Locked down समये गृहेषु एव उपविश्य
संस्कृतं पठितुम् अनेके उत्सुकाः आसन्। बालभारतीसंस्थापक्षतः तस्य व्यवस्था अपि
कृता। ZOOM इति तन्त्राशम् उपयुज्य शिबिरं चालनीयम्
इति निर्णीतम्। तत्र शिक्षकरूपेण उत्तरदायित्वं मह्यं दत्तम्।
दश दिनानि घण्टाद्वयम् इति ZOOM तन्त्रांशमुपयुज्य पाठाः
पाठिताः । कुमारमहोदयेन प्रत्यक्षशिबिरे पाठयितुं ppt
कृतम् आसीत्।
तत्रैव कांश्चन अंशान् योजयित्वा तदेव पाठ्योपकरणत्वेन स्वीकृत्य ZOOM द्वारा शिबिरं चालितवान्। प्रत्यक्षरूपेण
शिबिरचालनसमये यान् क्लेशान् अनुभवामः ते क्लेषास्तु अत्रापि आसन् एव। तेन सह
तन्त्रज्ञानसम्बद्धाः कतिचन नूतनाः अपि क्लेशाःअाविर्भूताः।
तन्त्रज्ञानसम्बद्धाः क्लेशाः
- सर्वेषां गृहेषु अन्तर्जालव्यवस्था सम्यक् न भवति स्म इति कारणतः सर्वे सक्रियरूपेण भागं वोढुं न शक्तवन्तः।
- सर्वे युगपत् वदन्ति चेत् महान् कोलाहलः भवति इति कारणतः सर्वे mute मध्ये आसन्। यः वदति तं अहमेव Unmute करोमि स्म।
- क्वचित् सङ्गणकस्य समस्यातः hanging समस्या आसीत्।
- सर्वेषां video on कृत्वा स्थाप्यते चेत् विघ्नः भवति। अन्तर्जालवेगः न्यूनः भवति।
परिहाराः
- अन्तर्जालव्यवस्था यथा सम्यग् भवेत् तथा पूर्वमेव चिन्तनं करणीयम् ।
- कस्मिंश्चित् निःशब्दप्रदेशे छात्राः उपविशन्ति चेत् समानकाले पञ्चषान् unmute कर्तुं शक्नुमः, येन गणभावः शिबिरे आयाति।
- सङ्गणकं सम्यगेव स्वीकरणीयम्। शिक्षकः यदि दूरवाण्या पाठयति तर्हि बहुविधसौलभ्यानि प्राप्तुं नार्हति।
- सर्वेषां video off करणीयम् ।
छात्राणां समस्याः
- शिबिरे अन्यच्छात्राः न दृश्यन्ते इति कारणतः शिबिरकक्ष्यायाः भावः नायाति।
- एकाकी उपविश्य पठन्नस्ति इति कारणतः उच्चैः वक्तुं सङ्कोचः भवति। तेन सम्भाषणाभ्यासः न्यूनः भवति।
- शिक्षकः छात्रान् न पश्यति इति कारणतः ते अन्यमनस्काः भवन्ति चेत् जागरिताः न भवन्ति।
- मध्ये मध्ये विविधाः बाधाः उत्पद्यन्ते, येन कक्ष्यातः उत्थाय गन्तव्यम् आपतति।
परिहारः
- सङ्कोचं विना निःशब्दस्थले एकान्ते उपविश्य पठनीयम्।
बिन्दूपस्थापने समस्याः
- छात्राः पुरतः न भवन्ति इत्यतः छात्रैः अवगतं वा न वा इति न ज्ञायते। एतेन उपस्थापनं कथं करणीयम् इति विषये भ्रमः भवति।
- सर्वमपि चित्रद्वारैव उपस्थापनं करणीयम्। video सम्यक् न भवति इति कारणतः आङ्गिकाभिनयस्य अवसरः नास्ति।
- उपस्थापनावसरे यदि सन्देहः भवति छात्रः तस्मात् बिन्दोः विरक्तः भवति। तद् अध्यापकः नाभिजानाति।
- उपस्थापनार्थं काचित् सज्जता करणीया। तावदुपस्थाप्य अभ्यासं प्रति गन्तव्यम्।
- छात्राः ऐकाग्र्यमनसा पाठं शृणुयुः। यदि बहु भ्रमः वर्तते तर्हि हस्तमुन्नीय अध्यापकं पृच्छेयुः।
अभ्यासे समस्या
- अभ्यासे तु गणशः अभ्यासः न भवति। अभ्यासार्थं कश्चन छात्रः एव unmute करणीयः। तेन अन्येषां का गतिः इति न ज्ञायते।
परिहारः
- छात्राः गृहे अभ्यासं कुर्युः। अध्यापकोच्चारणानन्तरम् अनूच्चारणं कुर्युरेव।
प्रयोगे समस्या
- प्रयोगः अत्र परिणामकारिरूपेण भवति। किन्तु ये हस्तम् उन्नयन्ति ते एव बहुधा हस्तमुन्नीय वाक्यानि वदन्ति।
परिहारः
- सर्वेऽपि छात्राः अध्यापकेन प्रष्टव्याः।
- कुत्रचित् screen off कृत्वा एव प्रयोगः कारणीयः, येन छात्राः नूतनानि वाक्यानि स्वचिन्तनेन वदन्ति, unmute कर्तुमपि अध्यापकस्य सारल्यं भवति।
अध्यापकस्य सज्जता
वस्तुतः एतादृशे शिबिरे अध्यापकस्य कौशलं न्यूनं
पर्याप्तम्। किन्तु पूर्वसिद्धता तु महती आवश्यकी। यदि सज्जीकृतः विषयः समाप्यते
तर्हि अग्रे गन्तुमेव न शक्नोति। कथादिनैव कथञ्चित् निर्वाहः करणीयः।
सज्जतावसरे ppt तन्त्रांशः एव उत्तमः। यतोहि
तत् सम्यक्तया load भवति। pdf चेत् न तथा। ppt
मध्ये animation भवति चेत् कदाचित् विलम्बेन
दर्शयति अतः तस्य न्यूनोपयोगः एव वरम्। Pointer इत्यादीनाम् उपयोगेन बहु
प्रयोजनम् नास्ति। सर्वत्र अन्तर्जालः मन्दः भवति इति कृत्वा वाक्यस्य दर्शितस्य
वाक्यस्य च सम्बन्धः एव कदाचित् न भवति अतः लघु लघु slide क्रियते
चेत् तेनैव कार्यं सिद्ध्यति।
अवलोकनम्।
मम शिबिरे तु द्वित्राः सम्यक् अवलोकनं कृत्वा
परिष्कार्यान् अंशान् वदन्ति स्म। एतेन तु बह्वेव लाभः अभवत्। प्रतिदिनम्
अग्रिमकक्ष्यायाः कृते सन्नाहः कथं करणीयः इति ज्ञायते।
सहशिक्षकः
दिनत्रयं तु सहशिक्षकः अनिवार्यतया आवश्यकः। भवतः नाम किम्
इति पृष्टे मम नाम इति उत्तरं वदेयम् इति छात्रः सहशिक्षकस्य व्यवहारं दृष्ट्वा एव
अभिजानाति।
ppt निर्माणम्
ppt निर्माणावसरे चित्राणि gif च उपयोक्तुं शक्नुमः। video तथा परिणामं न जनयति।
यावच्छक्यम् साम्प्रतिकविषयेषु एव चित्रादीनां प्रदर्शनं
भवति चेत् सम्यक् अवगच्छन्ति जनाः। यथा साम्प्रतिककाले कोरोना रोगः।
एतस्य शिबिरस्य समारोपसमारम्भः अपि एकघण्टात्मकः चालितः।
यथा प्रत्यक्षशिबिरे चाल्यते तथा सर्वेऽप्यंशाः आसन्। तस्य परिसन्धिः अत्र अस्ति। समारोपसमारम्भः । तथा च दशानाम् अपि दिनानां शिबिरस्य
परिसन्धिः अत्र अस्ति। सम्भाषणशिबिरम् |
(तन्त्रज्ञानं निरन्तरं परिवर्तते इति कारणतः अग्रे अन्तर्जालाधारितशिबिरेष्वपि बहुविधपरिवर्तनानि भवेयुः। मया चालितस्य शिबिरस्य अवलोकनं मया इत्थं कृतम्।)
(तन्त्रज्ञानं निरन्तरं परिवर्तते इति कारणतः अग्रे अन्तर्जालाधारितशिबिरेष्वपि बहुविधपरिवर्तनानि भवेयुः। मया चालितस्य शिबिरस्य अवलोकनं मया इत्थं कृतम्।)

ಒಳ್ಳೆಯ ಅನುಭವ.
ಪ್ರತ್ಯುತ್ತರಅಳಿಸಿअस्मिन् वर्षे समग्रभारतस्य ४० अधिका: वर्गाः निरस्ता:।
ಪ್ರತ್ಯುತ್ತರಅಳಿಸಿकिञ्चिद् वयं *विशेषसङ्कल्पं* यदि स्वीकरिष्यामः तर्हि निश्चयेन प्रशिक्षणवर्गः अनेन तन्त्रांशेन साधयितुं शक्यः।
अत्र data क्लेशः न भविष्यति।
2G data अपि शक्यते। Kbs/ s asti चेदपि उपयोगः शक्यः। एकवारं १०० जनाः चेत् प्रतिप्रान्तम् एकः प्रशिक्षणवर्ग: शक्यः।
नमस्ते सूर्य-महोदय,
ಪ್ರತ್ಯುತ್ತರಅಳಿಸಿसम्यग्रीत्या स्वानुभवं सूचितवान् अस्ति | एवम् अन्येऽपि (ये माध्यमेन सम्भाषणशिबिरं पाठयन्ति ते) कुत्रचित् किं योग्यं, किं न योग्यमिति सूचयन्ति चेत् अन्यशिक्षकेभ्यः बहुधा लाभाय | यथा शास्त्रि-हेगडे-महोदयादयः ज्येष्ठाः आरम्भिकवर्षेषु अभिमुखवर्गान् पाठयित्वा, परिशील्य, यथायोग्यं निरन्तरं परिष्करणं कृतवन्तः तथा अत्रापि भवेत् |
गोविन्दः यलगलवाडि, Tracy, CA, USA