ಮಂಗಳವಾರ, ಏಪ್ರಿಲ್ 7, 2020

ZOOM द्वारा शिबिरचालनम्


Locked down समये गृहेषु एव उपविश्य संस्कृतं पठितुम् अनेके उत्सुकाः आसन्। बालभारतीसंस्थापक्षतः तस्य व्यवस्था अपि कृता। ZOOM इति तन्त्राशम् उपयुज्य शिबिरं चालनीयम् इति निर्णीतम्। तत्र शिक्षकरूपेण उत्तरदायित्वं मह्यं दत्तम्।

दश दिनानि घण्टाद्वयम् इति ZOOM तन्त्रांशमुपयुज्य पाठाः पाठिताः । कुमारमहोदयेन प्रत्यक्षशिबिरे पाठयितुं ppt कृतम् आसीत्। तत्रैव कांश्चन अंशान् योजयित्वा तदेव पाठ्योपकरणत्वेन स्वीकृत्य ZOOM द्वारा शिबिरं चालितवान्। प्रत्यक्षरूपेण शिबिरचालनसमये यान् क्लेशान् अनुभवामः ते क्लेषास्तु अत्रापि आसन् एव। तेन सह तन्त्रज्ञानसम्बद्धाः कतिचन नूतनाः अपि क्लेशाःअाविर्भूताः।

तन्त्रज्ञानसम्बद्धाः क्लेशाः
  • सर्वेषां गृहेषु अन्तर्जालव्यवस्था सम्यक् न भवति स्म इति कारणतः सर्वे सक्रियरूपेण भागं वोढुं न शक्तवन्तः।
  • सर्वे युगपत् वदन्ति चेत् महान् कोलाहलः भवति इति कारणतः सर्वे mute मध्ये आसन्। यः वदति तं अहमेव Unmute करोमि स्म।
  • क्वचित् सङ्गणकस्य समस्यातः hanging समस्या आसीत्।
  • सर्वेषां video on कृत्वा स्थाप्यते चेत् विघ्नः भवति। अन्तर्जालवेगः न्यूनः भवति।
परिहाराः
  • अन्तर्जालव्यवस्था यथा सम्यग् भवेत् तथा पूर्वमेव चिन्तनं करणीयम् ।
  • कस्मिंश्चित् निःशब्दप्रदेशे छात्राः उपविशन्ति चेत् समानकाले पञ्चषान् unmute  कर्तुं शक्नुमः, येन गणभावः शिबिरे आयाति।
  • सङ्गणकं सम्यगेव स्वीकरणीयम्। शिक्षकः यदि दूरवाण्या पाठयति तर्हि बहुविधसौलभ्यानि प्राप्तुं नार्हति।
  • सर्वेषां video off करणीयम् ।

छात्राणां समस्याः
  • शिबिरे अन्यच्छात्राः न दृश्यन्ते इति कारणतः शिबिरकक्ष्यायाः भावः नायाति।
  • एकाकी उपविश्य पठन्नस्ति इति कारणतः उच्चैः वक्तुं सङ्कोचः भवति। तेन सम्भाषणाभ्यासः न्यूनः भवति।
  • शिक्षकः छात्रान् न पश्यति इति कारणतः ते अन्यमनस्काः भवन्ति चेत् जागरिताः न भवन्ति।
  • मध्ये मध्ये विविधाः बाधाः उत्पद्यन्ते, येन कक्ष्यातः उत्थाय गन्तव्यम् आपतति।
परिहारः
  • सङ्कोचं विना निःशब्दस्थले एकान्ते उपविश्य पठनीयम्।

बिन्दूपस्थापने समस्याः
  • छात्राः पुरतः न भवन्ति इत्यतः छात्रैः अवगतं वा न वा इति न ज्ञायते। एतेन उपस्थापनं कथं करणीयम् इति विषये भ्रमः भवति।
  • सर्वमपि चित्रद्वारैव उपस्थापनं करणीयम्। video सम्यक् न भवति इति कारणतः आङ्गिकाभिनयस्य अवसरः नास्ति।
  • उपस्थापनावसरे यदि सन्देहः भवति छात्रः तस्मात् बिन्दोः विरक्तः भवति। तद् अध्यापकः नाभिजानाति।
परिहारः
  • उपस्थापनार्थं काचित् सज्जता करणीया। तावदुपस्थाप्य अभ्यासं प्रति गन्तव्यम्।
  • छात्राः ऐकाग्र्यमनसा पाठं शृणुयुः। यदि बहु भ्रमः वर्तते तर्हि हस्तमुन्नीय अध्यापकं पृच्छेयुः।

अभ्यासे समस्या
  • अभ्यासे तु गणशः अभ्यासः न भवति। अभ्यासार्थं कश्चन छात्रः एव unmute करणीयः। तेन अन्येषां का गतिः इति न ज्ञायते।
परिहारः
  • छात्राः गृहे अभ्यासं कुर्युः। अध्यापकोच्चारणानन्तरम् अनूच्चारणं कुर्युरेव।

प्रयोगे समस्या
  • प्रयोगः अत्र परिणामकारिरूपेण भवति। किन्तु ये हस्तम् उन्नयन्ति ते एव बहुधा हस्तमुन्नीय वाक्यानि वदन्ति।
परिहारः
  • सर्वेऽपि छात्राः अध्यापकेन प्रष्टव्याः।
  • कुत्रचित् screen off कृत्वा एव प्रयोगः कारणीयः, येन छात्राः नूतनानि वाक्यानि स्वचिन्तनेन वदन्ति, unmute कर्तुमपि अध्यापकस्य सारल्यं भवति।


अध्यापकस्य सज्जता
वस्तुतः एतादृशे शिबिरे अध्यापकस्य कौशलं न्यूनं पर्याप्तम्। किन्तु पूर्वसिद्धता तु महती आवश्यकी। यदि सज्जीकृतः विषयः समाप्यते तर्हि अग्रे गन्तुमेव न शक्नोति। कथादिनैव कथञ्चित् निर्वाहः करणीयः।

सज्जतावसरे ppt तन्त्रांशः एव उत्तमः। यतोहि तत् सम्यक्तया load भवति। pdf चेत् न तथा। ppt मध्ये animation भवति चेत् कदाचित् विलम्बेन दर्शयति अतः तस्य न्यूनोपयोगः एव वरम्। Pointer इत्यादीनाम् उपयोगेन बहु प्रयोजनम् नास्ति। सर्वत्र अन्तर्जालः मन्दः भवति इति कृत्वा वाक्यस्य दर्शितस्य वाक्यस्य च सम्बन्धः एव कदाचित् न भवति अतः लघु लघु slide क्रियते चेत् तेनैव कार्यं सिद्ध्यति।

अवलोकनम्।
मम शिबिरे तु द्वित्राः सम्यक् अवलोकनं कृत्वा परिष्कार्यान् अंशान् वदन्ति स्म। एतेन तु बह्वेव लाभः अभवत्। प्रतिदिनम् अग्रिमकक्ष्यायाः कृते सन्नाहः कथं करणीयः इति ज्ञायते।

सहशिक्षकः
दिनत्रयं तु सहशिक्षकः अनिवार्यतया आवश्यकः। भवतः नाम किम् इति पृष्टे मम नाम इति उत्तरं वदेयम् इति छात्रः सहशिक्षकस्य व्यवहारं दृष्ट्वा एव अभिजानाति।

ppt निर्माणम्
ppt निर्माणावसरे चित्राणि gif च उपयोक्तुं शक्नुमः। video तथा परिणामं न जनयति।
यावच्छक्यम् साम्प्रतिकविषयेषु एव चित्रादीनां प्रदर्शनं भवति चेत् सम्यक् अवगच्छन्ति जनाः। यथा साम्प्रतिककाले कोरोना रोगः।

एतस्य शिबिरस्य समारोपसमारम्भः अपि एकघण्टात्मकः चालितः। यथा प्रत्यक्षशिबिरे चाल्यते तथा सर्वेऽप्यंशाः आसन्। तस्य परिसन्धिः अत्र अस्ति। समारोपसमारम्भः । तथा च दशानाम् अपि दिनानां शिबिरस्य परिसन्धिः अत्र अस्ति। सम्भाषणशिबिरम् |

(तन्त्रज्ञानं निरन्तरं परिवर्तते इति कारणतः अग्रे अन्तर्जालाधारितशिबिरेष्वपि बहुविधपरिवर्तनानि भवेयुः। मया चालितस्य शिबिरस्य अवलोकनं मया इत्थं कृतम्।) 



ಗುರುವಾರ, ಮಾರ್ಚ್ 26, 2020

इतो भ्रष्टास्ततो भ्रष्टाः


बहुषु विश्वविद्यालयेषु प्रदर्शनकलानां (performance arts) विषये स्नातकोत्तरकक्ष्याः चलन्ति। तत्र नृत्यार्थमपि कश्चन विभागः परिकल्पितः भवति। अस्मिन् वर्षे बेङ्गलूरुगरे कस्मिंश्चित् विश्वविद्यालये नृत्यविभागे स्नातकोत्तरकक्ष्यायाम् अन्तिमवर्षस्य छात्राणां कृते आन्तरिकमौल्यमापनार्थं कश्चन क्रमः निर्णीतः अध्यापकैः। प्रायः भारतीयकलानां साहित्यशास्त्रस्य च सम्बन्धः तु भवत्येव। नृत्यकलायामपि साहित्यशास्त्रस्य सम्बन्धः वर्तते। अतः प्रायोगिकपरीक्षायां नृत्यार्थं किञ्चन संस्कृतभाषानिबद्धं वस्तु स्वीकुर्युः। प्रबन्धरूपेण तस्मिन् विषये (गीते) विद्यमानः साहित्यिकः अंशः (अलङ्कारः छन्दः रसः इत्यादिष्वन्यतमः) निरूपणीयः इति च नियमः कृतः।

प्रायेण येषां नर्तनादिकलासु आसक्तिः भवति, ते एव नृत्यादिविषये स्नातकोत्तराध्ययनं कुर्वन्ति। अद्यत्वे दशमकक्ष्याम् उत्तीर्य सर्वे यथा वाणिज्यशास्त्रं पठितुम् प्रयान्ति न तथा स्नातकोत्तरकक्ष्यां प्रविशन्ति छात्राः। नृत्ये आसक्तिवन्तः सर्वेऽपि साहित्यशास्त्रस्य अध्ययनं कुर्वन्ति इति नास्ति। रूचिस्तु स्यान्नाम,  परन्तु शास्त्रमध्येतुं कठिनः परिश्रमः अनिवार्यः भवति, ते तु तत् नर्तने एव कुर्वन्ति। परन्तु अधुना प्रबन्धसमर्पणार्थं तु अध्ययनम् अनिवार्यरूपेण करणीयमेव आपतितं छात्रैः।

तत्रत्या छात्रा काचित् गीतगोविन्दविषयं चितवती। अपि च तत्र विद्यमानानाम् अलङ्काराणां विषये प्रस्तुतिः कार्या इति निर्णीतवती च। परन्तु तदर्थं पर्याप्तं ज्ञानं तस्याः नासीत्। अलङ्कारं पाठयितुं मां प्रार्थितवती। किञ्चिदपि संस्कृतज्ञानं येषां नास्ति तेषाम् अलङ्कारपठनं क्लेषाय एव। मया अपि अलङ्कारादिविषये संस्कृतेन एव पठितम्, इति कारणतः कन्नडभाषायां प्राथमिकस्तरे अलङ्काराः कथं पाठ्यन्ते इति ज्ञानं तु मम नास्ति। तथापि कतिचन प्राथमिककन्नडपुस्तकानि परिशील्य पाठने यथा सारल्यं स्यात् तथा टिप्पणीः कृत्वा घण्टाचतुष्टये कथञ्चित् बोधितवान्। अलङ्कारविषये किमपि अजानती छात्रा चतुर्णां घण्टानां बोधनेन किं वा जानीयात्?। अपि तु गीतगोविन्दस्य पङ्क्तीनाम् अर्थमपि अजानत्या तया तत्र कथम् अलङ्काराः अभिज्ञातव्याः

गीतगोविन्दे तया चितस्य भागस्य प्रतिपदं कन्नडभाषया अनुवादः अपि मया कृतः। ततः अलङ्काराणां विषये मया दत्तायाः टिप्पण्याः आधारेण, कुवलयानन्दस्य आङ्ग्लव्याख्यायाः च आधारेण तया गीतगोविन्दपङ्क्तीषु अलङ्काराः अन्विष्टाः। बहुत्र पद्येषु बहवः अलङ्काराः भवन्ति। तया तु प्रतिपद्यं कस्यचित् एकस्य अलङ्कारस्य लक्षणसमन्वयः कृतः। बहुत्र तद् युक्तियुक्तमपि आसीत्।

एतस्मिन् विषये चिन्तने कृते मम स्नातकोत्तरकक्ष्यायाः अन्तिमवर्षं मया स्मृतम्। तत्र तु कस्मिंश्चित् विषये कश्चन विशिष्टः निबन्धः लिखित्वा समर्पणीयः इति निर्बन्धस्तु नासीत्। आन्तरिक-अङ्कानां निमित्तं यद्यपि कार्यं दीयते स्म तत्तु तथा गम्भीररूपेण केऽपि न परिगणयामः स्म। प्रतिपत्रं त्रिचतुरपुटानि किमपि लिखित्वा दद्मः स्म। प्रायोगिकपरीक्षाकल्पना तु स्वप्नेऽपि नास्ति। यद्यपि वाग्वर्धिनीपरिषदि भाषणं करणीयम् इति नियमः आसीत् तत्र छात्राणां स्वेच्छाचारः आसीत्। अतः अस्माकम् अध्ययनं कस्मिंश्चित् विषये गम्भीररूपेण न प्रवृत्तमेव।

यदि गम्भीररूपेण प्रायोगिकपरीक्षाः चाल्यन्ते तेन अनेकानि प्रयोजनानि सन्ति। प्रायोगिकपरीक्षायां साफल्यसम्पादनाय नूतनविषयस्य अध्ययने प्रवर्तामहे। कस्मिंश्चित् विषये शोधः कथं करणीयः इति कल्पना भवति। (शोधच्छात्रः सन् अपि अहं शोधः कथं करणीयः इति स्पष्टं न जानामि। प्राक्शोधकक्ष्यासु अपि मया षण्मासात्मकः कालः यापितः। अनेकेषां शोधच्छात्राणां स्थितिः सैव। अतः संस्कृतक्षेत्रे अर्धाधिकाः छात्राः, शोधः कथं करणीयः इति अजानानाः एव कथञ्चित् किमपि विलिख्य शोधप्रबन्धनाम्ना समर्पयन्ति, पदवीं च प्राप्नुवन्ति।)। कक्ष्यायां विद्यमानैः सहापाठिभिः सह प्रायोगिकपरीक्षाविषये चर्चाकरणेन पादं स ब्रह्मचारिभ्यः इति यदुक्तं तदपि सिद्धं भवति। (यद्यपि आचार्यकक्ष्यायां मम त्रयोविंशतिः सहपाठिनः आसन् तथापि सब्रह्मचारिभ्यः यद् ज्ञानं प्राप्यते तस्माद् अहं वञ्चितः एव। तत्र ममापि दोषः स्याद्।)
 
संस्कृतक्षेत्रे गम्भीररूपेण अध्ययनं स्नातकोत्तरकक्ष्यायां न चलति इत्यस्य बहूनि कारणानि भवितुमर्हन्ति। बहवः छात्राः पिपठिषया संस्कृतस्नातकोत्तरकक्ष्यां न प्रविशन्ति। मयापि आचार्यपदवी सम्पादनीया इति इच्छामात्रं बहूनां भवति। (ईदृशाः अपि गम्भीरप्रायोगिककक्ष्यादिभिः अध्ययनपथम् आनेतुं शक्याः इति तु सत्यमेव) ते अध्ययनादिषु न प्रवर्तन्ते इति कारणतः अध्यापकानामपि उत्साहः न भवति। एते न्यूनाङ्कप्राप्तेः न बिभ्यति इति हेतोः अध्यापकवाक्येषु अनादरः अपि क्वचित् दृश्यते।

अपरं च कारणम् इदमपि भवितुमर्हति। महता श्रमेण किञ्चित् साधितं चेदपि भाविजीवने तस्य प्रयोजनं तथा न भवति इति छात्राणां अनासक्तिः भवितुमर्हति। आभियान्त्रिकादिक्षेत्रेषु भवता अन्तिमवर्षे प्रदत्तकार्यरूपेण कः विषयः स्वीकृतः। तस्य साधनार्थं कथं परिश्रमः कृतः इत्यादिकान् प्रश्नान् औद्योगिक-साक्षात्कारावसरे पृच्छन्ति इति श्रूयते। परन्तु संस्कृतक्षेत्रे तु महता परिश्रमेण आवर्षम् अधीत्य शलाकास्पर्धायां राष्टस्तरे स्वर्णपदकं प्राप्यते चेदपि उद्योगेषु नियुक्त्यादिषु तस्य परिगणनमेव न भवति। तस्य परिश्रमस्य फलं तु पदकमात्रं भवति। एवं सति परिश्रम्य अध्ययनं कृत्वा नूतनविषयस्य गवेषणे फलमेव नास्ति इति चिन्तयन्ति बहवः संस्कृतच्छात्राः, यत्सत्यमप्यस्ति।
 
संस्कृतविश्वविद्यालयेषु तु आधुनिकशैल्या पाठनं चलिति इति हेतोः अस्माकं शास्त्रनिष्ठं ज्ञानमपि दृढं न भवति। अधीतस्य विषयस्य निरूपणं वाक्यार्थसभासु कार्यम् इत्युक्ते भीतभीताः भवामः। आधुनिकधारायाम् आधुनिकविषयान् पठतां छात्राणां शोधादिविषये, पत्रप्रस्तुत्यादिविषये च यादृशी कल्पना भवति सापि अस्माकं नास्ति इति कारणतः इतो भ्रष्टाः ततो भ्रष्टाः इति स्थितौ वर्तामहे। संस्कृतक्षेत्रे कौशलवन्तः न्यूनाः वर्तन्ते इति आरोपभाजः च भवामः।

केन्द्रीयविश्वविद्यालयत्वेन त्रयाणां संस्कृतविश्वविद्यालयानां मान्यता प्राप्ता विद्यते। इतः परं वा इमे केन्द्रीयविश्वविद्यालयाः स्वकीयाध्ययनाध्यापनक्रमे कठोरताम् आनयन्ति चेत् संस्कृतज्ञाः अपि समाजे अन्यैः सह समानस्तरे भवितुं शक्ष्यामः।

(मम विद्यालयजीवनस्य आधारेण अयं लेखः रचितः। अन्येषु संस्कृतविश्वविद्यालयेषु, अथवा साम्प्रतिके काले मम विद्यालये स्थितिः उत्तमा एव स्यात्। संस्कृतविश्वविद्यालयेभ्योऽपि अधमाः आधुनिकविश्वविद्यालयाः अपि स्युः। मम अवलोकनं तु सीमितम्। अपि च संस्कृतेन एतावद्वा लेखितुं मां समर्थं कृतवतः मम विद्यालयस्य विषये मनसि श्रद्धा आदरश्च वर्तते एव।)

ಶುಕ್ರವಾರ, ಮಾರ್ಚ್ 20, 2020

मोदिनो मोदिनो मोदिनः प्रजाः

(मोदिनो- पञ्चम्यैकवचनम् मोदिनो- प्रथमाबहुवचनम् मोदिनः- षष्ठ्यैकवचनम् प्रजाः

बाल्यकाले बह्व्यः कथाः श्राव्यन्ते स्म। काश्चन कथाः पुस्तकेषु पठ्यन्ते स्म च। बालकथा नाम कश्चन राजा भवेदेव। स च कांश्चन आज्ञाः करोति। प्रजाः सर्वाः अपि ताः आज्ञाः पालयन्ति। एवं स्थिते मम मनसि कश्चन संशयः सदा भवति स्म। राजा तु एकः एव भवति। सः सर्वाधिकारी इव आज्ञाः करोति चेत् जनाः किमर्थं पालयेयुः? वस्तुतः राजा इति कल्पना एव सम्यक् नास्ति। यदि राजा नास्ति तदा सर्वा अपि प्रजाः सुखेन जीवेयुः इत्यद्याः कल्पनाः करोमि स्म।

बाल्यसहजाः कल्पनाः इमाः। परन्तु यदा किञ्चिदिव प्रबुद्धः अभवम् तदानीं तु राज्ञः महत्त्वं ज्ञातम्। तत्रापि अराजकस्य राज्यस्य कीदृशी स्थितिर्भवति इति रामयणे यदा अपठं तदानीं राज्ञः विषये आदरः उत्पन्नः। राजा कस्यचित् राष्टस्य उन्नत्यै मुख्यः कारणीभूतः जनः। तं विना देशः प्रगतिपथं न प्रयाति इत्यपि स्पष्टम् अभवत्। परन्तु राज्ञः आज्ञां जनाः पालयेयुः इत्यंशे सन्देहः इतोऽपि आसीत्। अपालने दण्डनं भवतीति धिया कथञ्चित् पालनं कुर्युः परन्तु इष्ट्वा पालनं कुर्वन्ति वेति सन्देहस्तु तथैव आसीत्।

यदा लालबहद्दूरशास्त्रिवर्यः भारतस्य प्रधानमन्त्री आसीत् तदानीं सर्वैः भारतीयैः सोमवासरे रात्रिभोजनं त्यक्तव्यम् इति निवेदनं कृतम् आसीत् तदा बहुभिश्च तथा कृतम् इति श्रूयते। राज्ञः विषये जनानां श्रद्धा तावती आसीत् इति विश्वासः एतस्य श्रवणात् जातः आसीत्। परन्तु एषा घटना तु मया न साक्षात्कृता इति कारणतः तस्य अनुभवः मम नासीत्। परन्तु गतदिने यदा मोदिवर्यः राष्ट्रस्य प्रजाः उद्दिश्य यद् अवोचत् जनाः च तद् यावता प्रमाणेन अङ्ग्यकुर्वन् इति तु साक्षात् दृष्ट्वा तु विस्मितः एव अस्मि।

स्वयं मम विषये एव चिन्तयामि चेत् मोदी यद् निवेदनं करोति तद् मया भारतस्य नागरिकेण सता पालनीयम् इति तु निश्चयः कृतः। रामस्य सेतुबन्धनकाले यथा चिक्रोडेन स्वसाहाय्यं कृतं तद्वत् मोदिवर्यस्य महाकार्ये चिक्रोडवत् सेवा करणीया इति बुद्धिस्तु वर्तत एव। चिक्रोडस्य सेवया रामस्य न कश्चन लाभः अभवत्। परन्तु चिक्रोडस्य तु धन्यताभावः महान् अनुभूतः एव। तद्वत् मम कार्येण मोदिमहोदयस्य कार्ये साहाय्यं भवति इति तु मम भ्रमः नास्ति। परन्तु राज्ञः आदेशं पालितवान् इति धन्यताभवस्तु भवत्येव।

सर्वविधा अपि जनाः मोदिवर्यस्य वचांसि गम्भीररूपेण अङ्गीकृतवन्तः इति तु सत्यमेव। अद्य कस्याश्चन ज्येष्ठायाः वैद्यायाः गृहं गतवान् आसम्। तद्गृहे कर्मकरी आगता। सा तु प्रायः गृहकार्यार्थं प्रतिदिनम् आगच्छति। आगमनानन्तरं यदा कार्यं आरब्धवती तदानीं वैद्यायाः स्नुषा कर्मकरीम् आदिष्टवती। भानुवासरे भवत्या न आगन्तव्यम्। तस्मिन् दिने सर्वे अपि स्वगृहे एव भवेयुः इति मोदिवर्यः उक्तवान् अस्ति। इति। तद् वैद्या लक्षितवती वा न वा इति न जाने, कर्मकर्याः प्रतिगमनसमये पुनरपि तामाहूय भवत्या भानुवासरे नागन्तव्यम् इति आदिष्टवती।

राजा यदि सुमार्गे अस्ति सज्जनाः तं पालयन्ति एव। तं प्रत्यक्षदेवतात्वेन मन्यन्ते च। मोदिवर्यस्य हितम् एव भवतु इति मन्दिरं गत्वा पूजां कारयन्तोऽपि अनेके मया दृष्टाः। तथा पश्यामः चेत् उत्तमः राजा देवस्य कार्यमपि न्यूनीकरोति। राज्ञः हितं करोति चेत् सर्वेषां राजा करोति इति हेतोः देवस्य कार्यं राजहितसम्पादने अवसितं भवति।  केचन उत्तममपि राजानं निन्देयुः ते  तु स्वमूले एव कुठारं प्रयुञ्जते इति विवेकिभिः ज्ञायते।

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...