तत्त्वज्ञानविशालाब्धिलीलातरणपण्डितः
।
व्यराजद्भारते पूर्वं
राधाकृष्णो महागुरुः ।। १ ।।
राधाकृष्णवर्यः महातत्त्वज्ञः
आसीत् इति अस्य श्लोकस्य पृष्ठभूमिका ।
यमाश्रित्य महीशूरकाश्यादिषु
सरस्वती ।
व्यजृम्भत स भाति स्म
राधाकृष्णो महागुरुः ।। २ ।।
मैसूरुविश्वविद्यालये
बनारस्-हिन्दूविश्वविद्यालये च राधाकृष्णः अध्यापनम् अकरोत् इति श्लोकस्य
पृष्ठभूमिका ।
राजदूतपदे स्थित्वा
सर्वशान्त्यै श्रमं व्यधात् ।
विश्वे भारतकीर्त्यै च
राधाकृष्णो महागुरुः ।। ३ ।।
भारतस्य राजदूतत्वेन कार्यं
निरूह्य विश्वशान्त्यै राधाकृष्णः प्रयत्त्वान् इति श्लोकस्य पृष्ठभूमिका ।
राष्ट्राध्यक्षेषु दक्षोऽयमिति
योऽद्यापि गीयते ।
भारते सज्जनैर्नित्यं
राधाकृष्णो महागुरुः ।। ४ ।।
राधाकृष्णः राष्ट्रपतिपदे
आसीत् इति श्लोकस्य पृष्ठभूमिका ।
ग्रन्थाज्ज्ञानं ततस्तोषः
पठतेति सदा वदन् ।
ज्ञानज्योतिर्नृहृद्दीपे
राधाकृष्णो महागुरुः ।। ५ ।।
सर्वेऽपि अध्ययनं सम्यक्
कुर्युः इति राधाकृष्णः वदति स्म इति श्लोकस्य पृष्ठभूमिका ।
प्राचीननूत्नऋषिभिर्भारतीयैर्यदीरितम्
।
अलेखीत्तद्विमर्शं च
राधाकृष्णो महागुरुः ।। ६ ।।
तत्त्वशास्त्रविमर्शग्रन्थान्
राधाकृष्णः अरचयत् इति श्लोकस्य पृष्ठभूमिका ।
राष्ट्राध्यक्षगृहं
शिम्लास्थितमुन्नतशिक्षणे ।
स्तम्भं व्यधात् स भातीह
राधाकृष्णो महागुरुः ।। ७ ।।
शिम्लास्थं राष्ट्रपतिभवनम् IIAS निर्माणार्थम् राधाकृष्णः अददात् इति श्लोकस्य पृष्ठभूमिका
।
मितभाष्यमितभाषी च
च्छात्राब्जानां दिवाकरः ।
राजते शिक्षकश्रेष्ठो
राधाकृष्णो महागुरुः ।। ८ ।।
यद्यपि राधाकृष्णः मितं भाषते स्म
तथापि बह्वीः भाषाः जानाति स्म इति श्लोकस्य पृष्ठभूमिका ।
