ಮಂಗಳವಾರ, ಜೂನ್ 3, 2025

पानीयं किम् इच्छति ?

पानीयं किं स्वीकरोति ? भारतदेशे यदा कदापि यस्य कस्यचित् गृहं प्रविशामः तर्हि गृहिणीनां मुखतः सहजतया अयं प्रश्नः निस्सरति । किमपि मास्तु इति अतिथिना कथिते अपि पुनः पुनः पृष्ट्वा यत्किमपि सज्जीकर्तुं पाकगृहं धावन्ति गृहिण्यम् । एवं शक्तिमत्यः गृहिण्यः तु कुर्युः । परन्तु यदि उत्थातुम् एव न शक्यते । स्वनिमित्तमपि पानीयम् अन्येन दातव्यम् इति स्थितिः भवति, तदाऽपि काचित् महिला शय्यातः उत्थाय पानीयं दातुं उत्सुका भवति चेत् तत् विशिष्टमेव । एतादृशीषु विशिष्टासु महिलासु अन्यतमा सुचेताभगिनी ।

मूलतः उत्तरकर्णाटकीया । गृहभाषा मराठी । शिक्षणं कन्नडमाध्यमेन प्राप्तम् ।  संस्कृतसेवाव्रतिनीरूपेण तिपटूरु, हासन, देहली मध्यप्रदेशः इत्यादिप्रदेशेषु कार्यं कृतम् । ततः केरलीयेन पूर्णकालिकेन सह विवाहः । कस्मिंश्चित् सङ्घटने पूर्णकालिकरेण (पूर्णकालिकाः सामर्थ्ये सत्यपि स्वनिमित्तं धनं न सम्पादयन्ति । सङ्घटनस्य सूचनानुगुणं स्वव्ययं निर्वहन्तः जीवनं यापयन्ति ।) कार्यं कुर्याम् इति मनःस्थितिसम्पादनं कठिनम् । परन्तु पूर्णकालिकं परिणयामि इति निश्चयः तु कठिनतरः ।  यतो हि गृहजनाः, बान्धवाः, मित्राणि च तत्र बहुविधापत्तीः दर्शयेयुः । तथापि तत्सर्वं सोढ्वा जीवनं करिष्यामि इति दृढनिर्णयस्तु श्रेष्ठानां महिलानाम् एव सम्भवेत् । 

पूर्णकालिकं परिणीय अमेरिकादेशं प्रति गमनं तत्र संस्कृतकार्यकरणम् इति तु इतोऽपि महाकार्यम् । यदि सम्यक् धनार्जनस्य व्यवस्था वर्तते, तर्हि एव मातृभूमिं त्यक्त्वा विदेशेषु वासार्थं जनाः उद्युक्ताः भवन्ति । सेवा करणीया इत्यस्ति चेत् मम परिचिते प्रदेशे एव भवतु इति मनःस्थितिः बहूनां भवति । परन्तु सेवार्थमेव दूरदेशं गत्वा तत्रापि सुचेताभगिनी महत् कार्यं, जनसम्पर्कं च साधितवती । अधुना अपि विदेशेभ्यः बेङ्गलूरुनगरम् आगन्तारः जनाः सुचेताभगिन्याः दर्शनं वाञ्छन्ति स्म । 

मम कार्यालये सुचेताभगिन्याः पत्या सह परिचयः जातः । सः कार्यवशात् मां गृहम् नीतवान् । कस्यचित् महापणस्य पृष्ठतः लघुगृहं भगिन्याः आसीत् । यद्यपि अहं प्रथमवारं भगिनीं पश्यन् आसं, तथापि सा अत्यन्तं परिचितः इव मया सह सम्भाषणं कृतवती । पानीयं किम् इच्छति इति वार्तालापं कुर्वती पानीयादिकं दत्तवती । गृहमपि मध्ये मध्ये आगच्छतु इति आहूतवती । 

ततः मम कार्यालयस्य समीपे एव तस्याः गृहपरिवर्तनं जातम् । अतः मध्ये मध्ये तस्याः गृहगमनं भवति स्म । भोजनं समाप्य साक्षात् तस्याः गृहं गच्छामि चेद् अपि सा खादितुं किम् इच्छति इति पृच्छति स्म । कदाचित् तस्याः सङ्गणकयन्त्रं समीकर्तुम् अहं गृहं गतः । सः अल्पाहाकालः अहम् अल्पाहारं खादित्वा एव आगतवान् इति उक्तवान् अपि आसम् । तथापि सा कष्टेन किमपि बहु निर्माय दत्तवती आसीत् । 

यद्यपि बहु अस्वस्था, उत्थातुं च न शक्नोति तथापि मम विवाहानन्तरं सपत्नीकं माम् आहूय भोजयित्वा उपायनं च दत्त्वा प्रेषितवती । एतादृशाः सज्जनाः लोके भवन्ति इति मम पत्नी ऐदम्प्राथम्येन दृष्टवती आसीत् । 

सुचेताभगिनी अत्यन्तं स्वाभिमानिनी । यद्यपि उत्थातुम् असमर्था तथापि स्वकार्याणि स्वयमेव निर्वहति स्म । यदि उत्थातुमेव असामर्थ्यं भवति तर्हि एव अन्येषां साहाय्यं स्वीकरोति स्म । यदि रुग्णाः भवन्ति, तर्हि अन्यजनाः आगत्य स्वव्यथां शृणुयुः इति भावः अनेकेषां रोगिणां भवति । शय्यायामेव त्रिचतुरदिनानि केवलानि भवन्ति चेत् मानसिकरूपेण अपि त्रस्ताः भवन्ति । परन्तु सुचेताभगिनी मानसिकरूपेण अत्यन्तं दृढा आसीत् । कस्यापि समीपे रोदनं तु न करोति स्म । कस्मैचित् अपि किमपि कार्यं न वदति स्म । 

अद्य(03.06.2025) सा दिवङ्गता । तस्याः पार्थिवशरीरस्य मुखं पश्यामि चेत् किं पानीयम् इच्छति?  इति पृच्छन्ती इव भासते ।  


1 ಕಾಮೆಂಟ್‌:

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...