ಗುರುವಾರ, ಮಾರ್ಚ್ 26, 2020

इतो भ्रष्टास्ततो भ्रष्टाः


बहुषु विश्वविद्यालयेषु प्रदर्शनकलानां (performance arts) विषये स्नातकोत्तरकक्ष्याः चलन्ति। तत्र नृत्यार्थमपि कश्चन विभागः परिकल्पितः भवति। अस्मिन् वर्षे बेङ्गलूरुगरे कस्मिंश्चित् विश्वविद्यालये नृत्यविभागे स्नातकोत्तरकक्ष्यायाम् अन्तिमवर्षस्य छात्राणां कृते आन्तरिकमौल्यमापनार्थं कश्चन क्रमः निर्णीतः अध्यापकैः। प्रायः भारतीयकलानां साहित्यशास्त्रस्य च सम्बन्धः तु भवत्येव। नृत्यकलायामपि साहित्यशास्त्रस्य सम्बन्धः वर्तते। अतः प्रायोगिकपरीक्षायां नृत्यार्थं किञ्चन संस्कृतभाषानिबद्धं वस्तु स्वीकुर्युः। प्रबन्धरूपेण तस्मिन् विषये (गीते) विद्यमानः साहित्यिकः अंशः (अलङ्कारः छन्दः रसः इत्यादिष्वन्यतमः) निरूपणीयः इति च नियमः कृतः।

प्रायेण येषां नर्तनादिकलासु आसक्तिः भवति, ते एव नृत्यादिविषये स्नातकोत्तराध्ययनं कुर्वन्ति। अद्यत्वे दशमकक्ष्याम् उत्तीर्य सर्वे यथा वाणिज्यशास्त्रं पठितुम् प्रयान्ति न तथा स्नातकोत्तरकक्ष्यां प्रविशन्ति छात्राः। नृत्ये आसक्तिवन्तः सर्वेऽपि साहित्यशास्त्रस्य अध्ययनं कुर्वन्ति इति नास्ति। रूचिस्तु स्यान्नाम,  परन्तु शास्त्रमध्येतुं कठिनः परिश्रमः अनिवार्यः भवति, ते तु तत् नर्तने एव कुर्वन्ति। परन्तु अधुना प्रबन्धसमर्पणार्थं तु अध्ययनम् अनिवार्यरूपेण करणीयमेव आपतितं छात्रैः।

तत्रत्या छात्रा काचित् गीतगोविन्दविषयं चितवती। अपि च तत्र विद्यमानानाम् अलङ्काराणां विषये प्रस्तुतिः कार्या इति निर्णीतवती च। परन्तु तदर्थं पर्याप्तं ज्ञानं तस्याः नासीत्। अलङ्कारं पाठयितुं मां प्रार्थितवती। किञ्चिदपि संस्कृतज्ञानं येषां नास्ति तेषाम् अलङ्कारपठनं क्लेषाय एव। मया अपि अलङ्कारादिविषये संस्कृतेन एव पठितम्, इति कारणतः कन्नडभाषायां प्राथमिकस्तरे अलङ्काराः कथं पाठ्यन्ते इति ज्ञानं तु मम नास्ति। तथापि कतिचन प्राथमिककन्नडपुस्तकानि परिशील्य पाठने यथा सारल्यं स्यात् तथा टिप्पणीः कृत्वा घण्टाचतुष्टये कथञ्चित् बोधितवान्। अलङ्कारविषये किमपि अजानती छात्रा चतुर्णां घण्टानां बोधनेन किं वा जानीयात्?। अपि तु गीतगोविन्दस्य पङ्क्तीनाम् अर्थमपि अजानत्या तया तत्र कथम् अलङ्काराः अभिज्ञातव्याः

गीतगोविन्दे तया चितस्य भागस्य प्रतिपदं कन्नडभाषया अनुवादः अपि मया कृतः। ततः अलङ्काराणां विषये मया दत्तायाः टिप्पण्याः आधारेण, कुवलयानन्दस्य आङ्ग्लव्याख्यायाः च आधारेण तया गीतगोविन्दपङ्क्तीषु अलङ्काराः अन्विष्टाः। बहुत्र पद्येषु बहवः अलङ्काराः भवन्ति। तया तु प्रतिपद्यं कस्यचित् एकस्य अलङ्कारस्य लक्षणसमन्वयः कृतः। बहुत्र तद् युक्तियुक्तमपि आसीत्।

एतस्मिन् विषये चिन्तने कृते मम स्नातकोत्तरकक्ष्यायाः अन्तिमवर्षं मया स्मृतम्। तत्र तु कस्मिंश्चित् विषये कश्चन विशिष्टः निबन्धः लिखित्वा समर्पणीयः इति निर्बन्धस्तु नासीत्। आन्तरिक-अङ्कानां निमित्तं यद्यपि कार्यं दीयते स्म तत्तु तथा गम्भीररूपेण केऽपि न परिगणयामः स्म। प्रतिपत्रं त्रिचतुरपुटानि किमपि लिखित्वा दद्मः स्म। प्रायोगिकपरीक्षाकल्पना तु स्वप्नेऽपि नास्ति। यद्यपि वाग्वर्धिनीपरिषदि भाषणं करणीयम् इति नियमः आसीत् तत्र छात्राणां स्वेच्छाचारः आसीत्। अतः अस्माकम् अध्ययनं कस्मिंश्चित् विषये गम्भीररूपेण न प्रवृत्तमेव।

यदि गम्भीररूपेण प्रायोगिकपरीक्षाः चाल्यन्ते तेन अनेकानि प्रयोजनानि सन्ति। प्रायोगिकपरीक्षायां साफल्यसम्पादनाय नूतनविषयस्य अध्ययने प्रवर्तामहे। कस्मिंश्चित् विषये शोधः कथं करणीयः इति कल्पना भवति। (शोधच्छात्रः सन् अपि अहं शोधः कथं करणीयः इति स्पष्टं न जानामि। प्राक्शोधकक्ष्यासु अपि मया षण्मासात्मकः कालः यापितः। अनेकेषां शोधच्छात्राणां स्थितिः सैव। अतः संस्कृतक्षेत्रे अर्धाधिकाः छात्राः, शोधः कथं करणीयः इति अजानानाः एव कथञ्चित् किमपि विलिख्य शोधप्रबन्धनाम्ना समर्पयन्ति, पदवीं च प्राप्नुवन्ति।)। कक्ष्यायां विद्यमानैः सहापाठिभिः सह प्रायोगिकपरीक्षाविषये चर्चाकरणेन पादं स ब्रह्मचारिभ्यः इति यदुक्तं तदपि सिद्धं भवति। (यद्यपि आचार्यकक्ष्यायां मम त्रयोविंशतिः सहपाठिनः आसन् तथापि सब्रह्मचारिभ्यः यद् ज्ञानं प्राप्यते तस्माद् अहं वञ्चितः एव। तत्र ममापि दोषः स्याद्।)
 
संस्कृतक्षेत्रे गम्भीररूपेण अध्ययनं स्नातकोत्तरकक्ष्यायां न चलति इत्यस्य बहूनि कारणानि भवितुमर्हन्ति। बहवः छात्राः पिपठिषया संस्कृतस्नातकोत्तरकक्ष्यां न प्रविशन्ति। मयापि आचार्यपदवी सम्पादनीया इति इच्छामात्रं बहूनां भवति। (ईदृशाः अपि गम्भीरप्रायोगिककक्ष्यादिभिः अध्ययनपथम् आनेतुं शक्याः इति तु सत्यमेव) ते अध्ययनादिषु न प्रवर्तन्ते इति कारणतः अध्यापकानामपि उत्साहः न भवति। एते न्यूनाङ्कप्राप्तेः न बिभ्यति इति हेतोः अध्यापकवाक्येषु अनादरः अपि क्वचित् दृश्यते।

अपरं च कारणम् इदमपि भवितुमर्हति। महता श्रमेण किञ्चित् साधितं चेदपि भाविजीवने तस्य प्रयोजनं तथा न भवति इति छात्राणां अनासक्तिः भवितुमर्हति। आभियान्त्रिकादिक्षेत्रेषु भवता अन्तिमवर्षे प्रदत्तकार्यरूपेण कः विषयः स्वीकृतः। तस्य साधनार्थं कथं परिश्रमः कृतः इत्यादिकान् प्रश्नान् औद्योगिक-साक्षात्कारावसरे पृच्छन्ति इति श्रूयते। परन्तु संस्कृतक्षेत्रे तु महता परिश्रमेण आवर्षम् अधीत्य शलाकास्पर्धायां राष्टस्तरे स्वर्णपदकं प्राप्यते चेदपि उद्योगेषु नियुक्त्यादिषु तस्य परिगणनमेव न भवति। तस्य परिश्रमस्य फलं तु पदकमात्रं भवति। एवं सति परिश्रम्य अध्ययनं कृत्वा नूतनविषयस्य गवेषणे फलमेव नास्ति इति चिन्तयन्ति बहवः संस्कृतच्छात्राः, यत्सत्यमप्यस्ति।
 
संस्कृतविश्वविद्यालयेषु तु आधुनिकशैल्या पाठनं चलिति इति हेतोः अस्माकं शास्त्रनिष्ठं ज्ञानमपि दृढं न भवति। अधीतस्य विषयस्य निरूपणं वाक्यार्थसभासु कार्यम् इत्युक्ते भीतभीताः भवामः। आधुनिकधारायाम् आधुनिकविषयान् पठतां छात्राणां शोधादिविषये, पत्रप्रस्तुत्यादिविषये च यादृशी कल्पना भवति सापि अस्माकं नास्ति इति कारणतः इतो भ्रष्टाः ततो भ्रष्टाः इति स्थितौ वर्तामहे। संस्कृतक्षेत्रे कौशलवन्तः न्यूनाः वर्तन्ते इति आरोपभाजः च भवामः।

केन्द्रीयविश्वविद्यालयत्वेन त्रयाणां संस्कृतविश्वविद्यालयानां मान्यता प्राप्ता विद्यते। इतः परं वा इमे केन्द्रीयविश्वविद्यालयाः स्वकीयाध्ययनाध्यापनक्रमे कठोरताम् आनयन्ति चेत् संस्कृतज्ञाः अपि समाजे अन्यैः सह समानस्तरे भवितुं शक्ष्यामः।

(मम विद्यालयजीवनस्य आधारेण अयं लेखः रचितः। अन्येषु संस्कृतविश्वविद्यालयेषु, अथवा साम्प्रतिके काले मम विद्यालये स्थितिः उत्तमा एव स्यात्। संस्कृतविश्वविद्यालयेभ्योऽपि अधमाः आधुनिकविश्वविद्यालयाः अपि स्युः। मम अवलोकनं तु सीमितम्। अपि च संस्कृतेन एतावद्वा लेखितुं मां समर्थं कृतवतः मम विद्यालयस्य विषये मनसि श्रद्धा आदरश्च वर्तते एव।)

2 ಕಾಮೆಂಟ್‌ಗಳು:

  1. ಲೇಖಕರು ಈ ಕಾಮೆಂಟ್‌ ಅನ್ನು ತೆಗೆದು ಹಾಕಿದ್ದಾರೆ.

    ಪ್ರತ್ಯುತ್ತರಅಳಿಸಿ
  2. सत्यम् । सम्यग् उक्तवान् भवान् । एतावत् पर्यन्तम्, संस्कृतक्षेत्रे विद्वद्भिः, शिक्षणाधिकारिभिः च quantity विषये अधिकं बलं दत्तमासीत् । एतदपि कारणमस्ति एतादृश-सन्निवेशस्य इति मम अभिप्रायः । इतः परं, विश्वविद्यालयानां quality एव लक्ष्यं स्यात् ।

    ಪ್ರತ್ಯುತ್ತರಅಳಿಸಿ

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...