್ತಾ ಇದ್ದೆ. ನೀನೇ ಏಳುತ್ತೀ ಅಂತ ಅಂದುಕೊಂಡೆ. ಆದರೆ ನಿನಗೆ ಎಚ್ಚರವಾಗಲಿಲ್ಲ, ಆದ್ದರಿಂದ ಎಬ್ಬಿಸಲು ಹೇಳಿದೆ ಎಂದರು. ನಾನು ಎದ್ದುನಿಂತು ನನ್ನನ್ನು ಕ್ಷಮಿಸಿ ಎಂದು ಹೇಳಿದೆ. 

ನಮ್ಮ ತರಗತಿಯ ಮುಖ್ಯಸ್ಥರಾಗಿದ್ದ ಪ್ರೊ.ಲಲಿತ್ ಕುಮಾರ್ ತ್ರಿಪಾಠಿಯವರಿಗೆ ಅವಮಾನವಾದಂತಾಯಿತು. ತಾನು ಕರೆಸಿದ ವಿದ್ವಾಂಸರ ತರಗತಿಯಲ್ಲಿ ವಿದ್ಯಾರ್ಥಿಯೊಬ್ಬನು ನಿದ್ದೆ ಮಾಡುತ್ತಿದ್ದಾನೆಂದರೆ ಅವಮಾನವಲ್ಲವೇ ? ತಕ್ಷಣವೇ ನನ್ನನ್ನು ಎದುರಿಗೆ ಕರೆದು ಕೂರಿಸಿದರು. ತದನಂತರ ನನ್ನ ನಿದ್ದೆಗೂ ಸಮಜಾಯಿಷಿ ಕೊಟ್ಟರು. दक्षिण में लोगों के आदत ऐसा है । मैं जब दक्षिण में गया था तब देखा । दोपहर में खाने के बाद सब लोग सो जातें हैं । चार बजे तक सब बंद रहते है । इसके बाद फिर से सब काम चालू हो जाता है । ये लडका दक्षिण का है इसलिए सो रहा था ।

ಅವರೇನೂ ಕೋಪಿಸಿಕೊಳ್ಳಲಿಲ್ಲ. ಹಿರಿಯರಾದ ಅವರು ತರಗತಿಯಲ್ಲಿ ನಿದ್ದೆ ಮಾಡುವ ನನ್ನಂತಹ ಎಷ್ಟು ಜನರನ್ನು ನೋಡಿರಲಿಕ್ಕಿಲ್ಲ? ತಮ್ಮ ಬೋಧನೆ ಮುಗಿಸಿ ತೆರಳಿದರು. ತದನಂತರ ಪ್ರೊ.ಲಲಿತ್ ಕುಮಾರ್ ತ್ರಿಪಾಠಿ ಅವರು ಇಡಿಯ ತರಗತಿಯನ್ನು ತರಾಟೆಗೆ ತೆಗೆದುಕೊಂಡರು. ನೀವು ಪಾಠ ಕೇಳುವುದಿಲ್ಲ. ನಾವು ನಿಮಗೆ ಬೋಧಿಸಲಿಕ್ಕೆ ಯಾರ್ಯಾರನ್ನೋ ಕರೆಸುತ್ತೇವೆ. ಅವರೆದುರು ನೀವು ಮರ್ಯಾದೆ ತೆಗೆಯುತ್ತೀರಿ ಎಂದು ಎಲ್ಲರನ್ನೂ ಬೈದರು. ಕೊನೆಯಲ್ಲಿ ವಿಶೇಷವಾಗಿ ನನ್ನನ್ನುದ್ದೇಶಿಸಿ सूर्य, आप क्यों सोते हैं जिससे हमें ऐसे बहाना बनाना पडता है । ಏನನ್ನೂ ಉತ್ತರಿಸುವ ಸ್ಥಿತಿಯಲ್ಲಿ ನಾನಿರಲಿಲ್ಲವಾದ್ದರಿಂದ ಮೌನಿಯಾದೆ.


ಸೋಮವಾರ, ಜೂನ್ 7, 2021

ಭಾಷೆಗಳೂ ಶಬ್ದಗಳೂ ಅನುವಾದವೂ

ಭಾಷಾಪ್ರಪಂಚ ವಿಚಿತ್ರವಾದುದು. ಭಾಷೆಗಳ ನಡುವೆ ಕಾಣುವ ವೈಶಿಷ್ಟ್ಯಗಳನ್ನು ಪಟ್ಟಿ ಮಾಡುತ್ತಾ ಹೋದರೆ ಮುಗಿದಷ್ಟು ಅಂಶಗಳು ದೊರೆಯಬಹುದು. ವ್ಯಾಕರಣದ ನಿಯಮಗಳನ್ನು ಕಲಿತು ಮಾತನಾಡುವುದಕ್ಕಿಂತ ಮಾತನಾಡುತ್ತಿರುವವರ ನಡುವೆ ಕಲೆತು ಮಾತನಾಡಿದಾಗ ಭಾಷೆ ಹೆಚ್ಚು ಆಪ್ತವಾಗುತ್ತದೆ. ಸಾಮಾನ್ಯವಾಗಿ ಹೊಸ ಭಾಷೆಗಳನ್ನು ಕಲಿಯುವಾಗ ನಮಗೆ ಗೊತ್ತಿರುವ ಭಾಷೆಯಲ್ಲಿ ಯೋಚಿಸಿ ಆ ವಾಕ್ಯವನ್ನೇ ತರ್ಜುಮೆ ಮಾಡುತ್ತೇವೆ. ಯಾವಾಗ ಚಿಂತನೆಯಲ್ಲೂ ಭಾಷೆಯೊಂದು ಒದಗಿ ಬರುತ್ತದೆಯೋ ಆವಾಗ ಆ ಭಾಷೆ ಆಪ್ತವಾದಂತೆ ಎಂಬುವುದು ಅನೇಕರ ಅಭಿಪ್ರಾಯ.

ನನ್ನ ವಿಚಾರಕ್ಕೆ ಬರುವುದಾರೆ ಮನೆಯಲ್ಲಿ ಆಡುವ ಚಿತ್ಪಾವನೀ ಭಾಷೆ, ಶಾಲೆಯಲ್ಲಾಡಿದ ಕನ್ನಡ, ಕಾಲೇಜು ಹಾಗೂ ಉದ್ಯೋಗದ ಸ್ಥಳದಲ್ಲಾಡುತ್ತಿರುವ ಸಂಸ್ಕೃತ ಹೀಗೆ ಮೂರು ಭಾಷೆಗಳು ಆಪ್ತವಾದ ಭಾಷೆಗಳಾಗಿವೆ.  ಈ ಭಾಷೆಗಳಲ್ಲಾಡುವಾಗ ಅದೇ ಭಾಷೆಯಲ್ಲಿ ಯೋಚನೆಯನ್ನೂ ಮಾಡುತ್ತೇನೆ.  ಕೆಲವೊಂದು ಕಡೆಗಳಲ್ಲಿ ಮೂರೂ ಭಾಷೆಯ ವಾಕ್ಯರಚನಾಶೈಲಿ ಭಿನ್ನವಾಗಿದೆ. ಉದಾಹರಣೆಗೆ ನಾನು ನಿನ್ನೊಂದಿಗೆ ಬರುತ್ತೇನೆ ಎನ್ನುವಾಗ ನಿನ್ನ ಎಂದು ಷಷ್ಠೀ ವಿಭಕ್ತಿಯನ್ನು ಕನ್ನಡದಲ್ಲೂ, ತೂಸವ ಏಸ ಎನ್ನೂವಾಗ ತೂ ಎಂದು ಪ್ರಥಮಾ ವಿಭಕ್ತಿಯನ್ನು ಚಿತ್ಪಾವನೀ ಭಾಷೆಯಲ್ಲಿಯೂ, ಭವತಾ ಸಹ ಆಗಚ್ಛಾಮಿ ಎನ್ನುವಾಗ ಭವತಾ ಎಂದು ತೃತೀಯಾ ವಿಭಕ್ತಿಯನ್ನು ಸಂಸ್ಕೃತದಲ್ಲಿಯೂ ಬಳಸಲಾಗುತ್ತದೆ. ಸಂಸ್ಕೃತದಲ್ಲಿ ಇಂತಹ ಸಂದರ್ಭದಲ್ಲಿ ತೃತೀಯಾವಿಭಕ್ತಿಯನ್ನು ಬಳಸಬೇಕು ಎಂಬ ನಿಯಮವನ್ನು ನಾನು ಓದಿರುವೆನಾದರೂ ಮಾತನಾಡುವಾಗ ನಿಯಮವನ್ನು ನೆನಪಿಸಿಕೊಂಡು ಮಾತನಾಡುವುದಿಲ್ಲ. ಅದು ಸಹಜವಾಗಿಯೇ ನನ್ನ ಬಾಯಿಯಿಂದ ಬರುತ್ತದೆ. 

ಹೀಗಿದ್ದರೂ ಕೂಡಾ ಕೆಲವೊಮ್ಮೆ ಒಂದು ಭಾಷೆಯ ಪ್ರಭಾವ ಮತ್ತೊಂದು ಭಾಷೆಯ ಮೇಲೆ ಆಗುವುದಿದೆ. ಕನ್ನಡ ಮಾತನಾಡುವಾಗ ಹಲವಾರು ಬಾರಿ ಸಹಜವಾಗಿ ಸಂಸ್ಕೃತದ ಶಬ್ದಗಳು ಬರುತ್ತವೆ. ಒಂದು ಭಾಷೆಯ ಗುಂಗಿನಲ್ಲಿದ್ದಾಗ ಮತ್ತೊಂದು ಭಾಷೆಯಲ್ಲಿ ಮಾತನಾಡತೊಡಗಿದರೆ ಗುಂಗಿನಲ್ಲಿರುವ ಭಾಷೆಯ ಶಬ್ದಗಳೇ ಬರಲಾರಂಭಿಸುತ್ತವೆ. ಕೆಲವೊಂದು ಬಾರಿ ಶಬ್ದಶಃ ಅನುವಾದವೂ ಆಗಿಬಿಡುತ್ತದೆ.

ನನ್ನ ದೂರದ ಸಂಬಂಧಿಯೊಬ್ಬರು ಮದುವೆಗಾಗಿ ಬೆೆಂಗಳೂರಿನಿಂದ ಊರಿಗೆ ಹೊರಡುತ್ತಿದ್ದರು. ನಾನು ಕೂಡಾ ಅವರ ಮನೆಗೆ ತಯಾರಿಗೆಂದು ಹಿಂದಿನ ದಿನವೇ ಹೋಗಿದ್ದೆ. ಅವರ ಮನೆಯಲ್ಲಿ ಚಿತ್ಪಾವನೀಯನ್ನು ಮಾತನಾಡುತ್ತಾರೆ. ಅವರ ಪಕ್ಕದ ಮನೆಯಲ್ಲೂ ಚಿತ್ಪಾವನೀಯನ್ನಾಡುವ ಕುಟುಂಬವೊಂದಿದೆ. ಬೆಳಿಗ್ಗೆ ಬೇಗ ಕಾರಿನಲ್ಲಿ ಅವರು ಹೊರಟರು. ನಾನು ಅವರನ್ನು ಬೀಳ್ಕೊಟ್ಟು ಬರುವಾಗ ಪಕ್ಕದ ಮನೆಯವರು ಕಂಡರು. ಅವರಲ್ಲೂ ಚಿತ್ಪಾವನೀಯಲ್ಲಿ ಮಾತಾಡಿ ಮನೆಗೆ ವಾಪಾಸ್ಸಾದಾಗ ಮೇಲಿನ ಮನೆಯವರು ಕಂಡರು. ಇವರಲ್ಲೂ ಹೊರಟದ್ದನ್ನು ತಿಳಿಸೋಣ ಎಂದುಕೊಂಡೆ. ಚಿತ್ಪಾವನೀ ಗುಂಗಿನಲ್ಲಿದ್ದ ನಾನು ಕನ್ನಡದಲ್ಲಿ ಆರಂಭಿಸಿದೆ.

ಈಗಷ್ಟೇ ಹೋದ್ರು ಅಂತ ಹೇಳಿದೆ. ಈ ವಾಕ್ಯಕ್ಕೆ ಕನ್ನಡದಲ್ಲಿ ಅಮಂಗಲಕರವಾದ ಅರ್ಥವಿದೆ. ಇದನ್ನು ನಾನೂ ತಿಳಿಯದವನೇನಲ್ಲ. ಆದರೆ ಚಿತ್ಪಾವನೀ ಭಾಷೆಯ ಎಷ್ಶಾ ಗೆಲ್ಲಿ ಎಂಬುವುದರೆ ಶಬ್ದಾನುವಾದ ಈಗಷ್ಟೇ ಹೋದ್ರು ಎನ್ನುವುದು. ಹಿಂದಿನ ದಿನದಿಂದ ಇದ್ದ ಚಿತ್ಪಾವನೀಯ ಗುಂಗು ನನ್ನ ಬಾಯಿಯಿಂದ ಈ ಮಾತನ್ನಾಡಿಸಿತ್ತು. ಕೇಳಿಸಿಕೊಂಡವರು ಹೊರಟ್ರಾ..... ಒಳ್ಳೆದಾಯ್ತು ಎಂದು ಹೇಳಿದಾಗ ನನ್ನ ವಾಕ್ಯದ ಅಮಂಗಳಕರವಾದ ಅರ್ಥ ಹೊಳೆಯಿತು. 

ಹೀಗೆ ಕೆಲವೊಂದು ಬಾರಿ ನಮ್ಮ ಗುಂಗಿನಲ್ಲಿರುವ ಭಾಷೆಯಿಂದ ಹೊರಬರಲಾಗುವುದಿಲ್ಲ. ಆದರೂ ಕೂಡಾ ಇಂತಹ ಸಂದರ್ಭಗಳಲ್ಲಿ ಅನರ್ಥಗಳೇನೂ ಘಟಿಸುವುದಿಲ್ಲ. ಭಾಷಾವಿಷಯದಲ್ಲಿ ಯೋಚಿಸುವವರು ಈ ಹಾದಿಯಲ್ಲೂ ಯೋಚನಾಲಹರಿಯನ್ನೂ ವಿಸ್ತರಿಸಬಹುದು.

मम कौशिकः

कन्नडमूलम्- अनघा शिवरामः संस्कृतभावानुवादः - सूर्यहेब्बारः ।   करोनारोगस्य द्वितीयतरङ्गः आरब्धः आसीत् । पदवीविद्यालये पठन्त्याः मम कक्ष्याः ...