ಬುಧವಾರ, ಫೆಬ್ರವರಿ 13, 2019

प्रेमदिवसः

(2018तमे वर्षे प्रेमिदिवसे रचितानि कतिचन पद्यानि)

यस्य प्रेम विफलं सः इत्थम् अनुभवेत्-💔

द्रवीभवद्धस्तगतं विलोक्य
पयोहिम! त्वां दयितोपभुङ्क्ते।
द्रवीभवन्मे हृदयं कुतः सा
न पश्यति प्रेमदिनेsपि हन्त॥

एकेन चैव बहुना तनुना गुणेन
युक्तं स्वकीयहृदये धरतीह हारम्।
प्रीत्यादरादिबहुभिर्गुणराशिभिर्यो
युक्तोस्त्ययं, धरति तं न तदस्ति चित्रम्॥

पृष्ठे गतान्मुहुरपि स्वकरेण केशा
नाकृष्य या स्वहृदये विनिवेष्टुकामा।
योsयं पुरः प्रतिदिनं चरतीह तं सा 
दूरीकरोति सततं किल चित्रमेतद्।

यस्य च प्रेम सफलं स इत्थं चिन्तयेत्💘💑

शम्भौ भक्त्या निशि सुविहिता जागरेत्येष कोपात्
मन्ये तीक्ष्णैः प्रहरति भृशं त्र्यम्बकारिः स्वबाणैः।
नैतद्युक्तं तव हररिपो! सायकान् संहर त्वं
प्रत्यासन्ने मदनदिवसे प्रेमिणां क्वास्ति निद्रा॥
(2018तमे वर्षे प्रेमिदिवसस्य पूर्वस्मिन् दिने महाशिवरात्रिपर्व आसीत् )

मन्मथः पञ्चभिर्बाणैर्हृदयं मम विध्यति।
हृदयस्था  प्रिया भीरुर्भीत्या न हि पलायते॥
तथापि मनसः खेदः कुतो मे वर्धते वृथा।
मन्ये स्मरः प्रियायाश्च हृदयं विध्यतीति सः॥
प्रेयसीहृदये वासाद् स्मरबाणाः स्पृशन्ति माम्।
तां च मद्धृदये वासाद्, विशिष्टं कामखेलनम्॥

2018तमे वर्षे प्रयागे वसतो मम त्वैषा स्थितिः-
अङ्गनालिङ्गनेनाङ्गभङ्गैरिङ्गितसङ्गतिः।
सङ्गिनां, सङ्गमेsङ्गं मे तरङ्गैस्सङ्गतङ्गुणि॥

ಕಾಮೆಂಟ್‌ಗಳಿಲ್ಲ:

ಕಾಮೆಂಟ್‌‌ ಪೋಸ್ಟ್‌ ಮಾಡಿ

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...