सम्भाषणशिबिरचालनावसरे
क्रियापदकोष्टकं वितीर्यते। यद्यपि अनुवादविधिमाश्रित्य सम्भाषणशिबिरं न भवति
तथापि क्रियापदकोष्टके प्रथमायां स्तम्भपङ्क्तौ तु प्रादेशिकभाषया क्रियापदानाम्
अर्थः भवति। प्रायेण छात्राः तत्पठित्वा क्रियापदस्य अर्थमवगम्य वाक्यम् वदन्ति। क्रियापदकोष्टकस्य
प्रयोगः तु सर्वादौ तृतीयदिने द्वितीयाविभक्तिपाठनावसरे भवति। बहूनां नूतनानां
क्रियापदानां प्रयोगे छात्राणाम् उत्सुकता भवत्येव। तत्रापि बालकाः विभिन्नकल्पनाः
आश्रित्य वाक्यरचनायां चतुराः भवन्ति। क्रियापदकोष्टके नयति इति पदं वर्तते। नयति
इत्यस्य अर्थः कन्नडभाषया ಒಯ್ಯು (ओय्यु)
इति टङ्कितः वर्तते। कन्नडलिप्यां तु ओ-ब(ಒ-ಬ) इत्यनयोः वर्णयोः किञ्चिदिव
साम्यम् अस्ति। शिबिरे कश्चन बालकः ಒಯ್ಯು (ओय्यु)
इति लिखितं ಬಯ್ಯು(बय्यु)
इति गृहीतवान्। ಒಯ್ಯು (ओय्यु) इत्यस्य अर्थः तु नयनम् इति। ಬಯ್ಯು (बय्यु) इत्यस्य अर्थः तु तर्जनम्
इति। तर्जनम् इत्यर्थं गृहीत्वा कश्चन बालः "अहं राहुल् गान्धिं नयामि"
इति वाक्यम् अवदत्। अहं राहुल् गान्धिं तर्जयामि इति तस्य अभिप्रायः आसीत्। तस्य
आशयः स्पष्टतया नावगतः। पुनः पृष्टेऽपि तदेव वाक्यम् अवदत्। "कः अर्थः?
वदतु" इति पृष्टे तु कन्नडभाषया "ನಾನು
ರಾಹುಲ್ ಗಾಂಧಿಯನ್ನು ಬೈಯುತ್ತೇನೆ".(अहं राहुल् गान्धिं तर्जयामि) इत्याशयं प्रकटितवान्। पुनः नयामि
इत्यस्य ಬಯ್ಯು
(बय्यु) इत्यर्थः किल इत्यपृच्छत् । तस्य सारयुतं वाक्यं श्रुत्वा सर्वे छात्राः
अहसन्। अहमपि नयति इत्यस्य अर्थं बोधयित्वा स्वकर्तव्यात् निवृत्तः।
शिबिरं ग्रीष्मविरामे प्रवर्तते इति हेतोः लघुबालाः अपि शिबिरे प्रविशन्ति। (बालः
घण्टाद्वयं वा गृहाद् बहिः भवति। निःशुल्करूपेण पाठः अपि भवति इत्यस्ति चेत् कौ वा
पितरौ बालं शिबिरं प्रेषयितुं उद्युक्तौ न स्याताम्?)
परन्तु
सामाजिकशिबिरमिति हेतोः ज्येष्ठकेन्द्रितः पाठः करणीयः भवति। "एव"
इत्यस्य बिन्दोः पाठनावसरे, काचित्
माता "मम एक एव पुत्री अस्ति" इति वाक्यम् उक्तवती। पुनः कश्चन "मम
एक एव पुत्री अस्ति" इति अवदत्। एतादृशवाक्यानि अनुसरन् कश्चन लघुबालः "मम
एक एव पिता अस्ति" इति वाक्यं वक्तुमुद्युक्तः। तस्य ध्वनिः तु नीचैः
आसीत्। पुनश्च तस्य कथनावसरे ज्येष्ठाः वाक्यरचनायां मग्नाः आसन्। अहमपि बालेन
उक्तं वाक्यम् अन्यथा गृहीत्वा ज्येष्ठाः न हसेयुः इति धिया उत्तमम् इत्युच्चार्य
"एव" इत्युपयुज्य त्रिचतुरवाक्यान्तराणि उच्चैः अवदम्। भाग्यवशात् कोऽपि
ज्येष्ठः बालस्य "मम एक एव पिता अस्ति" इति वाक्यस्य विषये अधिकमवधानं न
दत्तवान्।

निपुणं निरूपितम्। राहुल गान्धिन: 'आ' *नयनेन* मोदी जातः।
ಪ್ರತ್ಯುತ್ತರಅಳಿಸಿहासजनकं ललितं लेखनम्!! सुयोग्या: शब्दा:..
ಪ್ರತ್ಯುತ್ತರಅಳಿಸಿ