ಭಾನುವಾರ, ಫೆಬ್ರವರಿ 23, 2020

परीक्षा, अङ्कप्राप्तिः- छात्राणां चिन्तनम्


परीक्षां विलिख्य यत्किमपि महत् साध्यते चेत् परीक्षायाः विषये भयं, आदरः, अङ्कप्राप्तिविषये उत्सुकता च सहजा। NET, SLET, UPSC, IPS इत्यादिषु परीक्षासु उपर्युक्तः सर्वोऽपि अंशः दृश्यते। दशमकक्ष्यापरीक्षा, द्वादशकक्ष्यापरीक्षा, CET परीक्षा इत्येतासु तु अङ्कप्राप्त्यै महान् प्रयासः क्रियते। तदतिरिच्य अन्यासु परीक्षासु तु एषः भावः न दृश्यते। किं बहुना औपचारिकरूपेणैव परीक्षाः चाल्यन्ते इति भावः मम मनसि दृढः आसीत्।

तस्य हेतुरपि वर्तते। संस्कृतक्षेत्रे आचार्यादिपरीक्षालेखनं केवलायै उपाधिप्राप्त्यै एव भवति। तत्र कति अङ्काः प्राप्ताः इति तु गौणः विषयः भवति। अतः एव बहुषु छात्रेषु परीक्षाविषयकः अनादरः दृश्यते। प्रायः 90 प्रतिशतम् छात्राः परीक्षायां प्राप्ताः अङ्काः मम जीवने मुख्यभूताः भवन्ति इति न चिन्तयन्ति। यतो हि संस्कृतक्षेत्रे तु (अन्येषां क्षेत्राणां परिचयस्तु मम लेशमात्रेणापि नास्ति) बहुत्र प्रभावकारणतः धनकारणतः वा उद्योगाः लभ्यन्ते। क्वचिच्च कौशलबलात् उद्योगं प्राप्नुवन्ति। अङ्काधारेण उद्योगप्राप्तिस्तु न्यूना एव। अतः परीक्षाविषये संस्कृतच्छात्राणां महान् अनादरः अद्यत्वेऽपि अस्ति।

तथा हि मम पठनावसरे ये सम्यक् वेदमधीत्य आगताः ते तु परीक्षादिने अपि पूजां कारयितुं गच्छन्ति स्म। लोके बहवो हि परीक्षादिने पूजां कारयन्ति तत्र को वा विशेषः इति प्रश्नः उदीयेत। अत्र मया कथ्यमानाः छात्राः स्वपरीक्षामुद्दिश्य पूजां न कारयन्ति, अपि तु अर्चकरूपेण गत्वा अन्यस्य जनस्य निवेदनानुसारं पूजां कारयन्ति। मध्याह्ने परीक्षायां सत्यामपि सङ्कल्पावसरे अस्य यजमानस्य क्षेमस्थैर्यवीर्यविजयाभिवृद्ध्यर्थम् इत्येव सङ्कल्पं कुर्वन्ति। परीक्षायां भगवतः अनुग्रहः मयि भवतु इति तु न प्रार्थयन्ते एव।

एवं करणे काचित् युक्तिरपि तैरुच्यते। पूजां कारयामः चेत् दक्षिणारूपेण धनं तु लभ्यते। परीक्षार्थं घण्टाद्वयम् अधिकं पठेयं तर्हि उपदशाः अङ्काः अधिकाः लभेरन् कदाचित्। परन्तु तेन कोऽपि लाभः नास्ति। परीक्षायामुत्तीर्णतामात्रं मया काङ्क्ष्यते। प्राप्यमानं धनम् अल्पं चेदपि तेन लाभः वर्तते इति वयं चिन्तयामः इति। तथा पश्यामः चेत् परीक्षादिनेऽपि धनं सम्पादनीयम् इत्यनिवार्या परिस्थितिः तेषां जीवने नास्ति। तथापि परीक्षायाः अङ्कैः मम जीवने किमपि न प्राप्यते इति स्पष्टपरिज्ञानं तेषां वर्तते इति कारणतः ते तथा व्यवहरन्ति।
 
पत्रालयद्वारासंस्कृतपरीक्षां लिखन्तः छात्राः
परन्तु अन्या अपि काचित् विलक्षणा स्थितिः मया अवलोकिता। संस्कृतभारत्या प्रवेश-परिचय-शिक्षा-कोविद इति नाम्ना पत्रालयद्वारासंस्कृतशिक्षणस्य परीक्षाः चाल्यन्ते। अत्र ये परीक्षां लिखन्ति ते सर्वे संस्कृतं पिपठिषवः एव भवन्ति। स्वजीवने संस्कृतात् किमपि भौतिकं लाभं प्राप्नुयाम् इति ते न इच्छन्ति। अपि तु संस्कृतपठनेन यः आनन्दः लभ्यते सः मया प्राप्तव्यः। तेन मनःशान्तिः मम स्याद् इति धिया एतासु परीक्षासु पञ्जीकरणं कुर्वन्ति।

एवं परीक्षां लिखत्सु बहवो हि धनिकाः भवन्ति। तेषां जीवने सम्पदः विषये चिन्ता न भवति। प्रायेण सर्वेऽपि समाजे किञ्चन गौरवयुतं स्थानं प्राप्तवन्तः भवन्ति। अनेके उद्योगात् निवृत्तेः परमपि परीक्षाः स्वीकुर्वन्ति। परीक्षालेखनसमये ते अक्षरशः छात्राः एव भवन्ति। परीक्षायां सन्निहितायां श्रद्धया अध्ययनं कुर्वन्ति। पूर्वतनवर्षाणां प्रश्नपत्राणि स्वीकृत्य अध्यापकान् उपसर्पन्ति। परीक्षालेखनदिने अपि तेषां मुखेषु छात्रत्वं दृश्यते। गम्भीररूपेण परीक्षायाः विषये चिन्तयन्तः भवन्ति। तेषां मुखेषु भीतिरपि दृश्यते। श्रद्धया परीक्षां विलिख्य निर्गच्छन्ति च।

तथा पश्यामः चेत् यथा छात्राणां जीवने अङ्काः परिवर्तनं न आनयन्ति तद्वत् एतेषां पत्रालयद्वारासंस्कृतच्छात्राणां जीवने अपि परीक्षायाः अङ्काः परिवर्तनं न आनयन्ति। छात्राणां तु अग्रिमजीवने अङ्काधारित-उद्योगप्राप्तेः इच्छा तु मनसः कोणे ईषन्मात्रेण भवत्येव। परन्तु एतेषां पत्रालयच्छात्राणां तु संस्कृतक्षेत्रे जीवननिर्वहणार्थम् उद्योगं कुर्याम् इति इच्छालेशोऽपि न भवति। एवं भौतिकदृष्ट्या पश्यामः चेत् पत्रालयच्छात्राणां परीक्षा उपयोगाय नास्त्येव। तस्मिन् समये ते अन्यत्र गत्वा सम्पादयितुं शक्नुवन्ति आहोस्वित् परिवारेण सह सुखेन समययापनं कर्तुं शक्नुवन्ति। परन्तु तथा अकुर्वाणाः केवलं चित्ततोषाय परीक्षाम् एते श्रद्धया लिखन्ति।
 
परीक्षानन्तरं स्वलेखनस्य साधुत्वविषये परिशीलनम्
पत्रालयपरीक्षायामपि अङ्गुलिमेयाः विशिष्टाः केचन भवन्ति। न हि एतेषां संस्कृतपठने आसक्तिः। परन्तु ते अङ्कमात्रचित्ताः। आरम्भे तु संस्कृतपठनायैव आगच्छन्ति इमे। परन्तु गच्छता कालेन अङ्कप्राप्तिमेव उद्देश्यत्वेन परिगणयन्ति। संस्कृतपठनाय परीक्षा इति कश्चन मार्गः इति विस्मृत्य अङ्कप्राप्तौ पत्रालयपरीक्षा मार्गभूता इति चिन्तयन्तः अङ्कैकचित्ताः परीक्षां लिखन्ति। एवम् अङ्कान् स्वीकृत्यापि तेषां जीवने अङ्कद्वारा भौतिकप्रयोजनं तु न प्राप्नुवन्ति। अहं भूरिशः अङ्कान् प्राप्तवान् इति सन्तोषमात्रं तेषाम्। एतादृशाः तु अङ्कैकनिष्ठाः अङ्कप्राप्त्यै पठितमपि परीक्षाया अनन्तरं विस्मरन्तीति खेदस्य विषयः।

ಸೋಮವಾರ, ಫೆಬ್ರವರಿ 17, 2020

ಸಹಕಾರ ಸಾರಿಗೆ

ಬಸ್ಸು ಎಂದಾಕ್ಷಣ ಕಣ್ಣಿಗೆ ಬರುವ ಚಿತ್ರ ಸಹಕಾರ ಸಾರಿಗೆಯದ್ದು. ಇದಕ್ಕೆ ಕಾರಣವೂ ಇದೆ. ನಾನು ಹುಟ್ಟಿ ಹತ್ತನೆಯ ತರಗತಿಯವರೆಗೂ ಶಿಕ್ಷಣವನ್ನು ಪಡೆದದ್ದು ದಕ್ಷಿಣಕನ್ನಡದ ಕುಗ್ರಾಮದಲ್ಲಿ. ಇಲ್ಲಿ ಸರಕಾರಿ ಬಸ್ಸುಗಳನ್ನು ಕಂಡದ್ದೇ ಅಪರೂಪ. ಅನೇಕ ಖಾಸಗಿ ಬಸ್ಸುಗಳು ಊರಿಗೆ ಬರುತ್ತಿದ್ದರೂ ಒಂದದರ ಬಣ್ಣ, ಆಕಾರ, ಶಬ್ದಗಳು ವಿಭಿನ್ನವಾಗಿರುತ್ತಿದ್ದವು. ಹತ್ತನೆಯ ತರಗತಿಯನ್ನು ಮುಗಿಸಿ ಶೃಂಗೇರಿಗೆ ಹೋದಾಗ ಸರಕಾರಿ ಬಸ್ಸುಗಳೊಂದಿಗೆ ಇತರೆ ಖಾಸಗಿ ಬಸ್ಸುಗಳೊಂದಿಗೆ ಕಾಣಿಸಿದ್ದು ಸಹಕಾರಸಾರಿಗೆ ಬಸ್ಸುಗಳು. ಇತರೆ ಬಸ್ಸುಗಳಿದ್ದರೂ ಶೃಂಗೇರಿ ಅಥವಾ ಕೊಪ್ಪದ ಬಸ್ಟಾಂಡ್ ಇದು ಎಂಬ ಭಾವ ಬರುವುದು ಸಹಕಾರ ಸಾರಿಗೆ ಬಸ್ಸುಗಳನ್ನು ಕಂಡಾಗಲೇ. ಎಲ್ಲಾ ಬಸ್ಸುಗಳೂ ಹಸಿರು ಬಣ್ಣದಿಂದ ಕಂಗೊಳಿಸುತ್ತಿದ್ದವು. ಮಲೆನಾಡಿನ ಕಾಡುಗಳ ಹಸಿರಿನ ಮಧ್ಯದಲ್ಲಿ ದೂರದಿಂದ ಬರುತ್ತಿರುವ ಹಸಿರುಬಣ್ಣದ ಸಹಕಾರಸಾರಿಗೆಯನ್ನು ಕಾಣುವುದೇ ಕಣ್ಣಿಗೊಂದು ಹಬ್ಬ.

ಮಲೆನಾಡು ನಿವಾಸಿಗಳಿಗೆ ಸಹಕಾರ ಸಾರಿಗೆಯೊಂದಿಗೆ ಭಾವನಾತ್ಮಕವಾದ ಸಂಬಂಧವಿದೆ. ಹೆಸರು ಸಹಕಾರ ಸಾರಿಗೆ ಎಂದಾಗಿದ್ದರೂ ಜನರ ಬಾಯಿಯಲ್ಲಿ ಸಾರಿಗೆ ಎಂದೇ ಪ್ರಸಿದ್ಧ. ಸಾರಿಗೆಯ ಬಸ್ಸುಗಳಲ್ಲಿ ವಿದ್ಯಾರ್ಥಿಗಳಿಗೆ ಪಾಸ್ ನೀಡುವ ಮೂಲಕ ಅರ್ಧದರದಲ್ಲಿ ಕಾಲೇಜಿಗೆ ಹೋಗಲು ಅನುಕೂಲ ಕಲ್ಪಿಸಿದ್ದರು. ಅನೇಕ ಉದ್ಯೋಗಿಗಳೂ ರಿಯಾಯಿತಿ ದರದಲ್ಲಿ ಬಸ್ಸುಗಳಲ್ಲಿ ಓಡಾಡುತ್ತಿದ್ದರು. ಸಹಕಾರ ಸಾರಿಗೆ ಆರ್ಥಿಗ ನಷ್ಟಕ್ಕೊಳಗಾಗಿ ತನ್ನ ಸೇವೆಯನ್ನು ನಿಲ್ಲಿಸಿದೆ ಎಂಬ ಸುದ್ದಿಯನ್ನು ಕೇಳಿದ ತಕ್ಷಣ ನರನಾಡಿಗಳಲ್ಲಿ ಸಂಚರಿಸುತ್ತಿದ್ದ ರಕ್ತಸಂಚಾರವೇ ನಿಂತಂತೆ ಅನೇಕರಿಗೆ ಅನುಭವವಾಗಿದ್ದರೆ ವಿಶೇಷವೇನಿಲ್ಲ.

ಶೃಂಗೇರಿಯಿಂದ ಮೂರು ಕಿಲೋಮೀಟರ್ ದೂರದಲ್ಲಿರುವ ನಮ್ಮ ವಿದ್ಯಾಲಯಕ್ಕೆ ಪ್ರತಿದಿನ ಮಧ್ಯಾಹ್ನ ಶ್ರೀಮಠದ ಪ್ರಸಾದ ಬರುತ್ತಿತ್ತು. ಭಾನುವಾರ ಹಾಗೂ ರಜಾದಿನಗಳಲ್ಲಿ ಪ್ರಸಾದವನ್ನು ಕಳುಹಿಸುವುದಿಲ್ಲ. ಮಧ್ಯಾಹ್ನದ ವೇಳೆಯಲ್ಲಿ ಊಟಕ್ಕಾಗಿ ಹೋಗುವ ವೇಳೆಯಲ್ಲಿ ಆಶ್ರಯಿಸಿದ್ದು ಇದೇ ಸಹಕಾರ ಸಾರಿಗೆ ಬಸ್ಸುಗಳನ್ನು. ರಜಾದಿನವಾದರೂ ಅನೇಕ ನಿರ್ವಾಹಕರು ಮರುಮಾತಿಲ್ಲದೆ ಅರ್ಧದರದಲ್ಲಿ ಪ್ರಯಾಣಿಸಲು ಅನುಮತಿಸುತ್ತಿದ್ದರು. (ಕೆಲವು ಏಜೆಂಟ್ ಗಳು ಪೀಡಿಸಿದ್ದೂ ಇದೆ. ಆದರೂ ಹತ್ತು ನಿಮಿಷ ಜಗಳವಾಡಿ ಎರಡು ರೂಪಾಯಿಗಳ ರಿಯಾಯಿತಿಯನ್ನು ಪಡೆದೇ ತೀರುತ್ತಿದ್ದೆವು.) "ಈ ಮಕ್ಳದ್ದೊಂದು ಉಪದ್ರ" ಎಂದು ಹಲುಬುತ್ತಿದ್ದರೂ ಪ್ರತಿವರ್ಷವೂ ಪಾಸ್ ನೀಡಿ ರಿಯಾಯಿತಿದರದಲ್ಲಿ ಪ್ರಯಾಣಕ್ಕೆ ಅನುಕೂಲ ಮಾಡುಕೊಡುತ್ತಿದ್ದರು.
ಸಹಕಾರ ಸಾರಿಗೆ ಗೆ ಚಿತ್ರಗಳ ಫಲಿತಾಂಶಗಳು
ಸುಮಾರು ಒಂದು ವರ್ಷದ ಕಾಲ ವಾರದಲ್ಲೆರಡು ದಿನ ಎನ್. ಆರ್ ಪುರಕ್ಕೆ ಸಂಸ್ಕೃತ ತರಗತಿಗಳನ್ನು ನಡೆಸಲು ಹೋಗುತ್ತಿದ್ದಾಗ ಆಧಾರವಾದದ್ದು ಇದೇ ಸಹಕಾರ ಸಾರಿಗೆ. ಮಟ ಮಟ ಮಧ್ಯಾಹ್ನ ಶೃಂಗೇರಿಯ ಶಾರದಾಪ್ರಸಾದವನ್ನುಂಡು ಸಹಕಾರ ಸಾರಿಗೆಯ ಕಿಟಕಿಯ ಬದಿಯ ಸೀಟಿಗಂಟಿಸಿರುವ ವಜ್ರಾಕೃತಿಯ ದಿಂಬಿಗೆ ತಲೆಯನ್ನಾನಿಸಿ ಮಲಗಿದರೆ ಸುಷುಪ್ತಿಗೇ ಹೋಗುತ್ತಿದ್ದೆ. ಮಲೆನಾಡಿನ ರಸ್ತೆಯ ತಿರುವು ಮುರುವುಗಳಿಂದಲೂ ನಿದ್ದೆಯನ್ನು ಮುರಿಯಲು ಸಾಧ್ಯವಾಗುತ್ತಿರಲಿಲ್ಲ.

ಕೊಪ್ಪದಿಂದ ಅಗಳಗಂಡಿ ಮಾರ್ಗವಾಗಿ ಶೃಂಗೇರಿಗೆ ಬರುವ ದಿನಾಂತ್ಯದ ಕೊನೆಯ ಸಹಕಾರ ಸಾರಿಗೆಯಂತೂ ವಿಶಿಷ್ಟಾನುಭವಗಳ ಆಗರ. ಪ್ರತಿದಿನವೂ ವಿಭಿನ್ನ ಕಾರಣಗಳಿಗಾಗಿ ಪೇಟೆಗೆ ಬಂದು ಹಿಂದಿರುಗುವವರ ಹಿಂಡೇ ಬಸ್ಸಿನಲ್ಲಿರುತ್ತಿತ್ತು. ಎಲ್ಲರೂ ಪ್ರತಿದಿನವೂ ಪ್ರಯಾಣಿಸುವ ಪ್ರಯಾಣಿಕರಾದ್ದರಿಂದ ಮನೆಯ ಆತ್ಮೀಯ ವಾತಾವರಣ ಆ ಬಸ್ಸಿನಲ್ಲಿರುತ್ತಿತ್ತು. ಸಹಕಾರ ಸಾರಿಗೆ ತನ್ನ ಸಂಚಾರವನ್ನು ನಿಲ್ಲಿಸಿದಾಗ ಈ ಬಸ್ಸಿನಲ್ಲಿ ಪ್ರಯಾಣಿಸುವ ಅನೇಕರಿಗೆ ಸೂರನ್ನು ಕಳೆದುಕೊಂಡು ಸಂತ್ರಸ್ತರಾದ ಅನುಭವವಾದರೆ ವಿಶೇಷವೇನಲ್ಲ. 

ಸಹಕಾರ ಸಾರಿಗೆಯಲ್ಲಿ ರಶ್ ಹೆಚ್ಚಿದ್ದಾಗ ಹಣ ನೀಡದೇ ಪ್ರಯಾಣಿಸುವುದರಲ್ಲಿ ವಿಲಕ್ಷಣ ಆನಂದವಿತ್ತು. ಸಹಕಾರ ಸಾರಿಗೆ ಗ್ರಾಮಾಂತರ ಪ್ರದೇಶಗಳಲ್ಲಿ ತೀರಾ ಹದಗೆಟ್ಟಿರುವ ರಸ್ತೆಗಳಲ್ಲಿ ಹೋಗಬೇಕಾದುದರಿಂದ ಕೆಲವು ಬಸ್ಸುಗಳ ಸ್ಧಿತಿ ಬಹಳವಾಗಿ ಹದಗೆಟ್ಟಿತ್ತು. "ಈ ಬಸ್ಸಿನಲ್ಲಿ ಹಾರ್ನ್ ಒಂದನ್ನು ಬಿಟ್ಟು ಉಳಿದೆಲ್ಲಾ ಭಾಗಗಳೂ ಶಬ್ದ ಮಾಡುತ್ತವೆ" ಎನ್ನುತ್ತಾ ಅಪಹಾಸ್ಯ ಮಾಡುವುದರಲ್ಲೂ ಸಂತೋಷವಿತ್ತು. ಆದರೆ ಇಂತಹ ಕ್ಷುಲ್ಲಕ ಕ್ಷಣಿಕ ಆನಂದಗಳಿಗಿಂತ ಬಸ್ಸಿನಲ್ಲಿ ಪ್ರಯಾಣಮಾಡುವ ಆನಂದವೇ ದೊಡ್ಡದು ಎಂಬುವುದು ಬಸ್ ಸೇವೆ ಸ್ಥಗಿತವಾದಾಗ ಆಗುವ ದುಃಖದಿಂದ ಅರಿವಾಗುತ್ತದೆ. ಮತ್ತೊಮ್ಮೆ ಮಲೆನಾಡಿನ ಜನರ ಪ್ರಾರ್ಥನೆಯಿಂದಾಗಿ ಈ ಬಸ್ಸಿನ ಸೇವೆ ಆರಂಭವಾಗಲಿ  ಎಂಬ ನಿವೇದನೆಯನ್ನು ಭಗವಂತನಲ್ಲಿ ಮಾಡುವುದನ್ನು ಬಿಟ್ಟು ಮತ್ತೇನನ್ನೂ ಮಾಡುವುದು ಸಾಧ್ಯವಿಲ್ಲ.

ಗುರುವಾರ, ಫೆಬ್ರವರಿ 6, 2020

दीपकम् - तुल्ययोगिता

दीपकालङ्कारः तुल्ययोगितालङ्कारः इत्यलङ्कारद्वयं प्रसिद्धमेव। अलङ्कारलक्षणपठनावसरे अहमपि अस्य अलङ्कारस्य लक्षणम् उदाहरणं च पठितवान्। लक्षणम् उदाहरणं च सम्यगेव ज्ञातम् अवगतं च। परन्तु अनयोर्मिथः को भेदः इति प्रश्नस्तु मम मनसि बहुकालादारभ्य आसीदेव। कुवलयानन्दे अनयोः अलङ्कारयोः लक्षणम् उदाहरणं वृत्तिश्च बहुवारं पठिता। पुनश्च साहित्यदर्पणे अलङ्कारस्य अध्ययनावसरे अपि अवलोकितम्। परन्तु एकधर्माभिसम्बन्धः इति अंशः स्पष्टतया ज्ञातः। प्रस्तुत अप्रस्तुतविषये एव महान् सन्देहः आसीत्।
          वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः।
          मदेन भाति कलभः प्रतापेन महीपतिः॥ (कुवलयानन्दः,दीपकालङ्कारः)
          वर्ण्यानाम् इतरेषां वा धर्मैक्यं तुल्ययोगिता।
          सङ्कुचन्ति सरोजाणि स्वैरिणीवदनानि च॥ (कुवलयानन्दः,तुल्ययोगितालङ्कारः)
इति कुवलयानन्दे। अत्र कलभः भाति, महीपतिः भाति इति भानक्रियायाः सम्बन्धः द्वाभ्यां सह वर्तते। तथा च सरोजानि सङ्कुचन्ति, स्वैरिणीवदनानि सङ्कुचन्ति इत्यत्रापि सङ्कोचनक्रियायाः सम्बन्धः द्वाभ्यां सह वर्तते। सुन्दर्याः वदनं कमलम् इव इत्यत्र मुखम् उपमेयम्, कमलम् उपमानम् इति स्पष्टम्। तद्वत् महीपतिः कलभः इव इत्यत्रापि महीपतिः उपमेयः कलभः उपमानः इति भानम् आदौ अभवत्। राजा गज इव इति बहुत्र वर्णनं दृश्यते एव। अतः उभयत्रापि कः भेदः वर्तते इति स्पष्टं न ज्ञातम् सन्देहः तथैव स्थितः आसीत्।

वयं काव्यशास्त्रं पठन्तः काव्यं न पठामः इति तु खेदाय। विद्यालयजीवने वर्षत्रयं यावत् यद्यपि किञ्चन काव्यं पाठ्यक्रमे भवति स्म तथापि मम कक्ष्यायां काव्यपाठः सम्यक्तया न जातः। रुचिराणां काव्यानां सारांशं पठित्वा परीक्षां लेखितुं गच्छामः स्म इति स्मृत्वा मम लज्जा, स्वस्मिन्नेव कोपः, खेदः च जायते। काव्यानि पठन्तः तत्र यदि साहित्यशास्त्रे उद्भूतानां सन्देहानाम् उत्तरान्वेषणम् अकरिष्याम काव्यास्वादमपि प्राप्स्याम। परन्तु इदानीं वा किञ्चित् काव्यपठने प्रवृत्तोऽस्मि इति सन्तोषस्य विचारः। 

कुमारसम्भवस्य पठनावसरे बहुभ्यः दिनेभ्यः चिन्त्यमानम् उत्तरम् लब्धम्। तत्र शिवः कन्यां याचितुं सप्तर्षीन् प्रेषयति। सप्तर्षयः हिमालयम् आयान्ति। हिमालयः तेषां सत्कारं कृत्वा, सप्तर्षीणां विषये गौरवयुक्तानि वचांसि च वदति। ततः अङ्गिराः हिमालयमुद्दिश्य वाचम् वदति। तदानीम् अयं श्लोकः वर्तते-
                   उपपन्नमिदं सर्वमतः परमपि त्वयि।
                   मनसः शिखराणां च सदृशी ते समुन्नतिः॥(कुमारसम्भवम्, ६-६६)
 अहं भवतां सेवार्थमस्मि इति यद्वाक्यम् त्वया उक्तम् तद्वाक्यं तव युज्यते। यतो हि भवतः मनसः शिखराणां च उन्नतिः सदृशी वर्तते। अत्र अङ्गिराः हिमालयस्य मनसः उन्नतिं वक्तुं प्रवृत्तः इति कृत्वा मनः समुन्नतिः इति प्रस्तुतम्। शिखराणाम् उन्नतेः प्रसङ्गः नास्ति इति कृत्वा स च प्रसङ्गः अप्रस्तुतः। एवम् प्रस्तुत-अप्रस्तुतयोः औन्नत्यरूपे गुणे सम्बन्धः कल्पितः इति अत्र दीपकालङ्कारः। अस्मिन्नेव प्रसङ्गे  अपरः श्लोकः विद्यते।
                   अच्छिन्नामलसन्तानाः समुद्रोर्म्यनिवारिताः।
                   पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते॥ (कुमारसम्भवम्, ६-६९)
अत्र हिमालस्य स्थावररूपस्य जङ्गमरूपस्य च वर्णनं विद्यते। पर्वतः स्थावरो हिमालयः। जङ्गमः हिमालयः यः ऋषिभिः सह भाषते। अस्मिन् श्लोके अपि हिमालयस्य श्लाघनम् अङ्गिरसा क्रियते। तव कीर्तयः सरितः च लोकान् पुनान्ति इति अङ्गिराः कथयति। कीर्तयः अच्छिन्नामलसन्तानाः छेदरहिताः, निर्मलाः च प्रवाहाः वर्तन्ते। सन्तानशब्दस्य विस्तारः इत्यर्थः। जङ्गमहिमालयस्य कीर्तिः विस्तृता वर्तते। स्थावरहिमालयस्य नदी अपि विस्तृता वर्तते इति भावः। समुद्रोर्म्यनिवारिताः इति अपरं विशेषणम्। अत्र समुद्रस्य पारङ्गता कीर्तिः इति कीर्तिविषये, समुद्रप्रवेशसमये ऊर्मिभिः नदी न वार्यते इति सरिद्विषये च अर्थः।

अत्र कीर्तयः सरितः च लोकान् पुनन्ति इति पावनरूपे धर्मे द्वयोः अन्वयः भवति। अङ्गिरसः तु तात्पर्यम् हिमालयवर्णने इत्यस्मात् स्थावरस्य जङ्गमस्य च हिमालयस्य वर्णनम् अत्र प्रस्तुतमेव इति तुल्ययोगितालङ्कारः। एवं काव्यपठनेन सन्देहः दूरं गतः। अलङ्कारविषये स्पष्टता च प्राप्ता।

ಬುಧವಾರ, ಜನವರಿ 22, 2020

सायं यानेषु सुन्दर्यः...

आसायं सश्रमं कार्यं कृत्वा यानेन स्वं गृहम्।
यान्त्त्यो युवतयो भान्ति रवितप्ता लता इव॥
ಸಾಯಂಕಾಲದ ತನಕವೂ ಶ್ರಮಪಟ್ಟು ಕೆಲಸ ಮಾಡಿ ಗಾಡಿಯಲ್ಲಿ ತಮ್ಮ ಮನೆಗೆ ಹೋಗುತ್ತಿರುವ ಯುವತಿಯರು ಸೂರ್ಯನ ಬಿಸಿಲಿನಿಂದ ಬಾಡಿದ ಬಳ್ಳಿಗಳಂತೆ ಕಾಣುತ್ತಾರೆ.

श्रमस्वेदाम्बुभिर्नष्टे लावण्येsपि पुनर्भृशम्।
लावण्यं भासतेsङ्गेषु सुन्दरीणां  मनोहरम्॥
ಆಯಾಸದಿಂದ ಬರುವ ಬೆವರಿನಿಂದ ಲಾವಣ್ಯವು(ಉಪ್ಪು) ಹರಿದುಹೋದರೂ, ಕೂಡಾ ಸುಂದರಿಯರ ಅಂಗದಲ್ಲಿ ಲಾವಣ್ಯವು(ಸೌಂದರ್ಯ) ಕಾಣುತ್ತದೆ.

वायुना चलतः केशान् बन्द्धुं क्लिश्नन्ति बालिकाः।
यूनां हृदि दृढं बद्धा विना क्लेषं भवन्ति ताः॥
ಗಾಳಿಯಿಂದ ಅತ್ತಲಿಂದಿತ್ತ ಚಲಿಸುವ ಕೂದಲುಗಳನ್ನು ಕಟ್ಟುವಲ್ಲಿ ಯುವತಿಯರು ತುಂಬಾ ಕಷ್ಟವನ್ನು ಅನುಭವಿಸುತ್ತಾರೆ. ಆದರೆ ಕಷ್ಟವೇ ಇಲ್ಲದೇ ಯುವಕರ ಹೃದಯದಲ್ಲಿ ತಾವೇ ಬಂದಿಯಾಗುತ್ತಾರೆ.

यानान्दोलनकालेषु स्तम्भं गृह्णन्ति ता दृढम्।
पश्चात् त्यजन्ति तं, नैव युवचित्तग्रहं कृतम्॥
ಗಾಡಿಯು ಓಲಾಡುವಾಗ ಕಂಬವನ್ನು ಗಟ್ಟಿಯಾಗಿ ಹಿಡಿದುಕೊಳ್ಳುತ್ತಾರೆ. ಓಲಾಡುವುದು ನಿಂತಾಗ ಕಂಬವನ್ನು ಬಿಡುತ್ತಾರೆ. ಆದರೆ ಯುವಕರ ಮನಸ್ಸನ್ನು ಒಮ್ಮೆ ಹಿಡಿದುಕೊಂಡರೆ ಮತ್ತೆ ಬಿಡುವುದಿಲ್ಲ.

श्रान्तिं संगोप्य हासं ता आस्ये बिभ्रति कृत्रिमम्।
हठाद्याननिरोधे तु सा श्रान्तिर्व्यज्यते मुखे ॥
ಆಯಾಸವನ್ನು ಬಚ್ಚಿಟ್ಟುಕೊಂಡು ಕೃತ್ರಿಮವಾಗಿ ನಗುತ್ತಿರುತ್ತಾರೆ. ಗಾಡಿಯನ್ನು ಹಠಾತ್ತಾಗಿ ನಿಲ್ಲಿಸಿದಾಗ ಆ ಆಯಾಸವು ಪ್ರಕಟಗೊಳ್ಳುತ್ತದೆ.

गीतं सुमधुरं श्रोतुं श्रोत्रे यन्त्रं निधीयते।
माधुर्यं युवचित्तेषु तद्दृष्ट्वैव हि जायते॥
ಮಧುರವಾದ ಹಾಡುಗಳನ್ನು ಕೇಳಲು ಕಿವಿಗೆ ಯಂತ್ರವನ್ನು ಸಿಕ್ಕಿಸುತ್ತಾರೆ. ಮಧುರಭಾವ ಯುವತಿಯರಲ್ಲಿ ಹುಟ್ಟುವುದಕ್ಕೆ ಮುಂಚೆಯೇ ಅದನ್ನು ನೋಡಿದ ಯುವಕರ ಮನಸ್ಸಿನಲ್ಲಿ ಮಧುರಭಾವವು ಹುಟ್ಟುತ್ತದೆ.

शीघ्रं यातेति तद्वाक्यं श्रुत्वा निर्वाहकस्य ताः।
राजहंसगतिं त्यक्त्वा यानाद्धावन्ति वाजिवत् ॥
ಬೇಗ ನಡೆಯಿರಿ ಎಂಬ ನಿರ್ವಾಹಕನ ಮಾತನ್ನು ಕೇಳಿದ ಅವರು ರಾಜಹಂಸದಂತಿದ್ದ ಮಂದವಾದ ಗತಿಯನ್ನು ಬಿಟ್ಟು ಕುದುರೆಯಂತೆ ಓಡುತ್ತಾರೆ.

अवतीर्णास्वधस्तासु यानभारो न हीयते।
यतस्ता युवचेतांसि भारयुक्तानि कुर्वते॥
ಅವರು ಗಾಡಿಯಿಂದ ಇಳಿದುಹೋದರೂ ಗಾಡಿಯ ಭಾರ ಕಡಿಮೆಯಾಗುವುದಿಲ್ಲ. ಏಕೆಂದರೆ ಅವರು ಗಾಡಿಯಲ್ಲಿನ ಯುವಕರ ಮನಸ್ಸನ್ನು ಭಾರವನ್ನಾಗಿಸಿ ಹೋಗುತ್ತಾರೆ.

ಶನಿವಾರ, ಡಿಸೆಂಬರ್ 21, 2019

ललाटलिखिता रेखा परिमार्ष्टुं न शक्यते

चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च इति प्रसिद्धं वाक्यम्। दुःखं वा भवतु सुखं वा भवतु चिरं न तिष्ठति इति तस्य अभिप्रायः मया गृहीतः। परन्तु अस्मिन् विषये कदाचित् सन्देहः एव उत्पद्यते। यतो हि केषाञ्चन जीवनं पश्यामः चेत् सर्वदा अपि ते सुखमेव अनुभवन्ति। केषाञ्चन जीवने तु कष्टपरम्पराः एव। यदि ब्रह्मा "एषः कष्टमेव अनुभवन् जीवेत्" इति ललाटे लिखति चेत् किमपि कर्तुं न शक्यम् इति भाति।
कश्चन वृद्धः(वृद्ध इति पदं निन्दार्थे प्रयुज्यते इति जाने। तथापि सः स्वकथाकथनद्वारा क्लेषं जनितवान् इति कृत्वा वृद्ध इति पदं प्रयुक्तम्) मया सह अमिलत्।  सः स्वजीवनगाथां श्रावितवान्। नवमे वयसि एव तस्य पितुः मरणम् अभवत्। तदनन्तरं माता एनम् कथञ्चित् पालितवती। अध्ययनानन्तरं वित्तकोषे उत्तमः उद्योगश्च लब्धः। विवाहोऽपि जातः। तावता सर्वं सम्यक् अभवत् इति चिन्तयामः चेत्, सः तु सन्तुष्टः नासीत्। यतो हि वित्तकोषस्य उद्योगे तदा तदा स्थानान्तरणं भवति। अन्ततो गत्वा स्थानान्तरणात् मुक्तिः प्राप्तव्या इति धिया मुम्बय्यां यदा आसीत् तदा वित्तकोषोद्योगः त्यक्तः। तदानीं जीवननिर्वहणार्थं किमपि करणीयमासीत्। तदर्थं सर्वकारेतरे वित्तकोषे उद्योगः गृहीतः। द्वित्रवर्षाणि यावत् मुम्बय्यामेव कार्यं कृतम्। तदनन्तरं तेन वित्तकोषेनापि विदेशं प्रति तस्य स्थानान्तरणं कृतम्। अनिवार्यरूपेण गन्तव्यमेव आपतितम्। तस्य स्थितिः तु पादप्रहर्त्रीं गावं विक्रीय दुग्धरहितां गाम् आनीतवतः जनस्य स्थितिरिव जाता। जीवने सन्तोषः तु न लब्धः। अन्यत्र गमनम् अनिवार्यम् अभवत्।

"न चाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः" इति सूक्तिः पञ्चतन्त्रे श्रूयते। परन्तु अस्य तनयौ तु विद्वांसौ एव स्तः। मुम्बय्यां वासः करणीयः इति ज्येष्ठपुत्रः, बेङ्गलूरुनगरे वासः करणीयः इति च कनिष्ठपुत्रः कदाचित् इच्छां प्रकटितवन्तौ। तस्मात् तेन मुम्बय्यां बेङ्गलूरुनगरे च गृहं क्रीतम्। परन्तु सम्प्रति ज्येष्ठः पुत्रः अमेरिकादेशे कनिष्ठः पुत्रः केनडा देशे च वसतः। मुम्बय्याः बेङ्गलूरुनगरस्थस्य च गृहरक्षदायित्वं पितुः एव। मध्ये मध्ये मुम्बईं गच्छति, कदाचित् बेङ्गलूरुनगरे तिष्ठति इत्यस्ति तस्य स्थितिः । तन्मध्ये स्नुषयोः प्रसूतिसमये विदेशस्थे पुत्रयोः  गृहे अपि गन्तव्ये। एवम् अधुनापि अटनं तस्य प्रवर्तते। ये निर्धनाः, येषां स्वकीयं स्थानं नास्ति, ते तु एवम् अटन्तः भवन्ति। परन्तु स्वकीयानि स्थानानि वर्तन्ते चेदपि  अस्य अटनस्य कष्टं न समाप्तम्।
केनडादेशे विद्यमानस्य द्वितीयपुत्रस्य द्वौ पुत्रौ। तत्र कनिष्ठस्य उपनयनं मार्च् मासे निर्वोढव्यम्। पुत्रः सपत्नीकः उपनयनावसरे एव आगमिष्यति। तत्सम्बद्धाः सर्वाः पूर्वसिद्धताः तेन स्वयं करणीयाः। अस्य जनस्य अधुना सप्ततिः आयुः। तदुद्दिश्य भीमरथशान्तिः करणीया इति तन्माता इच्छति। अतः स्वस्य भीमरथशान्तिः स्वेनेव आयोजनीया। स्वहस्तकुचमर्दनमिव खल्वेतत्। अस्मिन्नपि वयसि अटित्वा सर्वं साधनीयं चेत् कथं क्लेषमनुभूयात् सः जनः।
अत एव पूर्वमुक्तं मया "ब्रह्मणा ललाटे जीवने कष्टम् अनुभोक्तव्यं, मनः शान्तिः न स्याद्" इति ललाटे लिखितं चेत् केनापि मार्जयितुं न शक्यते। प्रभूतं धनं, वासार्थं महानगर्योः स्वकीयगृहद्वयम्, अनुकूला पत्नी, उत्तमौ पुत्रौ इत्येतदस्ति चेत् सुखेन जीवितुम् अन्यत् किम् अपेक्ष्यते इति बहवः पृच्छेयुः। परन्तु सस्त्वप्येतेष्वंशेषु इतोऽपि कष्टेन जीवनं यापयन्तम् अमुं दृष्ट्वा सुखस्य न किमपि करणं कारणं वा विद्यते इति वक्तुं शक्नुमः।    

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...