जीवने औपचारिकरूपेण बहु किमपि वयं पठामः । अनौपचारिकरूपेण यत्पठितं तस्य तु महत्त्वं औपचारिकशिक्षायाः अपेक्षया अधिकमेव वर्तते इति मे मतिः । यतो हि विद्यालये अङ्कप्राप्त्यर्थं यदा पठ्यते तदानीं यान्त्रिकतां वयमनुभवामः । पाठ्यक्रमः अयम् इति निर्दिश्य तन्निमित्तं समयसीमा अपि निर्दिश्यते चेत् तत्र पाठनेऽपि आनन्दः न भवति । परन्तु स्थूलरूपेण किञ्चन पाठ्यक्रमं निश्चित्य वस्तुतः ज्ञानस्य सम्प्रसारणायैव यत् पाठनं क्रियते तत्र तु अध्यापकस्य छात्रस्य च महान् लाभः वर्तते ।
नाहं शिक्षकः शिक्षाशास्त्री वा । केषाञ्चन अनुभवानाम् आधारेण यत्किमपि यदि स्फुरति तर्हि तस्य संविभागम् अत्र करोमि । मम मातुः चिकित्सावसरे शस्त्रचिकित्सकः आगत्य प्रतिदिनं कुशलं पृच्छति स्म । कस्मिंश्चित् दिने मातरं परीक्ष्य तत्र विद्यमानान् वैद्यकीयच्छात्रान् अनुवैद्यान् च उद्दिश्य पञ्च निमेषान् यावत् किमपि उक्तवान् । तेन उक्तः विषयस्तु मया किञ्चिदपि नावगतः । परन्तु इदमवगतं यत् तेन उच्यमानः विषयः वैद्यकीयक्षेत्रे सद्यःप्रविष्टानां तासां महते उपकाराय भवति इति । यदि एतमेव विषयं सः औपचारिकरूपेण कक्ष्ययाम् अपाठयिष्यत् तर्हि एतावान् प्रभावः छात्राणाम् अभविष्यत् इति वक्तुं न शक्यते ।
एतादृशानाम् अनौपचारिकाध्ययनानां प्रयोजनं बहुधा मया प्राप्तम् इति मम आनन्दः विद्यते । शृङ्गेरीं गतवान् अहं छात्रावासे वासम् अकरवम् इति कारणतः बहुविधाम् अनौपचारिकशिक्षां प्राप्तवान् । तत्र विद्यालयस्य मम च भावनात्मकः सम्बन्धः आसीत् । अतः विद्यालयस्य दोहनं यावत् कर्तुं शक्यते तावत् छात्रावस्थायां मया कृतम् । २०१६-२०१७ तमे वर्षे पुरस्कारस्य धनराशिः, स्पर्धार्थं गमनागनव्ययः, प्रयाणे भोजनव्यवस्था, विद्यार्थिवेतनम्, इत्येतेषां चतुर्णाम् अंशानां कृते विद्यालयेन मम कृते एकलक्षरूप्यकाणां व्ययः कृतः वर्तते । एवं विद्यालयस्थं सर्वमपि मदीयम् इति भावः यदा भवति तदा तु अनौपचारिकरूपेण पठनस्य अवसराः बहवः लभ्यन्ते ।
ये च विद्यालयपरिसरात् बहिः वसन्ति तेषाम् एतादृश-अनौपचारिकशिक्षाप्राप्तिः न भवति । (जीवनदृष्ट्या पश्यामः चेत् ते अपि अनेकान् पाठान् पठेयुः । परन्तु विद्यालयं प्रविष्टवता च्छात्रेण यावद्विद्यालयतः प्राप्तव्यं तावत् न प्राप्यते इति कथनस्य आशयः ।) अतः यदि सौकर्यं वर्तते तर्हि यावच्छक्यं विद्यालयपरिसरे एव वासः क्रियते चेत् बहुविधम् अनौपचारिकं ज्ञानं प्राप्तुं शक्यते इति अनुभवस्तु जातः । एवं प्राप्तम् अनौपचारिकज्ञानमेव अस्माकम् अग्रिमजीवनं कष्टरहितं यथा स्यात् तथा करोति ।
अन्येषां भाषणादिश्रवणे महती रुचिः मम । तदानीं समग्रस्य विषयस्य ग्रहणं तु न भवति । परन्तु कतिचन वाक्यानि तु बुद्धिं प्रविशन्ति स्म । तादृशवाक्येषु सुभाषितानि बहूनि भवन्ति स्म । प्रौढशालायामपि मम संस्कृतविषयः नासीत् इति हेतोः विद्यालयप्रवेशात् प्राक् अहम् एकमपि सुभाषितं न जानामि स्म । विद्यालयागमनानन्तरमपि एकमपि सुभाषितं न कण्ठस्थीकृतवान् । परन्तु अनेकानि सुभाषितानि मम कण्ठे विद्यन्ते । कदाचित् कश्चित् मां घण्टाद्वयं यावत् बोधनम् अकरोत् । तदा तस्य वाक्यानि श्रुत्वा दशाधिकसुभाषितानि मया स्मृतानि । तेषु एकमपि सुभाषितम् औपचारिकरूपेण पठितं नासीत् ।
व्याकरणविषये अपि समाना स्थितिः । मम तु अलङ्कारशास्त्रम् । मन्दमतयः संस्कृतमधीयते । तत्रापि मन्दमतितराः अलङ्कारशास्त्रमधीयते इति स्थितिः समाजे वर्तते । अतः अलङ्कारशास्त्रं पठितुं प्रवृ्त्तः अहं मन्दः एव स्याम् । तथापि व्याकरणविषये मम महती आसक्तिः । मधुकेश्वरभट्ट-प्रियव्रतमिश्र-प्रमोद-जयकृष्णसदृशाः उत्कृष्टाः वैयाकरणाः प्राक्शास्त्रिस्तरे मम पाठनम् अकुर्वन् इत्यपि एतस्य कारणं स्यात् । अनिवार्यतया व्याकरणपठनं तु शास्त्रिप्रथमवर्षे समाप्यते । तदन्तरं प्रायेण बहवः इतरशास्त्रीयच्छात्राः व्याकरणं द्विषन्ति । न पठन्ति च । मम तु विरुद्धा स्थितिः तदनन्तरमपि रुचिमान् सन् सन्देहे सति ज्येष्ठान् पृच्छन् व्याकरणं किञ्चित् किञ्चित् पठितवान् । तत्परिणामतः बहवः माम् अद्यापि वैयाकरणमेव मन्वते ।
अत्र संस्कृतभारतीकार्यमपि कारणम् । संस्कृतभारतीप्रवेशः भवति चेत् अध्ययनेच्छा नश्यति इति बहवः वदन्ति । मम विषये तु न तथा । अद्य किञ्चिद्वा संस्कृतेन एवं लिखन् अस्मि इत्येतस्य कारणं संस्कृतभारती एव । तत्रापि यदा आरभ्य अक्षरे मम प्रवेशः जातः ततः मासचतुष्टयात् अनन्तरं प्रतिसप्ताहं घण्टात्रयं जनार्दनमहोदयस्य अनौपचारिकपाठनम् आरब्धम् । ततः अपि बहवः व्याकरणांशाः ज्ञाताः, तेन बहुलाभान्वितः च अभवम् ।
अद्य कश्चन ज्येष्ठः महाविद्यालयीयप्राध्यापकः व्याकरणविषये किमपि प्रष्टुं दूरवाणीं कृतवान् । कदाचित् एतादृशान् अंशान् अस्माकं छात्रानपि आगत्य बोधयतु इति च उक्तवान् । मम आश्चर्यम् अभवत् यत् सः तु संस्कृतक्षेत्रे चत्वारिंशदधिकवर्षेभ्यः कार्यं कुर्वन् वर्तते । महतां वैयाकरणानां परिचयः तु तस्य स्यादेव । तथापि सः व्याकरणविषयं किमर्थम् मामेव पृष्टवान् । अनौपचारिकरूपेण व्याकरणं पठितवतः मम भाग्यमेव इदमिति मन्ये ।
ಕಾಮೆಂಟ್ಗಳಿಲ್ಲ:
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ