ಬುಧವಾರ, ಫೆಬ್ರವರಿ 10, 2021

त्यक्तो न स्यात् "त्याजितः"

त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः ।
तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥ (रघुवंशम्, ४-३३)

त्याजितैरिति । "फलं फले धने बीजे निष्पत्तौ भोगलाभयोः" इति केशवः । वृक्षपक्षे प्रसवं च । त्याजितैः । त्यजेर्ण्यन्ताद्द्विकर्मकादप्रधाने कर्मणि क्तः । उत्खातैः स्वपदाच्च्यावितैः । अन्यत्रोत्पाटितैः । बहुधा भग्नै रणे जितैः । अन्यत्र च्छिन्नैः । नृपैः । पादपैर्दन्तिनो गजस्येव । तस्य रघोर्मार्ग उल्बणः प्रकाश आसीत् । "प्रकाशं प्रकटं स्पृष्टमुल्पणं विशदं स्फुटम्" इति यादवः ।  (मल्लिनाथव्याख्या)

एतस्य श्लोकस्य तात्पर्यार्थः इत्थं वर्तते । रघुः दिग्विजयावसरे मार्गे स्थितवतां राज्ञां नाशनम् अकरोत् । तेन तस्य मार्गे प्रकाशः (श्लोके प्रकाशार्थे उल्बणशब्दः प्रयुक्तः) समभवत् । गजाः वृक्षान् उन्मूलयन्ति चेत् यथा तेषां मार्गे प्रकाशः भवति तथा शत्रून् नाशितवतः रघोः मार्गे अपि प्रकाशः आसीत् ।

श्लोके विद्यमानानां पदानाम् अर्थावगमनेन तात्पर्यार्थस्तु ज्ञायते एव । काव्यरसोऽपि आस्वाद्यते । परन्तु कस्य केन सह कथम् अन्वयः इति ज्ञानेन काव्यरसेन सह व्याकरणरसः अपि अनुभोक्तुं शक्यः । तत्र दृष्टिः प्रसार्यते । 

रघोः मार्गः त्याजितलाभानां नृपाणां नाशनेन प्रकाशयुक्तः अभवत्  इत्येतम् अर्थं श्लोके विद्यमानानां पदानाम् आधारेण पश्यामः ।  'उत्खातैः फलं त्याजितैः नृपैः मार्गः उल्बणः आसीत्' इति शब्दाः पद्ये प्रयुक्ताः । अत्र त्याजितैः इति क्तान्तं नृपैः इत्यनेन सह सम्बद्धं भवति चेदेव एतस्य अर्थस्य सिद्धिर्भवति । परन्तु तत्र तथा अर्थसाधने क्लेशः कश्चन विद्यते ।

नृपाः फलं त्यक्तवन्तः इति अण्यन्तं वाक्यं कर्तरि । रघुः नृपैः फलं त्याजितवान् इति ण्यन्तं वाक्यम् ।  गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति सूत्रेण गत्याद्यर्थकधातुषु सत्सु  अणिजन्तवाक्ये यः कर्ता भवति (ण्यन्तवाक्ये प्रयोज्यकर्ता इत्युच्यते), ण्यन्तवाक्ये तस्य कर्मसंज्ञा द्वितीयाविभक्तिः च भवति । यथा 'बालकः शालां गच्छति' इत्यस्य ण्यन्तवाक्यं 'पिता बालकं शालां गमयति' इति । गत्याद्यर्थान् अतिरिच्य अन्यत्र तु प्रयोज्यकर्तुः तृतीया एव । यथा- 'सेवकः पत्रं लिखति' इत्यस्य 'स्वामी सेवकेन पत्रं लेखयति' इति ण्यन्तवाक्यम् ।

अधुना त्यजधातोः विषये चिन्तयामः चेत् वस्तुतः अयं धातुः गत्याद्यर्थकेषु नान्तर्भूतः । अतः ण्यन्ते वाक्ये प्रयोज्यकर्तुः द्वितीयाविभक्तिः न भवति । एतेन 'नृपाः फलं त्यक्तवन्तः' इत्यस्य 'रघुः नृपैः फलं त्याजितवान्' इति ण्यन्तवाक्यं सिद्धं तस्य च कर्मणि 'रघुणा नृपैः फलं त्याजितम्' इति वाक्यं सिद्ध्यति ।

श्लोकेऽपि नृपैः इत्युक्तं वर्तते अतः न कापि हानिः इति न चिन्तनीयम् । नृपैः इत्यस्य त्याजितैः इति क्तान्तं विशेषणत्वेन प्रयुक्तम् । (त्याजितैः इति तृतीयाबहुवचनं नृपैः इत्यत्रापि तथा । यदि 'रघुः नृपैः फलं त्याजितम्' इति वाक्यं स्यात् तर्हि 'नृपाः फलैः त्याजितैः' इति श्लोके प्रयुक्तम् स्यात् । परन्तु तथा नास्ति । ) एवं सति वाक्यं 'रघुणा नृपाः फलं त्याजिताः' इत्येव स्यात् । एवं वाक्यप्राप्तौ त्यजधातोः णिचि द्विकर्मकता अङ्गीकरणीया एव । 

एवं सति 'रघुः नृपान् फलं त्याजितवान्' इति कर्तरि वाक्यम् । रघुणा नृपाः फलं त्याजिताः इति कर्मणि ।   

बुद्धिभक्ष्यार्थयोः शब्दकर्मणां च निजेच्छया ।
प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः ॥ (सिद्धान्तकौमुदी)

इत्युक्तम् । त्यजधातुः बुद्ध्यादिष्वर्थेषु नास्ति । अतः प्रयोज्यकर्मणः प्रथमा भवति । अतः 'रघुः नृपान् फलं त्याजितवान्' इत्यस्य कर्मणि 'रघुणा नृपाः फलं त्याजिताः' इति प्रयोगः सिद्धः भवति । तैः मार्गः प्रकाशयुक्तः अभवत् इति कथयितुं 'रघुणा उत्खातैः फलं त्याजितैः नृपैः तस्य मार्गः उल्बणः आसीत्' इति इति प्रयुक्तम् । अत्र नृपैः इति तृतीया प्रयुक्ता इति कारणतः  नृपः इति कर्ता स्यादिति भानं सामान्यतया भवति । परन्तु तत् करणम् एव इति तु स्पष्टम् ।   

(जनार्दनहेगडेमहोदयस्य बोधनेन अयं विषयः संगृहीतः । त्यजधातोः णिचि द्विकर्मकत्वविषये अन्यानि मतानि अपि स्युः, तानि न परिशीलितानि । )

2 ಕಾಮೆಂಟ್‌ಗಳು:

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...