ಶನಿವಾರ, ಆಗಸ್ಟ್ 28, 2021

ज्ञात्रज्ञानेन वञ्चितः

समाजे उन्नतस्थानं प्राप्तवतां ज्येष्ठानां मेलनं रोमाञ्चं जनयति । संस्कृतक्षेत्रे विद्यमानाः ज्येष्ठाः मां न परिचिनुयुः इति अहं भावयामि । यतो हि अहं सामान्यः । विद्वत्सभासु वा इतरत्र वा सर्वे यथा पश्येयुः तादृशे स्थाने तु अहं न भवामि । केचन विद्वद्भिः सह कपटविनयं दर्शयित्वा सम्भाषमाणाः भवन्ति । (तुळुभाषया ओङ्गुना इति पदं विद्यते तस्य समानार्थकपदं भाषान्तरेषु अहं न स्मरामि ) । अहं न तादृशः । यदि तेषां समयस्वीकारे मम अधिकारः अस्ति इति भासेत तर्हि एव ज्येष्ठैः सह भाषे । नो चेत् तेभ्यः दूरदेशे एव भवामि । अपरिचितः कश्चित् मया सह भाषमाणः अस्ति इत्येतस्य भावः मम कारणतः तेषां न भवेत् इति मम मतिः । परन्तु अद्यत्वे आन्तर्जालिककार्यक्रमाणां प्रभावतः बहवः अस्मान् दृष्टवन्तः भवन्ति । अनेके परिचिन्वन्ति च ।

काचित् व्याख्यानमाला मम वासस्थानस्य समीपे एव प्रचलति । तत्र व्याख्यानमालां द्रष्टुम् अहं गतवान् । करोनाकारणतः अङ्गुलिमेयाः एव जनाः  आसन् । व्याख्याता विद्वान् मम गुरुः । सः तु मां परिचिनोति, तेन सह मम आत्मीयता अपि अस्ति । तत्रोपस्थितेषु विद्वत्सु अनेकान् अहं परिचिनोमि । मां ते न परिचिनुयुः इत्येव चिन्तितवान् आसीत् । परन्तु मत्पार्श्वे उपविष्टः देशस्य प्रख्यातः संस्कृतविद्वान् मामेव पश्यति स्म । एवं मयि दीर्घं दृष्टिं दधतः तस्य अवज्ञा न कार्या इति धिया अहं तं शिरः अवनमय्य साञ्जलिः प्रणतवान् । 

'किं भोः सूर्य! अस्यां सभायां कदाचित् भवतः अपि व्याख्यानं भवेत्' इति सः ज्येष्ठः विद्वान् अवोचत् । एषः मां न केवलं परिचिनोति परन्तु मम नाम अपि जानाति इति ज्ञात्वा विस्मितः । मम भाषणं कुत्रापि अयं श्रुतवान् स्यात् । नो चेत् अत्र भवान् कदाचित् भाषेत इति कथं वा सः वक्तुं शक्नुयात्? सभायां व्याख्यानं प्रचलद् एव आसीत् इति कारणतः तेन सह अधिकसम्भाषणाय अवसरः मया न लब्धः । कार्यान्तरवशात्  सभातः उत्थाय आगतः । 

परन्तु सः मां न जानाति इति मत्वा अहं यदि तस्य वन्दनं नाकरिष्यं तर्हि किम् अचिन्तयिष्यत् सः? एषः अहङ्कारी वर्तते । विनयः एव नास्ति इति निश्चयेन अचिन्तयिष्यत् । तस्य स्थाने यदि अहम् अभविष्यं तर्हि निश्चयेन तथा अचिन्तयिष्यम् । सर्वे मां जानन्ति इति गर्वः यथा उन्नतेर्बाधकः तद्वदेव एषः मां न जानीयात् इति अवज्ञापि ज्येष्ठाशीर्भिः वञ्चनस्य हेतुः भवेत् ।


ಕಾಮೆಂಟ್‌ಗಳಿಲ್ಲ:

ಕಾಮೆಂಟ್‌‌ ಪೋಸ್ಟ್‌ ಮಾಡಿ

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...