ಬುಧವಾರ, ಜೂನ್ 2, 2021

मम महातोषः

सर्वेषामपि जीवने सन्तोषः भवत्येव । सः आजीवनं दुःखी स्यात् परन्तु निश्चयेन कदाचित् महान्तम् आनन्दम् अनुभूतवान् एव भवति । सर्वत्र रन्ध्रान्वेषिणः कदाचित् तोषस्य अनुभवं न कृतवन्तः स्युः । परन्तु भगवतः कृपया मम जीवने कष्टानामपेक्षया तोष एव अधिकः । एतेषु तोषेषु एतावत्पर्यन्तं भवता अनुभूतः महान् तोषः कः इति प्रच्छ्यते चेत् वर्तते कश्चित्, यश्च आजीवनं महातोषत्वेनैव तिष्ठति ।

तत्प्रकाशयितुम् अयं सुसमयः । यतो  हि मम शैक्षिकं जीवनं समाप्तप्रायं वर्तते । विद्यावारिधिशोधप्रबन्धः उपाधये समर्पयितुं सज्जः । विद्यावारिधिः इति उपाधिरपि मया लभेत । अनेके जनाः विद्यावारिध्युपाधिप्राप्तिसमयः एव मम शैक्षिकजीवनस्य आनन्दमयः समयः इति मन्वते । मम विषये अपि तथा चिन्तयन्तः अनेके भवतः विद्यावारिधिः समाप्यमाना अस्ति खलु इति पृच्छन्ति । मम अपेक्षया तत्र उत्सुकता, आनन्दः च तेषामेव वर्तते इति कदाचित् भासते । (न केवलम् उद्योगादिविषये चिन्तयन्तः ते इदं कथयन्ति अपि तु विद्यावारिधिप्राप्तिः नाम ते महतीम् उपलब्धिं मन्वते) । भवतु नाम तेषां मतिः । मम तु विद्यावारिधिप्राप्त्या महानन्दः तु न भवत्येव । यतो हि तदपेक्षया महानन्दम् अहं शैक्षिकजीवने प्रागेव प्राप्तवान् अस्मि ।

अखिलभारतस्तरे शास्त्रविषयेषु भाषणादिस्पर्धाः प्रचलन्ति । तत्र भागः वोढव्यः इति मम स्वप्नः प्राक्शास्त्रितः आसीत् । तत्र भागग्रहणमेव मम शैक्षिकजीवनस्य महती उपलब्धिः इति चिन्तितवान् आसम् । शास्त्रिकक्ष्यासु राज्यस्तरीयस्पर्धायामेव पराजयं प्राप्तवान् इति हेतोः अवसरः न लब्धः आसीत् । आचार्यस्तरे प्रथमवर्षे अवसरं प्राप्य पुरस्कारद्वयं प्राप्तवान् आसम् । तावता अहं तृप्तः च आसम् । परन्तु आचार्यद्वितीयवर्षे अपि अखिलभारतशास्त्रस्पर्धां प्रति गमनाय अवसरः प्राप्तः । तत्र एकं स्वर्णपदकम् (साहित्यभाषणे) एकं रजतपदकम् (समस्यापूर्तौ) कांस्यपदकद्वयं (अक्षरश्लोक्यां प्रश्नमञ्चे च) प्राप्तवान् । एषः तु मम आनन्दमयः क्षणः आसीत् । यस्यां स्पर्धायां भागग्रहणमात्रेण आत्मानं धन्यं मन्ये स्म, तादृशस्पर्धायां चतुर्णां पदकानाम् अवाप्त्या अहम् आनन्दतुन्दिलः आसम् ।

परन्तु अन्येषां दृष्ट्या इदम् आनन्ददायकं न । यतो हि एतद्वारा उद्योगप्राप्तिः वा विद्यालयस्य सर्वोत्कृष्टविद्यालयः इति नाम वा न भवति । तद् अहमपि जानामि । विद्यालयीयाः तु युवमहोत्सवे चत्वारि पदकानि प्राप्तानि इतीदम् अधुनापि मम महोपलब्धिं चिन्तयन्ति ।  तथापि मम शैक्षिकजीवनस्य आनन्दतमः समयः एषः इत्यत्र इदानीमपि नास्ति सन्देहः । स च आनन्दः अन्यैः आज्ञातः स्यात् । परन्तु अहं तु आनन्दानुभूतिं प्राप्तवान्, तत् स्मरामि चेत् इदानीमपि आनन्दः भवति । 





एतादृशः अव्यक्तानन्दः मया अन्येषु नावलोकितः आसीत् । अन्येऽपि एतादृशम् अनुभूतवन्तः स्युः एव । यथा मम आनन्दः अन्यैः न ज्ञायते तथैव अन्येषामपि आनन्दः मया न ज्ञातः स्यात् । एषः आनन्दः कस्यचित् वैद्यस्य मुखे मया दृष्टः। 

मम मातुः शस्त्रचिकित्सां कश्चन वैद्यः कृतवान् । सः मङ्गलूरुनगरे प्रसिद्धः शस्त्रचिकित्सकः । मम मातुः शस्त्रचिकित्साम् अयं करोति इति ज्ञानानन्तरं गूगल्-द्वारा तस्य विषये ज्ञातुं प्रयासः मया कृतः । तदा तेन घण्टाः यावत् शस्त्रचिकित्साः कृत्वा अनेकान् रोगिणः प्राणान् रक्षितवान् इति पठितम् । प्रतिदिनं सः रात्रौ शस्त्रचिकित्सां निर्वर्तयति स्म । मातुः शस्त्रचिकित्सायाः पूर्वं सप्त दिनानि यावत् लघुचिकित्सार्थम् अहं वैद्यालये आसम् । तदानीं एषः शस्त्रचिकित्सां कृत्वा शस्त्रक्रियाप्रकोष्ठतः बहिः आगच्छन् द्वित्रवारं दृष्टः । तदा तस्य मुखे विशिष्टः कोऽपि भावः न भवति स्म । मम मातुः शस्त्रचिकित्साकरणानन्तरम् आगतस्य तस्य मुखस्य उपरि विशिष्टः आनन्दः आसीत् । शस्त्रक्रिया क्लृप्तरूपेण जाता अस्ति इति आनन्देन बहुवारम् अवोचत् । जनाः माम् अन्यान्यविषयार्थं प्रशंसां कुर्युः, परन्तु मम महानन्दः एतया शस्त्रचिकित्सया अभवत् इति भावः तस्य मुखे दृश्यते स्म । एतेन ममापि अखिलभारतशात्रस्पर्धायाः आनन्ददायकः क्षणः स्मृतः । मम मातुः शस्त्रचिकित्सा उत्तमतया जाता इति आन्दोपि अभवत् ।

ಕಾಮೆಂಟ್‌ಗಳಿಲ್ಲ:

ಕಾಮೆಂಟ್‌‌ ಪೋಸ್ಟ್‌ ಮಾಡಿ

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...