ಶನಿವಾರ, ಫೆಬ್ರವರಿ 27, 2021

कृष्णाय मणिहाराः

(मणिहारबन्धे इमानि पद्यानि रचितानि । बन्धेस्मिन् प्रतिपादं अनुष्टुप्छन्दसि द्वितीय-चतुर्थ-षष्ठवर्णाः समानाः भवन्ति । प्रथमपद्यं सचित्रं दर्शितम् ।)


लोकलोकनकर्तव्याद्द्वापरे पदपद्मकम् ।

यः कृत्वा कृतकृत्यस्तं श्रीपङ्गोपनृपम्भजे ॥१॥

शैशवे शत्रुशक्तीनां मारणं रणरङ्गके

व्यधत्त धर्मधर्ता तं श्रीपङ्गोपनृपम्भजे ॥२॥

संहृत्य हृत्सुहृद्भावात्क्षीरञ्च रसरञ्जितम् ।

रेजे व्रजेऽब्धिजेशस्तं श्रीपङ्गोपनृपम्भजे ॥३॥

गिरिधारिहरिस्त्राता कुनागनाशनाद्धितः ।

लीलाकुलाकुलाङ्गस्तं श्रीपङ्गोपनृपम्भजे ॥४॥

यशोदेशो यशोदाया यो राधारागराट्प्रभुः

नन्दनन्दनस्तं हि श्रीपङ्गोपनृपम्भजे ॥५॥

कंसध्वंसनसत्कार्यधीरक्रूरवरप्रदः ।

सताम्पातावतारी तं श्रीपङ्गोपनृपम्भजे ॥६॥

क्रूरान्घोराञ्जरासन्धादीनरीनहनद्धिया ।

यः सदा सत्सु सश्रीस्तं श्रीपङ्गोपनृपम्भजे ॥७॥

रमा भामा च माधुर्ययुते एते वृते पुनः ।

येनाङ्गनास्सनाथास्तं श्रीपङ्गोपनृपम्भजे ॥८॥

सुदाम्नेऽदान्मुदा सख्ये  योऽभयं भयभञ्जकः ।

सुभद्रां भद्रभर्त्रे, तं श्रीपङ्गोपनृपं भजे ॥९॥

गीता माता सताय्येँन प्रदिष्टा दिव्यदिक्प्रदा ।

सदेष्टं देवदेवं तं श्रीपङ्गोपनृपं भजे ॥१०॥ 



चित्रलेखनम्- कीर्ति अडिगा

(इमानि पद्यानि सम्पूर्णानन्दविश्वविद्यालयद्वारा आयोजितायां काव्यकल्लोलिनीनाम्न्याम् आन्तर्जालिककविगोष्ठ्यां प्रस्तुतानि ।)

ಕಾಮೆಂಟ್‌ಗಳಿಲ್ಲ:

ಕಾಮೆಂಟ್‌‌ ಪೋಸ್ಟ್‌ ಮಾಡಿ

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...