ಗುರುವಾರ, ಫೆಬ್ರವರಿ 6, 2020

दीपकम् - तुल्ययोगिता

दीपकालङ्कारः तुल्ययोगितालङ्कारः इत्यलङ्कारद्वयं प्रसिद्धमेव। अलङ्कारलक्षणपठनावसरे अहमपि अस्य अलङ्कारस्य लक्षणम् उदाहरणं च पठितवान्। लक्षणम् उदाहरणं च सम्यगेव ज्ञातम् अवगतं च। परन्तु अनयोर्मिथः को भेदः इति प्रश्नस्तु मम मनसि बहुकालादारभ्य आसीदेव। कुवलयानन्दे अनयोः अलङ्कारयोः लक्षणम् उदाहरणं वृत्तिश्च बहुवारं पठिता। पुनश्च साहित्यदर्पणे अलङ्कारस्य अध्ययनावसरे अपि अवलोकितम्। परन्तु एकधर्माभिसम्बन्धः इति अंशः स्पष्टतया ज्ञातः। प्रस्तुत अप्रस्तुतविषये एव महान् सन्देहः आसीत्।
          वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः।
          मदेन भाति कलभः प्रतापेन महीपतिः॥ (कुवलयानन्दः,दीपकालङ्कारः)
          वर्ण्यानाम् इतरेषां वा धर्मैक्यं तुल्ययोगिता।
          सङ्कुचन्ति सरोजाणि स्वैरिणीवदनानि च॥ (कुवलयानन्दः,तुल्ययोगितालङ्कारः)
इति कुवलयानन्दे। अत्र कलभः भाति, महीपतिः भाति इति भानक्रियायाः सम्बन्धः द्वाभ्यां सह वर्तते। तथा च सरोजानि सङ्कुचन्ति, स्वैरिणीवदनानि सङ्कुचन्ति इत्यत्रापि सङ्कोचनक्रियायाः सम्बन्धः द्वाभ्यां सह वर्तते। सुन्दर्याः वदनं कमलम् इव इत्यत्र मुखम् उपमेयम्, कमलम् उपमानम् इति स्पष्टम्। तद्वत् महीपतिः कलभः इव इत्यत्रापि महीपतिः उपमेयः कलभः उपमानः इति भानम् आदौ अभवत्। राजा गज इव इति बहुत्र वर्णनं दृश्यते एव। अतः उभयत्रापि कः भेदः वर्तते इति स्पष्टं न ज्ञातम् सन्देहः तथैव स्थितः आसीत्।

वयं काव्यशास्त्रं पठन्तः काव्यं न पठामः इति तु खेदाय। विद्यालयजीवने वर्षत्रयं यावत् यद्यपि किञ्चन काव्यं पाठ्यक्रमे भवति स्म तथापि मम कक्ष्यायां काव्यपाठः सम्यक्तया न जातः। रुचिराणां काव्यानां सारांशं पठित्वा परीक्षां लेखितुं गच्छामः स्म इति स्मृत्वा मम लज्जा, स्वस्मिन्नेव कोपः, खेदः च जायते। काव्यानि पठन्तः तत्र यदि साहित्यशास्त्रे उद्भूतानां सन्देहानाम् उत्तरान्वेषणम् अकरिष्याम काव्यास्वादमपि प्राप्स्याम। परन्तु इदानीं वा किञ्चित् काव्यपठने प्रवृत्तोऽस्मि इति सन्तोषस्य विचारः। 

कुमारसम्भवस्य पठनावसरे बहुभ्यः दिनेभ्यः चिन्त्यमानम् उत्तरम् लब्धम्। तत्र शिवः कन्यां याचितुं सप्तर्षीन् प्रेषयति। सप्तर्षयः हिमालयम् आयान्ति। हिमालयः तेषां सत्कारं कृत्वा, सप्तर्षीणां विषये गौरवयुक्तानि वचांसि च वदति। ततः अङ्गिराः हिमालयमुद्दिश्य वाचम् वदति। तदानीम् अयं श्लोकः वर्तते-
                   उपपन्नमिदं सर्वमतः परमपि त्वयि।
                   मनसः शिखराणां च सदृशी ते समुन्नतिः॥(कुमारसम्भवम्, ६-६६)
 अहं भवतां सेवार्थमस्मि इति यद्वाक्यम् त्वया उक्तम् तद्वाक्यं तव युज्यते। यतो हि भवतः मनसः शिखराणां च उन्नतिः सदृशी वर्तते। अत्र अङ्गिराः हिमालयस्य मनसः उन्नतिं वक्तुं प्रवृत्तः इति कृत्वा मनः समुन्नतिः इति प्रस्तुतम्। शिखराणाम् उन्नतेः प्रसङ्गः नास्ति इति कृत्वा स च प्रसङ्गः अप्रस्तुतः। एवम् प्रस्तुत-अप्रस्तुतयोः औन्नत्यरूपे गुणे सम्बन्धः कल्पितः इति अत्र दीपकालङ्कारः। अस्मिन्नेव प्रसङ्गे  अपरः श्लोकः विद्यते।
                   अच्छिन्नामलसन्तानाः समुद्रोर्म्यनिवारिताः।
                   पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते॥ (कुमारसम्भवम्, ६-६९)
अत्र हिमालस्य स्थावररूपस्य जङ्गमरूपस्य च वर्णनं विद्यते। पर्वतः स्थावरो हिमालयः। जङ्गमः हिमालयः यः ऋषिभिः सह भाषते। अस्मिन् श्लोके अपि हिमालयस्य श्लाघनम् अङ्गिरसा क्रियते। तव कीर्तयः सरितः च लोकान् पुनान्ति इति अङ्गिराः कथयति। कीर्तयः अच्छिन्नामलसन्तानाः छेदरहिताः, निर्मलाः च प्रवाहाः वर्तन्ते। सन्तानशब्दस्य विस्तारः इत्यर्थः। जङ्गमहिमालयस्य कीर्तिः विस्तृता वर्तते। स्थावरहिमालयस्य नदी अपि विस्तृता वर्तते इति भावः। समुद्रोर्म्यनिवारिताः इति अपरं विशेषणम्। अत्र समुद्रस्य पारङ्गता कीर्तिः इति कीर्तिविषये, समुद्रप्रवेशसमये ऊर्मिभिः नदी न वार्यते इति सरिद्विषये च अर्थः।

अत्र कीर्तयः सरितः च लोकान् पुनन्ति इति पावनरूपे धर्मे द्वयोः अन्वयः भवति। अङ्गिरसः तु तात्पर्यम् हिमालयवर्णने इत्यस्मात् स्थावरस्य जङ्गमस्य च हिमालयस्य वर्णनम् अत्र प्रस्तुतमेव इति तुल्ययोगितालङ्कारः। एवं काव्यपठनेन सन्देहः दूरं गतः। अलङ्कारविषये स्पष्टता च प्राप्ता।

1 ಕಾಮೆಂಟ್‌:

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...