परीक्षां विलिख्य यत्किमपि महत् साध्यते
चेत् परीक्षायाः विषये भयं, आदरः, अङ्कप्राप्तिविषये उत्सुकता च सहजा। NET, SLET, UPSC, IPS इत्यादिषु परीक्षासु उपर्युक्तः सर्वोऽपि
अंशः दृश्यते। दशमकक्ष्यापरीक्षा, द्वादशकक्ष्यापरीक्षा, CET परीक्षा इत्येतासु तु अङ्कप्राप्त्यै महान् प्रयासः
क्रियते। तदतिरिच्य अन्यासु परीक्षासु तु एषः भावः न दृश्यते। किं बहुना
औपचारिकरूपेणैव परीक्षाः चाल्यन्ते इति भावः मम मनसि दृढः आसीत्।
तस्य हेतुरपि वर्तते। संस्कृतक्षेत्रे
आचार्यादिपरीक्षालेखनं केवलायै उपाधिप्राप्त्यै एव भवति। तत्र कति अङ्काः
प्राप्ताः इति तु गौणः विषयः भवति। अतः एव बहुषु छात्रेषु परीक्षाविषयकः अनादरः
दृश्यते। प्रायः 90 प्रतिशतम् छात्राः परीक्षायां प्राप्ताः अङ्काः मम जीवने
मुख्यभूताः भवन्ति इति न चिन्तयन्ति। यतो हि संस्कृतक्षेत्रे तु (अन्येषां
क्षेत्राणां परिचयस्तु मम लेशमात्रेणापि नास्ति) बहुत्र प्रभावकारणतः धनकारणतः वा
उद्योगाः लभ्यन्ते। क्वचिच्च कौशलबलात् उद्योगं प्राप्नुवन्ति। अङ्काधारेण
उद्योगप्राप्तिस्तु न्यूना एव। अतः परीक्षाविषये संस्कृतच्छात्राणां महान् अनादरः
अद्यत्वेऽपि अस्ति।
तथा हि मम पठनावसरे ये सम्यक् वेदमधीत्य
आगताः ते तु परीक्षादिने अपि पूजां कारयितुं गच्छन्ति स्म। लोके बहवो हि
परीक्षादिने पूजां कारयन्ति तत्र को वा विशेषः इति प्रश्नः उदीयेत। अत्र मया कथ्यमानाः
छात्राः स्वपरीक्षामुद्दिश्य पूजां न कारयन्ति, अपि तु अर्चकरूपेण गत्वा अन्यस्य
जनस्य निवेदनानुसारं पूजां कारयन्ति। मध्याह्ने परीक्षायां सत्यामपि सङ्कल्पावसरे
अस्य यजमानस्य क्षेमस्थैर्यवीर्यविजयाभिवृद्ध्यर्थम् इत्येव सङ्कल्पं कुर्वन्ति।
परीक्षायां भगवतः अनुग्रहः मयि भवतु इति तु न प्रार्थयन्ते एव।
एवं करणे काचित् युक्तिरपि तैरुच्यते।
पूजां कारयामः चेत् दक्षिणारूपेण धनं तु लभ्यते। परीक्षार्थं घण्टाद्वयम् अधिकं
पठेयं तर्हि उपदशाः अङ्काः अधिकाः लभेरन् कदाचित्। परन्तु तेन कोऽपि लाभः नास्ति।
परीक्षायामुत्तीर्णतामात्रं मया काङ्क्ष्यते। प्राप्यमानं धनम् अल्पं चेदपि तेन लाभः
वर्तते इति वयं चिन्तयामः इति। तथा पश्यामः चेत्
परीक्षादिनेऽपि धनं सम्पादनीयम् इत्यनिवार्या परिस्थितिः तेषां जीवने नास्ति।
तथापि परीक्षायाः अङ्कैः मम जीवने किमपि न प्राप्यते इति स्पष्टपरिज्ञानं तेषां
वर्तते इति कारणतः ते तथा व्यवहरन्ति।
परन्तु अन्या अपि काचित् विलक्षणा स्थितिः
मया अवलोकिता। संस्कृतभारत्या प्रवेश-परिचय-शिक्षा-कोविद इति नाम्ना
पत्रालयद्वारासंस्कृतशिक्षणस्य परीक्षाः चाल्यन्ते। अत्र ये परीक्षां लिखन्ति ते
सर्वे संस्कृतं पिपठिषवः एव भवन्ति। स्वजीवने संस्कृतात् किमपि भौतिकं लाभं
प्राप्नुयाम् इति ते न इच्छन्ति। अपि तु संस्कृतपठनेन यः आनन्दः लभ्यते सः मया
प्राप्तव्यः। तेन मनःशान्तिः मम स्याद् इति धिया एतासु परीक्षासु पञ्जीकरणं
कुर्वन्ति।
एवं परीक्षां लिखत्सु बहवो हि धनिकाः
भवन्ति। तेषां जीवने सम्पदः विषये चिन्ता न भवति। प्रायेण सर्वेऽपि समाजे किञ्चन
गौरवयुतं स्थानं प्राप्तवन्तः भवन्ति। अनेके उद्योगात् निवृत्तेः परमपि परीक्षाः
स्वीकुर्वन्ति। परीक्षालेखनसमये ते अक्षरशः छात्राः एव भवन्ति। परीक्षायां
सन्निहितायां श्रद्धया अध्ययनं कुर्वन्ति। पूर्वतनवर्षाणां प्रश्नपत्राणि
स्वीकृत्य अध्यापकान् उपसर्पन्ति। परीक्षालेखनदिने अपि तेषां मुखेषु छात्रत्वं
दृश्यते। गम्भीररूपेण परीक्षायाः विषये चिन्तयन्तः भवन्ति। तेषां मुखेषु भीतिरपि
दृश्यते। श्रद्धया परीक्षां विलिख्य निर्गच्छन्ति च।
तथा पश्यामः चेत् यथा छात्राणां जीवने
अङ्काः परिवर्तनं न आनयन्ति तद्वत् एतेषां पत्रालयद्वारासंस्कृतच्छात्राणां जीवने
अपि परीक्षायाः अङ्काः परिवर्तनं न आनयन्ति। छात्राणां तु अग्रिमजीवने
अङ्काधारित-उद्योगप्राप्तेः इच्छा तु मनसः कोणे ईषन्मात्रेण भवत्येव। परन्तु
एतेषां पत्रालयच्छात्राणां तु संस्कृतक्षेत्रे जीवननिर्वहणार्थम् उद्योगं कुर्याम्
इति इच्छालेशोऽपि न भवति। एवं भौतिकदृष्ट्या पश्यामः चेत् पत्रालयच्छात्राणां
परीक्षा उपयोगाय नास्त्येव। तस्मिन् समये ते अन्यत्र गत्वा सम्पादयितुं शक्नुवन्ति
आहोस्वित् परिवारेण सह सुखेन समययापनं कर्तुं शक्नुवन्ति। परन्तु तथा अकुर्वाणाः
केवलं चित्ततोषाय परीक्षाम् एते श्रद्धया लिखन्ति।
पत्रालयपरीक्षायामपि अङ्गुलिमेयाः विशिष्टाः
केचन भवन्ति। न हि एतेषां संस्कृतपठने आसक्तिः। परन्तु ते अङ्कमात्रचित्ताः। आरम्भे
तु संस्कृतपठनायैव आगच्छन्ति इमे। परन्तु गच्छता कालेन अङ्कप्राप्तिमेव
उद्देश्यत्वेन परिगणयन्ति। संस्कृतपठनाय परीक्षा इति कश्चन मार्गः इति विस्मृत्य
अङ्कप्राप्तौ पत्रालयपरीक्षा मार्गभूता इति चिन्तयन्तः अङ्कैकचित्ताः परीक्षां
लिखन्ति। एवम् अङ्कान् स्वीकृत्यापि तेषां जीवने अङ्कद्वारा भौतिकप्रयोजनं तु न
प्राप्नुवन्ति। अहं भूरिशः अङ्कान् प्राप्तवान् इति सन्तोषमात्रं तेषाम्। एतादृशाः
तु अङ्कैकनिष्ठाः अङ्कप्राप्त्यै पठितमपि परीक्षाया अनन्तरं विस्मरन्तीति खेदस्य
विषयः।


ಕಾಮೆಂಟ್ಗಳಿಲ್ಲ:
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ