ಶನಿವಾರ, ಫೆಬ್ರವರಿ 27, 2021

कृष्णाय मणिहाराः

(मणिहारबन्धे इमानि पद्यानि रचितानि । बन्धेस्मिन् प्रतिपादं अनुष्टुप्छन्दसि द्वितीय-चतुर्थ-षष्ठवर्णाः समानाः भवन्ति । प्रथमपद्यं सचित्रं दर्शितम् ।)


लोकलोकनकर्तव्याद्द्वापरे पदपद्मकम् ।

यः कृत्वा कृतकृत्यस्तं श्रीपङ्गोपनृपम्भजे ॥१॥

शैशवे शत्रुशक्तीनां मारणं रणरङ्गके

व्यधत्त धर्मधर्ता तं श्रीपङ्गोपनृपम्भजे ॥२॥

संहृत्य हृत्सुहृद्भावात्क्षीरञ्च रसरञ्जितम् ।

रेजे व्रजेऽब्धिजेशस्तं श्रीपङ्गोपनृपम्भजे ॥३॥

गिरिधारिहरिस्त्राता कुनागनाशनाद्धितः ।

लीलाकुलाकुलाङ्गस्तं श्रीपङ्गोपनृपम्भजे ॥४॥

यशोदेशो यशोदाया यो राधारागराट्प्रभुः

नन्दनन्दनस्तं हि श्रीपङ्गोपनृपम्भजे ॥५॥

कंसध्वंसनसत्कार्यधीरक्रूरवरप्रदः ।

सताम्पातावतारी तं श्रीपङ्गोपनृपम्भजे ॥६॥

क्रूरान्घोराञ्जरासन्धादीनरीनहनद्धिया ।

यः सदा सत्सु सश्रीस्तं श्रीपङ्गोपनृपम्भजे ॥७॥

रमा भामा च माधुर्ययुते एते वृते पुनः ।

येनाङ्गनास्सनाथास्तं श्रीपङ्गोपनृपम्भजे ॥८॥

सुदाम्नेऽदान्मुदा सख्ये  योऽभयं भयभञ्जकः ।

सुभद्रां भद्रभर्त्रे, तं श्रीपङ्गोपनृपं भजे ॥९॥

गीता माता सताय्येँन प्रदिष्टा दिव्यदिक्प्रदा ।

सदेष्टं देवदेवं तं श्रीपङ्गोपनृपं भजे ॥१०॥ 



चित्रलेखनम्- कीर्ति अडिगा

(इमानि पद्यानि सम्पूर्णानन्दविश्वविद्यालयद्वारा आयोजितायां काव्यकल्लोलिनीनाम्न्याम् आन्तर्जालिककविगोष्ठ्यां प्रस्तुतानि ।)

ಗುರುವಾರ, ಫೆಬ್ರವರಿ 11, 2021

अनौपचारिकी शिक्षा यद्वलादस्मि रक्षितः

जीवने औपचारिकरूपेण बहु किमपि वयं पठामः ।  अनौपचारिकरूपेण यत्पठितं तस्य तु महत्त्वं औपचारिकशिक्षायाः अपेक्षया अधिकमेव वर्तते इति मे मतिः । यतो हि विद्यालये अङ्कप्राप्त्यर्थं यदा पठ्यते तदानीं यान्त्रिकतां वयमनुभवामः । पाठ्यक्रमः अयम् इति निर्दिश्य तन्निमित्तं समयसीमा अपि निर्दिश्यते चेत् तत्र पाठनेऽपि आनन्दः न भवति । परन्तु स्थूलरूपेण किञ्चन पाठ्यक्रमं निश्चित्य वस्तुतः ज्ञानस्य सम्प्रसारणायैव यत् पाठनं क्रियते तत्र तु अध्यापकस्य छात्रस्य च महान् लाभः वर्तते । 

नाहं शिक्षकः शिक्षाशास्त्री वा । केषाञ्चन अनुभवानाम् आधारेण यत्किमपि यदि स्फुरति तर्हि तस्य संविभागम् अत्र करोमि । मम मातुः चिकित्सावसरे शस्त्रचिकित्सकः आगत्य प्रतिदिनं कुशलं पृच्छति स्म । कस्मिंश्चित् दिने मातरं परीक्ष्य तत्र विद्यमानान् वैद्यकीयच्छात्रान् अनुवैद्यान् च उद्दिश्य पञ्च निमेषान् यावत् किमपि उक्तवान् । तेन उक्तः विषयस्तु मया किञ्चिदपि नावगतः । परन्तु इदमवगतं यत् तेन उच्यमानः विषयः वैद्यकीयक्षेत्रे सद्यःप्रविष्टानां तासां महते उपकाराय भवति इति । यदि एतमेव विषयं सः औपचारिकरूपेण कक्ष्ययाम् अपाठयिष्यत् तर्हि एतावान् प्रभावः छात्राणाम् अभविष्यत् इति वक्तुं न शक्यते ।

एतादृशानाम् अनौपचारिकाध्ययनानां प्रयोजनं बहुधा मया प्राप्तम् इति मम आनन्दः विद्यते । शृङ्गेरीं गतवान् अहं छात्रावासे वासम् अकरवम् इति कारणतः बहुविधाम् अनौपचारिकशिक्षां प्राप्तवान् । तत्र विद्यालयस्य मम च भावनात्मकः सम्बन्धः आसीत् । अतः विद्यालयस्य दोहनं यावत् कर्तुं शक्यते तावत् छात्रावस्थायां मया कृतम् । २०१६-२०१७ तमे वर्षे पुरस्कारस्य धनराशिः, स्पर्धार्थं गमनागनव्ययः, प्रयाणे भोजनव्यवस्था, विद्यार्थिवेतनम्, इत्येतेषां चतुर्णाम् अंशानां कृते विद्यालयेन मम कृते एकलक्षरूप्यकाणां व्ययः कृतः वर्तते । एवं विद्यालयस्थं सर्वमपि मदीयम् इति भावः यदा भवति तदा तु अनौपचारिकरूपेण पठनस्य अवसराः बहवः लभ्यन्ते ।

ये च विद्यालयपरिसरात् बहिः वसन्ति तेषाम् एतादृश-अनौपचारिकशिक्षाप्राप्तिः न भवति । (जीवनदृष्ट्या पश्यामः चेत् ते अपि अनेकान् पाठान् पठेयुः । परन्तु विद्यालयं प्रविष्टवता च्छात्रेण यावद्विद्यालयतः प्राप्तव्यं तावत् न प्राप्यते इति कथनस्य आशयः ।) अतः यदि सौकर्यं वर्तते तर्हि यावच्छक्यं विद्यालयपरिसरे एव वासः क्रियते चेत् बहुविधम् अनौपचारिकं ज्ञानं प्राप्तुं शक्यते इति अनुभवस्तु जातः । एवं प्राप्तम् अनौपचारिकज्ञानमेव अस्माकम् अग्रिमजीवनं कष्टरहितं यथा स्यात् तथा करोति ।    

अन्येषां भाषणादिश्रवणे महती रुचिः मम । तदानीं समग्रस्य विषयस्य ग्रहणं तु न भवति । परन्तु कतिचन वाक्यानि तु बुद्धिं प्रविशन्ति स्म । तादृशवाक्येषु सुभाषितानि बहूनि भवन्ति स्म । प्रौढशालायामपि मम संस्कृतविषयः नासीत् इति हेतोः विद्यालयप्रवेशात् प्राक् अहम् एकमपि सुभाषितं न जानामि स्म । विद्यालयागमनानन्तरमपि एकमपि सुभाषितं न कण्ठस्थीकृतवान् । परन्तु अनेकानि सुभाषितानि मम कण्ठे विद्यन्ते । कदाचित् कश्चित् मां घण्टाद्वयं यावत् बोधनम् अकरोत् । तदा तस्य वाक्यानि श्रुत्वा दशाधिकसुभाषितानि मया स्मृतानि । तेषु एकमपि सुभाषितम् औपचारिकरूपेण पठितं नासीत् । 

व्याकरणविषये अपि समाना स्थितिः । मम तु अलङ्कारशास्त्रम् । मन्दमतयः संस्कृतमधीयते । तत्रापि मन्दमतितराः अलङ्कारशास्त्रमधीयते इति स्थितिः समाजे वर्तते । अतः अलङ्कारशास्त्रं पठितुं प्रवृ्त्तः अहं मन्दः एव स्याम् । तथापि व्याकरणविषये मम महती आसक्तिः । मधुकेश्वरभट्ट-प्रियव्रतमिश्र-प्रमोद-जयकृष्णसदृशाः उत्कृष्टाः वैयाकरणाः प्राक्शास्त्रिस्तरे मम पाठनम् अकुर्वन् इत्यपि एतस्य कारणं स्यात् । अनिवार्यतया व्याकरणपठनं तु शास्त्रिप्रथमवर्षे समाप्यते । तदन्तरं प्रायेण बहवः इतरशास्त्रीयच्छात्राः व्याकरणं द्विषन्ति । न पठन्ति च । मम तु विरुद्धा स्थितिः तदनन्तरमपि रुचिमान् सन् सन्देहे सति ज्येष्ठान् पृच्छन् व्याकरणं किञ्चित् किञ्चित् पठितवान् । तत्परिणामतः बहवः माम् अद्यापि वैयाकरणमेव मन्वते ।

अत्र संस्कृतभारतीकार्यमपि कारणम् । संस्कृतभारतीप्रवेशः भवति चेत् अध्ययनेच्छा नश्यति इति बहवः वदन्ति । मम विषये तु न तथा । अद्य किञ्चिद्वा संस्कृतेन एवं लिखन् अस्मि इत्येतस्य कारणं संस्कृतभारती एव । तत्रापि यदा आरभ्य अक्षरे मम प्रवेशः जातः ततः मासचतुष्टयात् अनन्तरं प्रतिसप्ताहं घण्टात्रयं जनार्दनमहोदयस्य अनौपचारिकपाठनम् आरब्धम् । ततः अपि बहवः व्याकरणांशाः ज्ञाताः, तेन बहुलाभान्वितः च अभवम् ।

अद्य कश्चन ज्येष्ठः महाविद्यालयीयप्राध्यापकः व्याकरणविषये किमपि प्रष्टुं दूरवाणीं कृतवान् । कदाचित् एतादृशान् अंशान् अस्माकं छात्रानपि आगत्य बोधयतु इति च उक्तवान् । मम आश्चर्यम् अभवत् यत् सः तु संस्कृतक्षेत्रे चत्वारिंशदधिकवर्षेभ्यः कार्यं कुर्वन् वर्तते । महतां वैयाकरणानां परिचयः तु तस्य स्यादेव । तथापि सः व्याकरणविषयं किमर्थम् मामेव पृष्टवान् । अनौपचारिकरूपेण व्याकरणं पठितवतः मम भाग्यमेव इदमिति मन्ये ।

ಬುಧವಾರ, ಫೆಬ್ರವರಿ 10, 2021

त्यक्तो न स्यात् "त्याजितः"

त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः ।
तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥ (रघुवंशम्, ४-३३)

त्याजितैरिति । "फलं फले धने बीजे निष्पत्तौ भोगलाभयोः" इति केशवः । वृक्षपक्षे प्रसवं च । त्याजितैः । त्यजेर्ण्यन्ताद्द्विकर्मकादप्रधाने कर्मणि क्तः । उत्खातैः स्वपदाच्च्यावितैः । अन्यत्रोत्पाटितैः । बहुधा भग्नै रणे जितैः । अन्यत्र च्छिन्नैः । नृपैः । पादपैर्दन्तिनो गजस्येव । तस्य रघोर्मार्ग उल्बणः प्रकाश आसीत् । "प्रकाशं प्रकटं स्पृष्टमुल्पणं विशदं स्फुटम्" इति यादवः ।  (मल्लिनाथव्याख्या)

एतस्य श्लोकस्य तात्पर्यार्थः इत्थं वर्तते । रघुः दिग्विजयावसरे मार्गे स्थितवतां राज्ञां नाशनम् अकरोत् । तेन तस्य मार्गे प्रकाशः (श्लोके प्रकाशार्थे उल्बणशब्दः प्रयुक्तः) समभवत् । गजाः वृक्षान् उन्मूलयन्ति चेत् यथा तेषां मार्गे प्रकाशः भवति तथा शत्रून् नाशितवतः रघोः मार्गे अपि प्रकाशः आसीत् ।

श्लोके विद्यमानानां पदानाम् अर्थावगमनेन तात्पर्यार्थस्तु ज्ञायते एव । काव्यरसोऽपि आस्वाद्यते । परन्तु कस्य केन सह कथम् अन्वयः इति ज्ञानेन काव्यरसेन सह व्याकरणरसः अपि अनुभोक्तुं शक्यः । तत्र दृष्टिः प्रसार्यते । 

रघोः मार्गः त्याजितलाभानां नृपाणां नाशनेन प्रकाशयुक्तः अभवत्  इत्येतम् अर्थं श्लोके विद्यमानानां पदानाम् आधारेण पश्यामः ।  'उत्खातैः फलं त्याजितैः नृपैः मार्गः उल्बणः आसीत्' इति शब्दाः पद्ये प्रयुक्ताः । अत्र त्याजितैः इति क्तान्तं नृपैः इत्यनेन सह सम्बद्धं भवति चेदेव एतस्य अर्थस्य सिद्धिर्भवति । परन्तु तत्र तथा अर्थसाधने क्लेशः कश्चन विद्यते ।

नृपाः फलं त्यक्तवन्तः इति अण्यन्तं वाक्यं कर्तरि । रघुः नृपैः फलं त्याजितवान् इति ण्यन्तं वाक्यम् ।  गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति सूत्रेण गत्याद्यर्थकधातुषु सत्सु  अणिजन्तवाक्ये यः कर्ता भवति (ण्यन्तवाक्ये प्रयोज्यकर्ता इत्युच्यते), ण्यन्तवाक्ये तस्य कर्मसंज्ञा द्वितीयाविभक्तिः च भवति । यथा 'बालकः शालां गच्छति' इत्यस्य ण्यन्तवाक्यं 'पिता बालकं शालां गमयति' इति । गत्याद्यर्थान् अतिरिच्य अन्यत्र तु प्रयोज्यकर्तुः तृतीया एव । यथा- 'सेवकः पत्रं लिखति' इत्यस्य 'स्वामी सेवकेन पत्रं लेखयति' इति ण्यन्तवाक्यम् ।

अधुना त्यजधातोः विषये चिन्तयामः चेत् वस्तुतः अयं धातुः गत्याद्यर्थकेषु नान्तर्भूतः । अतः ण्यन्ते वाक्ये प्रयोज्यकर्तुः द्वितीयाविभक्तिः न भवति । एतेन 'नृपाः फलं त्यक्तवन्तः' इत्यस्य 'रघुः नृपैः फलं त्याजितवान्' इति ण्यन्तवाक्यं सिद्धं तस्य च कर्मणि 'रघुणा नृपैः फलं त्याजितम्' इति वाक्यं सिद्ध्यति ।

श्लोकेऽपि नृपैः इत्युक्तं वर्तते अतः न कापि हानिः इति न चिन्तनीयम् । नृपैः इत्यस्य त्याजितैः इति क्तान्तं विशेषणत्वेन प्रयुक्तम् । (त्याजितैः इति तृतीयाबहुवचनं नृपैः इत्यत्रापि तथा । यदि 'रघुः नृपैः फलं त्याजितम्' इति वाक्यं स्यात् तर्हि 'नृपाः फलैः त्याजितैः' इति श्लोके प्रयुक्तम् स्यात् । परन्तु तथा नास्ति । ) एवं सति वाक्यं 'रघुणा नृपाः फलं त्याजिताः' इत्येव स्यात् । एवं वाक्यप्राप्तौ त्यजधातोः णिचि द्विकर्मकता अङ्गीकरणीया एव । 

एवं सति 'रघुः नृपान् फलं त्याजितवान्' इति कर्तरि वाक्यम् । रघुणा नृपाः फलं त्याजिताः इति कर्मणि ।   

बुद्धिभक्ष्यार्थयोः शब्दकर्मणां च निजेच्छया ।
प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः ॥ (सिद्धान्तकौमुदी)

इत्युक्तम् । त्यजधातुः बुद्ध्यादिष्वर्थेषु नास्ति । अतः प्रयोज्यकर्मणः प्रथमा भवति । अतः 'रघुः नृपान् फलं त्याजितवान्' इत्यस्य कर्मणि 'रघुणा नृपाः फलं त्याजिताः' इति प्रयोगः सिद्धः भवति । तैः मार्गः प्रकाशयुक्तः अभवत् इति कथयितुं 'रघुणा उत्खातैः फलं त्याजितैः नृपैः तस्य मार्गः उल्बणः आसीत्' इति इति प्रयुक्तम् । अत्र नृपैः इति तृतीया प्रयुक्ता इति कारणतः  नृपः इति कर्ता स्यादिति भानं सामान्यतया भवति । परन्तु तत् करणम् एव इति तु स्पष्टम् ।   

(जनार्दनहेगडेमहोदयस्य बोधनेन अयं विषयः संगृहीतः । त्यजधातोः णिचि द्विकर्मकत्वविषये अन्यानि मतानि अपि स्युः, तानि न परिशीलितानि । )

ಶುಕ್ರವಾರ, ಫೆಬ್ರವರಿ 5, 2021

अनियन्त्रितचित्तस्य कुकार्यं सर्वमेव हि

जगति विद्यमानेषु सर्वेष्वपि जीविषु मानवस्य मनः तीक्ष्णं सत् सम्यक् कार्यं करोति इति वयं सर्वेऽपि जानीमः । कदाचित् मनसः विक्षिप्तता भवति । तन्नाम बहुषु कार्येषु यदि पराजयः एव प्राप्यते तर्हि मनसः समतोलनं विनश्यति । तदा कदाचित् किं कुर्वन्नस्मि अहम् इत्येव विस्मर्यते । युक्तायुक्तविवेकः, कार्याकार्यविवेकः वा तदानीं न भवति । यस्य मनः खिन्नं भवति सः तु उन्मत्त इव व्यवहरति ।

मम तु मनसः खेदः अभवत् इति परिस्थितिः बहुविरलतया भवति । सर्वदाऽपि प्रायेण प्रसन्नः एव भवामि अहम् । परन्तु कदाचित् मम मनः बहु खिन्नम् आसीत् विविधैः कारणैः । यत्किमपि विचिन्त्य एतत्करणीयम्, इदं सिद्ध्यति इति चिन्तयामि चेत् किमपि न सिद्ध्यति स्म । परन्तु तस्मिन् काले तु अवशिष्टस्य कार्यस्य समापने महान् उत्साहः भवति इति तु सत्यमेव ।

कस्माच्चित् आपणात् मया किञ्चिद्धनं प्राप्तव्यम् आसीत् । स च आपणः मम कार्यालयतः एककिलोमीटर्-परिमिते दूरे आसीत् । तथैव मया वित्तकोषः अपि गन्तव्यः आसीत् । अन्यस्मिन् अपि आपणे किञ्चित् कार्यम् आसीत् । सर्वमपि कार्यं मध्याह्ने भोजनविरामावसरे समापयिष्यामि इति चिन्तितवान् । मम कार्यालये विद्यमानायाः कस्याश्चित् ज्येष्ठभगिन्याः यानं स्वीकृत्य कार्याणि कर्तुं प्रस्थितः । 

आदौ तु आपणः एव गतः यतः मया धनं प्राप्तव्यम् आसीत् । स च आपणः सीतासर्कल् इति स्थलात् अनतिदूरे वर्तते । तत्र महामार्गः अस्ति यत्र  वाहनसम्मर्दः अधिकः भवति । आपणस्य पार्श्वे  किञ्चन कार्-यानम् स्थितम् आसीत् । तस्य पृष्ठतः अन्यकार्-यानस्य स्थगनार्थं यावत् स्थलम् आवश्यकं तावत् स्थलम् आसीत् । मम तु केवलं धनस्वीकरणमात्रं कार्यम् । तस्माद् कार्-यानस्य पृष्ठतः यानं स्थगयित्वा धनं स्वीकृत्य आगतवान् । 

प्रत्यागत्य याने उपविष्टः प्रस्थातुकामः कुञ्चिकां याने प्रवेशितवान् । परन्तु याने कुञ्चिका न प्रविष्टा । यानस्य handle lock कृतं नासीत् । अहं कुञ्चिकां परिशीलितवान् । कुञ्चिका किञ्चिदिव वक्रा आसीत् ।  अहं एषा कुञ्चिका नष्टा इति चिन्तितवान् । भगिन्याः यानं स्वीकृत्य आगतवान् इति कारणतः प्रत्यर्पणं मम उत्तरदायित्वम् । अहं कथञ्चित् मम कार्यालयपर्यन्तं यानं नीत्वा तस्यै दद्याम् । नो चेत् मम अपराधः भविष्यति इति अहं चिन्तितवान् । अपि च आपणस्य अपेक्षया अधोभागे कार्यालयः आसीत् । अतः प्रायेण यानस्य यन्त्रम् अनुपयुज्य एव यानमानेतुं शक्यम् आसीत् । तथापि कुत्रचित् यानस्य नोदनं करणीयं भवति इत्यपि अहं जानामि स्म । परन्तु यथाकथञ्चित् यानस्य प्रापणं मया करणीयमेव इति उत्तरदायित्वनिर्वहणबुद्ध्या यानं नुदन्नेव प्रस्थितः ।

तस्मिन् दिने मया पाकः अपि न कृतः आसीत् । अतः क्वचित् बहिरेव भोक्तव्यम् इति पूर्वमेव चिन्तनम् आसीत् । मम तु एतदेकं वैशिष्ट्यं विद्यते । यः कोऽपि कायिकः मानसिको वा क्लेशः भवतु अहं खादनं न परित्यजामि, अपि तु तस्मिन् काले अधिकमेव खादामि । यदा यानं नुदन् अहं कस्यचित् उपाहारमन्दिरस्य समीपम् आगतवान् तदा बुभुक्षा स्मृता । सर्वत्र वैफल्यं जायमानम् अस्ति, भोजनं वा सम्यक् कुर्मः इति यानं स्थगयित्वा भोजनम् आरब्धवान् । भुञ्जानस्य मम मनसि एकं चिन्तनम् उद्भूतम् । किं मया आनीतं यानं ममैव वा? कुञ्चिकायां दोषः अस्ति वा? यानस्यैव परिवर्तनं मया कृतं वा इति । भोजने समाप्यमाने मम संशयः दृढः जायमानः आसीत्, यदा गत्वा यानं दृष्टवान् तदा च दृढतरः अभवत् । द्वे अपि श्वेतवर्णीये एव याने । परन्तु मया तावद् अन्यस्य यानम् आनीतम् आसीत् ।

इदानीं मयि भीतिरपि आरब्धा । भगिन्याः यानस्य कुञ्चिका मम हस्ते अस्ति इति कारणतः तद्यानं कोऽपि न नयेत् । परन्तु एतस्य यानस्य स्वामी आगत्य यदि यानम् अन्विष्येत् तर्हि यानम् अपश्यन् सह आरक्षकालयमेव गच्छेत् । आरक्षकाः तु cctv मध्ये अवलोक्य मां track कृत्वा आगत्य नयेयुः । अहं तु एतावता मम कार्यालयमपि न प्राप्तवान् । अर्धदूरे एव अस्मि । इदानीमत्रैव यानं त्यजेयं चेत् अन्यः कोऽपि नयति चेत् आरक्षकाः मां नयेयुः । अतः अहं यानं कार्यालयं नीतवान् । ततः अन्यस्याः भगिन्याः यानं स्वीकृत्य यानदात्र्या भगिन्या सह पुनरपि आपणं गतवान् । आपणे भगिन्याः यानं मया स्थापिते स्थाने एव आसीत् । कोऽपि आगत्य यानम् अन्विष्टवान् वा इत्यापणिकः पृष्टः । याने कोऽपि न पृष्टवान् इति आपणिकेन उक्तम् । तदानीं तु किञ्चिदिव समाहितं मनः । आपणिकं सर्वं वृ्त्तान्तं निवेद्य, कोऽपि यानम् अन्विष्यति चेन्मम सङ्ख्यां ददातु इति उक्त्वा भगिन्याः यानं स्वीकृत्य प्रत्यागवन्तौ ।

ततः अनुक्षणं दोषेण आनीतं यानं पुनः तत्र प्रापणीयम् इति बुद्धिः आगता । परन्तु नयनं कथम् ? कुञ्चिका नास्ति । तत्र गन्तुम् आरोहणं करणीयम् । उपायद्वयमेव अवशिष्टम् आसीत् । एकस्तु तावत्पर्यन्तं यानं नोत्तव्यम् अन्यथा रज्ज्वा अन्यस्मिन् याने बद्ध्वा जागरूकतया नेतव्यम् । यानस्य हानिरपि न भवेत् । अन्यस्य मित्रस्य साहाय्येन द्वितीयेन उपायेन कार्यं साधितवन्तः । पुनरपि दशसु निमेषेषु मया दोषवशादानीतम् यानं स्वस्थानं प्रापितम् । भगवतः कृपया तावत्पर्यन्तं यानस्वामी तत्र नागतः । तेन प्राप्तव्यं तर्जनम्, निन्दा, उपदेशः वा मया न प्राप्तः ।

प्रत्यागमनावसरे समग्रे कार्यालये मया कृतस्य मूर्खकार्यस्य वार्ता प्रसृता आसीत् । दिनद्वयं यावत् सर्वेषाम् उपहासपात्रम् अभवम् । दिनचतुष्टयानन्तरम् कार्यान्तरवशात् तत्र गतः अहं यानस्थानम् अवलोकितवान् । तत्र तद्यानं नासीत् । स्वामी आगत्य यानं नीतवान् स्यात् इति तर्कयामि । एतावता माम् अन्विष्यन्तः आरक्षकाः नागताः इति हेतोः अस्य प्रकरणस्य सुखान्त्यमेव अभवत् इति चिन्तयन् एतत् लिखितवान् अस्मि । 

ಜಗತ್ತಿನ ಜೀವಿಗಳಲ್ಲಿ ಮಾನವನ  ಮನಸ್ಸು ಸಂವೇದನಾಶೀಲವಾಗಿರುತ್ತದೆ ಎಂಬುವುದು ಎಲ್ಲರಿಗೂ ತಿಳಿದಿರುವ ಸಂಗತಿಯೇ ಆಗಿದೆ. ಮನಸ್ಸಿಗೆ ಬೇಸರವಾದಾಗ ಮಾಡುವ ಕೆಲಸಗಳು ಎಡವಟ್ಟಿನ ಕೆಲಸಗಳೇ ಆಗಿರುತ್ತವೆ. ಅನೇಕ ಕೆಲಸಗಳು ವಿಫಲವಾದಾಗ ಸಹಜವಾಗಿಯೇ ಮನಸ್ಸು ಹಿಡಿತ ಕಳೆದುಕೊಳ್ಳುತ್ತದೆ. ಆಗ ಮಾಡುವ ಕೆಲಸಗಳು ಮತ್ತಷ್ಟು ತೊಂದರೆಗಳಿಗೆ ದಾರಿಯಾಗುತ್ತವೆ.

 

ನನ್ನ ವಿಷಯದಲ್ಲಿ ಹೇಳುವುದಾದರೆ ಮನಸ್ಸಿಗೆ ಬೇಜಾರಾಗುವುದು ತುಂಬಾ ಕಡಿಮೆ. ಯಾವತ್ತೂ ಮನಸ್ಸನ್ನು ಸಂತೋಷವಾಗಿಟ್ಟುಕೊಳ್ಳುವವನು ನಾನು. ಆದರೂ ಕೂಡಾ ಒಂದು ದಿನ ವಿವಿಧ ಕಾರಣಗಳಿಂದ ನನ್ನ ಮನಸ್ಸಿಗೆ ತುಂಬಾ ಬೇಜಾರಾಗಿತ್ತು. ಬೇಜಾರಾದಾಗ ಪೆಂಡಿಂಗ್ ಇರುವ ಕೆಲಸಗಳ ಬಗ್ಗೆ ನೆನಪಾಗಿ ಅದನ್ನು ಮುಗಿಸಿಬಿಡುವ ಉತ್ಸಾಹವೂ ಹುಟ್ಟುತ್ತದೆ.

 

ಅಂಗಡಿಯಾತನೊಬ್ಬ ನನಗೆ ಹಣ ಕೊಡುವುದಿತ್ತು. ಆತನ ಅಂಗಡಿ ನನ್ನ ಕಛೇರಿಯಿಂದ ಸುಮಾರು ೧ ಕಿ.ಮೀ ದೂರದಲ್ಲಿತ್ತು. ಆ ದಿನ ಕಚೇರಿಯ ಸುತ್ತಮುತ್ತ ಅನೇಕ ಕೆಲಸಗಳಿದ್ದವು. ಆದ್ದರಿಂದ ಕಛೇರಿಯಲ್ಲಿನ ಹಿರಿಯ ಮಹಿಳೆಯೊಬ್ಬರ ಸ್ಕೂಟಿ ಪಡೆದುಕೊಂಡು ಕೆಲಸಗಳನ್ನು ಪೂರೈಸುತ್ತೇನೆ ಎಂದು ಹೊರಟೆ.

 

ಮೊದಲಿಗೆ ಅಂಗಡಿಗೇ ಹೋಗಿದ್ದೆ. ಅಂಗಡಿ ಮುಖ್ಯಮಾರ್ಗದಲ್ಲಿತ್ತು. ಅಂಗಡಿಯ ಸಮೀಪದಲ್ಲೇ ಕಾರೊಂದು ನಿಂತಿತ್ತು. ಅದರ ಹಿಂಭಾಗದಲ್ಲಿ ಮತ್ತೊಂದು ಕಾರು ನಿಲ್ಲಿಸುವಷ್ಟು ಜಾಗವಿತ್ತು. ನನ್ನ ಕೆಲಸ ಹಣ ಪಡೆದುಕೊಳ್ಳುವುದಷ್ಟೇ ಆಗಿದ್ದರಿಂದ ಕಾರಿನ ಹಿಂದೆ ಸ್ಕೂಟಿ ನಿಲ್ಲಿಸಿದೆ. ಅಂಗಡಿಯಾತನಿಂದ ಹಣ ಪಡೆದುಕೊಂಡು ಮುಂದಿನ ಕೆಲಸಕ್ಕೆ ತೆರಳಲು ಸ್ಕೂಟಿಯನ್ನೇರಿದೆ.

 

ಸ್ಕೂಟಿ ಸ್ಟಾರ್ಟ್ ಮಾಡಲು ಕೀಲಿಕೈಯನ್ನು ತಿರುಗಿಸಿದರೆ ಕೀಲಿಕೈ ಸರಿಯಾಗಿ ಹೊಂದಾಣಿಕೆಯಾಗುತ್ತಿರಲಿಲ್ಲ. ಸೂಕ್ಷ್ಮವಾಗಿ ಗಮನಿಸಿದಾಗ ಕೀಲಿಕೈ ಸ್ವಲ್ಪ ಬಾಗಿದಂತೆ ಕಂಡಿತು. ಇದೇ ಕಾರಣಕ್ಕಾಗಿ ಸ್ಕೂಟಿ ಸ್ಟಾರ್ಟ್ ಆಗುತ್ತಿಲ್ಲ. ಆದರೆ ಸ್ಕೂಟಿ ನನ್ನದಲ್ಲ. ಕಛೇರಿಯಿಂದ ತಂದ ಸ್ಕೂಟಿಯನ್ನು ಅಲ್ಲಿಗೊಯ್ದು ನೀಡುವ ಜವಾಬ್ದಾರಿ ನನ್ನದಾಗಿತ್ತು. ಅಲ್ಲದೇ ಅಂಗಡಿಯಿಂದ ಕಛೇರಿಯ ಮಾರ್ಗ ಇಳಿಜಾರಾಗಿತ್ತು. ಆದ್ದರಿಂದ ಬಹಳಷ್ಟು ದೂರವನ್ನು ಸ್ಟಾರ್ಟ್ ಮಾಡದೆಯೇ ಹೋಗಬಹುದಾಗಿತ್ತು. ಆದರೂ ಸ್ವಲ್ಪ ದೂರ ತಳ್ಳುವುದು ಅನಿವಾರ್ಯವಾಗಿತ್ತು.

 

ಆ ದಿನ ನಾನು ಅಡುಗೆಯನ್ನೂ ಮಾಡಿರಲಿಲ್ಲ. ಹೊರಗಡೆಯೇ ತಿಂದು ಬರುತ್ತೇನೆ ಎಂದು ಮೊದಲೇ ನಿರ್ಣಯಿಸಿದ್ದೆ. ಆದ್ದರಿಂದ ಹೋಟೇಲೊಂದರ ಬಳಿಯಲ್ಲಿ ಸ್ಕೂಟಿ ನಿಲ್ಲಿಸಿ ಊಟಮಾಡಲಾರಂಭಿಸಿದೆ. ಉಣ್ಣುತ್ತಿದ್ದವನ ಮನಸ್ಸಿನಲ್ಲಿ ಜ್ಞಾನೋದಯವಾಯಿತು. ನಾನು ಸ್ಕೂಟಿಯನ್ನೇ ಬದಲಾಯಿಸಿದ್ದೇನೆಯೇ ಎಂಬ ಸಂಶಯ ಕಾಡಲಾರಂಭಿಸಿತು. ಊಟ ಮುಗಿಸಿ ಬಂದು ಸ್ಕೂಟಿ ನೋಡಿದಾಗ ನನ್ನ ಸಂಶಯ ದೃಢವಾಯಿತು. ನಾನು ಬೇರೊಬ್ಬರ ಸ್ಕೂಟಿ ತಂದಿದ್ದೆ. ಈಗೇನು ಮಾಡುವುದು? ಅರ್ಧದಾರಿಯವರೆಗೆ ನಾನಾಗಲೇ ಬಂದಾಗಿತ್ತು. ನಾನು ತಂದಿದ್ದ ಸ್ಕೂಟಿಯ ಕೀಲಿಕೈ ನನ್ನ ಕೈಯಲ್ಲೇ ಇದ್ದುದರಿಂದ ಅದನ್ನು ಬೇರೆ ಯಾರಾದರೂ ಕದಿಯುವ ಹೆದರಿಕೆಯಿರಲಿಲ್ಲ. ಈ ಸ್ಕೂಟಿಯನ್ನು ಬಿಟ್ಟರೆ ಬೇರೆ ಯಾರಾದರೂ ಹೊತ್ತೊಯ್ದರೆ ನನ್ನ ಮೇಲೆಯೇ ಸ್ಕೂಟಿ ಕದ್ದ ಆರೋಪ ಬರುತ್ತದೆ. ಆದ್ದರಿಂದ ಸ್ಕೂಟಿಯನ್ನು ಹೇಗಾದರೂ ಕಚೇರಿಯವರೆಗೆ ಒಯ್ಯುವುದೇ ಸೂಕ್ತ ಎಂದೆನಿಸಿತು.

 

ಕಚೇರಿಗೆ ಬಂದ ತಕ್ಷಣ ಮತ್ತೊಬ್ಬರ ಸ್ಕೂಟಿ ತೆಗೆದುಕೊಂಡು ಮೊದಲು ಕೊಂಡು ಹೋಗಿದ್ದ ಸ್ಕೂಟಿಯ ಮಾಲಕಿಯನ್ನೂ ಕರೆದುಕೊಂಡು ಅಂಗಡಿಯತ್ತ ಧಾವಿಸಿದೆ. ಅಂಗಡಿಯ ಬಳಿಯಲ್ಲಿ ಸ್ಕೂಟಿಯೂ ಇತ್ತು. ಅಂಗಡಿಯ ಮಾಲಿಕನಲ್ಲಿ ಕೇಳಿದಾಗ ಯಾರೂ ಸ್ಕೂಟಿಯ ಬಗ್ಗೆ ಕೇಳಿಲ್ಲವೆಂದ. ನಾನು ತಂದಿದ್ದ ಸ್ಕೂಟಿಯ ಮಾಲಿಕ ಇನ್ನೂ ಬಂದಿರಲಿಲ್ಲ. ನನ್ನ ಬಹುದೊಡ್ಡ  ಆತಂಕ ದೂರವಾಯಿತು. ಅಂಗಡಿಯಾತನಿಗೆ ನನ್ನ ಮೊಬೈಲ್ ಸಂಖ್ಯೆ ಕೊಟ್ಟು ಯಾರಾದರೂ ಹುಡುಕಿದರೆ ಫೋನ್ ಮಾಡಿಸಿ ಎಂದು ಹೇಳಿದೆ.

 

ಆದರೂ ಮನಸಿನ ಮೂಲೆಯಲ್ಲಿ ಆತಂಕವಂತೂ ಉಳಿದಿತ್ತು. ಗಾಡಿಯನ್ನು ಹುಡುಕಿದ ಗಾಡಿಯ ಮಾಲಿಕ ಎಲ್ಲಿಯಾದರೂ ನೇರವಾಗಿ ಪೋಲೀಸ್ ಸ್ಟೇಶನ್ ಗೇ ಓಡಿದರೆ.... ನಾನು ಗಾಡಿಕಳ್ಳನೆಂದಾಗುತ್ತದೆ. ಆದ್ದರಿಂದ ಹೇಗಾದರೂ ಮಾಡಿ ಈ ಗಾಡಿಯನ್ನು ಅಲ್ಲಿಗೆ ತಲುಪಿಸಬೇಕೆಂದೆನಿಸಿತು. ಅಂಗಡಿಗೆ ಹೋಗುವ ಮಾರ್ಗ ಇಳಿಜಾರಾಗಿಲ್ಲ. ಕೊಂಡೊಯ್ಯಲು ಎರಡು ದಾರಿಗಳಿದ್ದವು. ಮೊದಲನೆಯದೆಂದರೆ ಗಾಡಿಯನ್ನು ತಳ್ಳುವುದು, ಎರಡನೆಯದು ಬೇರೆ ಗಾಡಿಗೆ ಕಟ್ಟಿ ಎಳೆದುಕೊಂಡು ಹೋಗುವುದು. ವಾಹನಗಳ ವಿಷಯದಲ್ಲಿ ನಿಪುಣನಾಗಿರುವ ಮಿತ್ರನೊಬ್ಬನ ಸಹಾಯದಿಂದ ಎರಡನೇ ಉಪಾಯವನ್ನು ಮಾಡಿ ಪುನಃ ಗಾಡಿಯನ್ನು ಅಂಗಡಿಯವರೆಗೆ ತಲುಪಿಸಿದೆ. ಪುಣ್ಯಕ್ಕೆ ಆ ಗಾಡಿಯ ಮಾಲಿಕ ಇನ್ನೂ ಬಂದಿರಲಿಲ್ಲ.

 

ಕಛೇರಿಗೆ ವಾಪಾಸಾದಾಗ ಇಡಿಯ ಕಛೇರಿಯಲ್ಲಿ ನಾನು ಮಾಡಿದ ಮಹಾಕಾರ್ಯದ ಸುದ್ದಿ ಹರಡಿತ್ತು. ಎರಡು ದಿನ ನಗೆಪಾಟಲಿಗೀಡಾದೆ. ನಾಲ್ಕು ದಿನಗಳ ನಂತರ ಯಾವುದೋ ಕೆಲಸಕ್ಕಾಗಿ ಆ ಅಂಗಡಿಯ ಬಳಿ ಹೋದಾಗ ಗಾಡಿ ಅಲ್ಲಿರಲಿಲ್ಲ. ಮಾಲಿಕನೇ ಬಂದು ಒಯ್ದಿರಬೇಕೆಂಬುದು ನನ್ನ ಊಹೆ. ನನ್ನನ್ನು ಹುಡುಕಿಕೊಂಡು ಪೋಲೀಸರೂ ಇಷ್ಟರತನಕ ಬಂದಿಲ್ಲವೆಂಬ ಕಾರಣದಿಂದ ಪ್ರಕರಣ ಸುಖಾಂತ್ಯವಾಗಿದೆ ಎಂದುಕೊಂಡು ಇಷ್ಟೆಲ್ಲಾ ಬರೆಯುತ್ತಿದ್ದೇನೆ.  


ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...