क्रोधाग्निसंनाशनवारिधारा
दुःखाब्धिसन्तारणनौर्नराणाम् ।
सुखाब्जसंस्मेरणदीधितिः सा
भूलोकदेवी वनिता विभाति ॥
दुःखाब्धिसन्तारणनौर्नराणाम् ।
सुखाब्जसंस्मेरणदीधितिः सा
भूलोकदेवी वनिता विभाति ॥
पुत्रस्य पत्युः सुहृदः पितुर्वा
भ्रातुर्भवेत्सौख्यमिति श्रमं या ।
कृत्वा सुखं तत्र समीक्षमाणा
भूलोकदेवी वनिता विभाति॥
अन्यान् महाभाजनभोजनेन
सन्तोषयन्ती लघुभाजनेन ।
भुङ्क्तेऽवशिष्टं खलु सा विशिष्टा
भूलोकदेवी वनिता विभाति ॥
हताशभावाद्धतमानसानां
वात्सल्यजीवातुरसा नराणाम् ।
अभीष्टदा कल्पलतार्थिनां सा
भूलोकदेवी वनिता विभाति ॥
काठिन्यराशौ सततं वसन्ती
कारुण्यभावं पुरुषेषु धत्ते ।
स्वजीवितं लोकहितेऽर्पयन्ती
भूलोकदेवी वनिता विभाति ॥
कायेन दार्ढ्यं न हि तावदस्ति
तस्मात् प्रसिद्धास्त्यबलेति लोके ।
आधारभूता सबलस्य सैव
भूलोकदेवी वनिता विभाति ॥
ಕಾಮೆಂಟ್ಗಳಿಲ್ಲ:
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ