ಶುಕ್ರವಾರ, ಮಾರ್ಚ್ 20, 2020

मोदिनो मोदिनो मोदिनः प्रजाः

(मोदिनो- पञ्चम्यैकवचनम् मोदिनो- प्रथमाबहुवचनम् मोदिनः- षष्ठ्यैकवचनम् प्रजाः

बाल्यकाले बह्व्यः कथाः श्राव्यन्ते स्म। काश्चन कथाः पुस्तकेषु पठ्यन्ते स्म च। बालकथा नाम कश्चन राजा भवेदेव। स च कांश्चन आज्ञाः करोति। प्रजाः सर्वाः अपि ताः आज्ञाः पालयन्ति। एवं स्थिते मम मनसि कश्चन संशयः सदा भवति स्म। राजा तु एकः एव भवति। सः सर्वाधिकारी इव आज्ञाः करोति चेत् जनाः किमर्थं पालयेयुः? वस्तुतः राजा इति कल्पना एव सम्यक् नास्ति। यदि राजा नास्ति तदा सर्वा अपि प्रजाः सुखेन जीवेयुः इत्यद्याः कल्पनाः करोमि स्म।

बाल्यसहजाः कल्पनाः इमाः। परन्तु यदा किञ्चिदिव प्रबुद्धः अभवम् तदानीं तु राज्ञः महत्त्वं ज्ञातम्। तत्रापि अराजकस्य राज्यस्य कीदृशी स्थितिर्भवति इति रामयणे यदा अपठं तदानीं राज्ञः विषये आदरः उत्पन्नः। राजा कस्यचित् राष्टस्य उन्नत्यै मुख्यः कारणीभूतः जनः। तं विना देशः प्रगतिपथं न प्रयाति इत्यपि स्पष्टम् अभवत्। परन्तु राज्ञः आज्ञां जनाः पालयेयुः इत्यंशे सन्देहः इतोऽपि आसीत्। अपालने दण्डनं भवतीति धिया कथञ्चित् पालनं कुर्युः परन्तु इष्ट्वा पालनं कुर्वन्ति वेति सन्देहस्तु तथैव आसीत्।

यदा लालबहद्दूरशास्त्रिवर्यः भारतस्य प्रधानमन्त्री आसीत् तदानीं सर्वैः भारतीयैः सोमवासरे रात्रिभोजनं त्यक्तव्यम् इति निवेदनं कृतम् आसीत् तदा बहुभिश्च तथा कृतम् इति श्रूयते। राज्ञः विषये जनानां श्रद्धा तावती आसीत् इति विश्वासः एतस्य श्रवणात् जातः आसीत्। परन्तु एषा घटना तु मया न साक्षात्कृता इति कारणतः तस्य अनुभवः मम नासीत्। परन्तु गतदिने यदा मोदिवर्यः राष्ट्रस्य प्रजाः उद्दिश्य यद् अवोचत् जनाः च तद् यावता प्रमाणेन अङ्ग्यकुर्वन् इति तु साक्षात् दृष्ट्वा तु विस्मितः एव अस्मि।

स्वयं मम विषये एव चिन्तयामि चेत् मोदी यद् निवेदनं करोति तद् मया भारतस्य नागरिकेण सता पालनीयम् इति तु निश्चयः कृतः। रामस्य सेतुबन्धनकाले यथा चिक्रोडेन स्वसाहाय्यं कृतं तद्वत् मोदिवर्यस्य महाकार्ये चिक्रोडवत् सेवा करणीया इति बुद्धिस्तु वर्तत एव। चिक्रोडस्य सेवया रामस्य न कश्चन लाभः अभवत्। परन्तु चिक्रोडस्य तु धन्यताभावः महान् अनुभूतः एव। तद्वत् मम कार्येण मोदिमहोदयस्य कार्ये साहाय्यं भवति इति तु मम भ्रमः नास्ति। परन्तु राज्ञः आदेशं पालितवान् इति धन्यताभवस्तु भवत्येव।

सर्वविधा अपि जनाः मोदिवर्यस्य वचांसि गम्भीररूपेण अङ्गीकृतवन्तः इति तु सत्यमेव। अद्य कस्याश्चन ज्येष्ठायाः वैद्यायाः गृहं गतवान् आसम्। तद्गृहे कर्मकरी आगता। सा तु प्रायः गृहकार्यार्थं प्रतिदिनम् आगच्छति। आगमनानन्तरं यदा कार्यं आरब्धवती तदानीं वैद्यायाः स्नुषा कर्मकरीम् आदिष्टवती। भानुवासरे भवत्या न आगन्तव्यम्। तस्मिन् दिने सर्वे अपि स्वगृहे एव भवेयुः इति मोदिवर्यः उक्तवान् अस्ति। इति। तद् वैद्या लक्षितवती वा न वा इति न जाने, कर्मकर्याः प्रतिगमनसमये पुनरपि तामाहूय भवत्या भानुवासरे नागन्तव्यम् इति आदिष्टवती।

राजा यदि सुमार्गे अस्ति सज्जनाः तं पालयन्ति एव। तं प्रत्यक्षदेवतात्वेन मन्यन्ते च। मोदिवर्यस्य हितम् एव भवतु इति मन्दिरं गत्वा पूजां कारयन्तोऽपि अनेके मया दृष्टाः। तथा पश्यामः चेत् उत्तमः राजा देवस्य कार्यमपि न्यूनीकरोति। राज्ञः हितं करोति चेत् सर्वेषां राजा करोति इति हेतोः देवस्य कार्यं राजहितसम्पादने अवसितं भवति।  केचन उत्तममपि राजानं निन्देयुः ते  तु स्वमूले एव कुठारं प्रयुञ्जते इति विवेकिभिः ज्ञायते।

ಕಾಮೆಂಟ್‌ಗಳಿಲ್ಲ:

ಕಾಮೆಂಟ್‌‌ ಪೋಸ್ಟ್‌ ಮಾಡಿ

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...