ಶುಕ್ರವಾರ, ಮೇ 17, 2019

प्रतीयमानं पुनरन्यदेव

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥

इदं भर्तृहरेः सुभाषितम्। केषुचित् भर्तृहरिनीतिशतकपुस्तकेषु इदं पद्यं न दृश्यते। परन्तु भर्तृहरिपद्यमिति प्रसिद्धिस्तु वर्तत एव। एतस्य श्लोकस्य पठनात् कश्चन अर्थः अस्माभिः ज्ञायते। स च अर्थः बहुषु व्याख्यानेषु भाषान्तरेषु च उल्लिखितोऽप्यस्ति। यथा चेतनरहितः अपि सूर्यकान्तमणिः सूर्यपादैः स्पृष्टः सन् प्रज्वलति, तन्नाम कोपं प्रकटयति। तद्वत् परैः कृतम् अवमाननं कथं सहते इति।

          कश्चन नवसप्ततिवर्षीयः पुरुषः नारायणनामा हिन्दूस्थान् पेट्रोलियं संस्थायाम् उन्नतपदे आसीत्। उद्योगात् निवृत्तेरनन्तरं संस्कृतपठनरुचिः अभवत्। शिबिरं प्रविश्य संस्कृतभारत्याः कोविदपरीक्षां उत्तीर्य कर्णाटकसंस्कृतविश्वविद्यालयतः आचार्यपदवीं प्राप्य सद्यः एम्.फिल् कक्ष्यायां विद्यते। अष्टसप्ततिवर्षीयोऽपि युवच्छात्राणामपेक्षया अधिकमध्ययनं करोति। अस्मिन् वयसि पठितस्य विस्मरणं जायते इति हेतोः परिश्रमस्य फलं पूर्णप्रमाणेन कदाचित् न लभेत। परन्तु ग्रन्थाध्ययने प्रतिपङ्क्ति सारः ग्रहीतव्यः इति एतस्य प्रयत्नः भवति।

          सः उपर्युक्तं सुभाषितं पठित्वा तस्य अर्थं च ज्ञातवान्। तदनन्तरम् एतस्य सुभाषितस्य आशयान्तरमपि तस्य मनसि स्फुरितम्। यथा सूर्यस्य किरणैः स्पृष्टः एव सूर्यकान्तमणिः प्रकाशते। अन्यैः कृत्रिमप्रकाशैः(टार्च् इत्यादिभिः) तु न। तद्वत् तेजस्वी पुरुषः अपि श्रेष्ठानां प्रशंसया एव आत्मनः तोषं प्रकटयन्ति। न तु क्षुद्रजनानां प्रशंसया । इति। यदि पादशब्दस्य चरणरूपः अर्थः गृह्यते चेद् तेजस्विनः पुरुषाः श्रेष्ठानां चरणाघातं अवमाननकारणं न मन्यन्ते इति तस्याभिप्रायः। सः तस्याशयम् आङ्ग्लभाषया इत्थं व्यक्तीकृतवान्।
The above is the Shubhashitam under review. Further to my discussions, I wish to propose the following idea. for your kind review at your total convenience.
There are two parameters ; 1. Sun rays are essential for the whole world and therefore cannot be harmful (unless deliberately misused.
2. (परकृत)निकृतिं: = defined as "fraud,/wickedness/chicanery etc. Among other meanings. I am selecting Chicanery as it is the deadliest!
Now my theory:
1. Now :pratyakshadevaH SuryaH. As I said above without sunrays the world would just collapse. So the most important element for our existence 
2. Chicanery : Cheating by cunning methods.  .Appearing to be good but doing the opposite. 
Let us go the Shubhashitam.

Suryakantamani just gleams when sunrays fall on it. Gleam is a positive action. Like a Bride gleams with a new sari and diamond necklace etc on her wedding day.Therefore the brightness exhibited by the Mani, is a sign of rejoicing and not resenting . This is my first point.

What happens later? Yes. When something of  lesser grade than the sun rays falls on the Mani, it simply keeps quiet. Because the Mani does not care for such secondary brilliance. "I will take the best available in the field is its motto! 

Here please note that the other sources of light are trying to use chicanery and make the Mani gleam. Mani will not relent. It just ignores the other sources and says I have nothing to do with you and you may go away! Even though the Mani is an achetana vastu, its reaction is beautiful.

Now referring to satpurushAH, they also come across many persons who are trying to pose as good persons but inwardly having cheap and diabolical plans. (This is chicanery). When such a confrontation occurs then what the satpurushAH do? They treat the offenders with disdain. 
(They do not waste their time, once they know the quality of the intruder.

This is the message  given in the Shubhasitham. Even an inert object like suryakantaMani could understand the quality of the transactions imposed on it. Then would it be difficult for a scholar of repute to fathom the wickedness (if any) in the transactions that may come along?

मया सुलभोपलभ्याः कतिचन व्याख्याः भाषान्तरटीकाः च अवलोकिताः। क्वचित् नीतिशतके अयं श्लोक एव न वर्तते। यत्राऽयं श्लोकः दृश्यते तत्र अनया दृष्ट्या व्याख्यानं तु नास्ति। परन्तु श्लोके अवलोकिते अस्यार्थस्य विरोधः न दृश्यते । यतो हि ज्वलति इत्यस्य प्रकाशते इत्यप्यर्थः अभिधानचन्द्रिकायां दर्शितः। तथा हि ज्वलनात् पूर्वं प्रकाशनं तु भवत्येव। शिशिरसमये रविकान्तमणिना शीतनिवारणं भवति न तु दाहः इति नैषधीयचरितेऽपि वर्णितम्। सप्ततितमे वयसि संस्कृताध्ययनं आरब्धवतः कस्यचित् पुरुषस्य  एतादृशः कश्चन विशिष्टः अर्थः व्याख्यानादीनाम् अपठनेनैव यदि व्यज्यते, तर्हि बाल्यादारभ्य सूक्ष्मेक्षिकतया संस्कृतस्य कति वा ईदृशाः विशिष्टाः अर्थाः न प्रतिभासेरन्।

ಕಾಮೆಂಟ್‌ಗಳಿಲ್ಲ:

ಕಾಮೆಂಟ್‌‌ ಪೋಸ್ಟ್‌ ಮಾಡಿ

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...