IPL क्रीडा अद्यत्वे समग्रदेशस्य आकर्षणबिन्दुत्वेन स्थिता वर्तते । युवजनाः ऐ.पि.एल् कारणतः अलसाः जायमानाः सन्ति इति केषाञ्चन मतम् । परन्तु अनेकेषाम् इयं क्रीडा मनस्तोषं जनयित्वा नूतनोर्जाप्राप्तौ अपि सहकारिणी विद्यते एव ।
दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम्
।
विश्रान्तिजननं काले नाट्यमेतद्भविष्यति ॥
इति वाक्यं नाट्यविषये उक्तम् । अद्यत्वे
क्रिकेट् क्रीडायाम् अपि अस्य श्लोकस्य अन्वयः शक्यः । ऐ.पि.एल् क्रीडाः तु
सायङ्काले 7.30 वादनतः प्रवर्तन्ते । श्रमिकाः कार्यं समाप्य गृहे उपविश्य आनन्देन
क्रीडाम् आस्वादयितुं शक्नुवन्ति ।
अस्माकं ग्रामे कश्चित् लोकयाननिर्वाहकः वर्तते । प्रातः सार्धसप्तवादनतः सायं सार्धसप्तवादनं यावत् तस्य यानं मार्गे चलति । ततः गृहं गत्वा सः प्रतिदिनं क्रीडाम् आस्वादयति । ग्रामीणभागे यानं चलति इति कारणतः यात्रिषु बहवः तत्परिचिताः एव । सः पूर्वदिनस्य क्रीडायाः विमर्शम् यात्रिभिः सह कुर्वन् आनन्दम् अनुभवति । स च विमर्शः उत्कृष्टः भवति । तादृशमेव विमर्शं कुर्वन्तः अनेके जनाः प्रतिदिनं यूट्यूब् मध्ये अपि दृश्यन्ते । क्रीडाविमर्शस्य तु सहस्रशः दर्शकाः, शतशः प्रतिस्पन्ददातारश्च भवन्ति । यदि एतस्य याननिर्वाहकस्य वचनानि अपि यूट्यूब्-मध्ये भवन्ति तर्हि तस्यापि सहस्रशः अभिमानिनः निश्चयेन भवेयुः इत्यत्र तु सन्देहः नास्ति । आदिनं कृतस्य श्रमस्य परिहारः क्रीडादर्शनेन निवारितः इति तृप्तिः तस्य वचनेषु स्पष्टं भासते ।
संस्कृतज्ञैः अस्माभिः अपि ऐ.पि.एल् क्रीडातः पठनीयं किञ्चिदस्ति । सा तु क्रीडा, अस्माकं तु भिन्नं क्षेत्रम् इति न चिन्तनीयम् । क्रीडायाः आरम्भे कः ताडनगणः (Batting) कः क्षेपणगणः(Bowling) इति निर्णयः नाणकक्षेपणद्वारा (Toss) भवति । क्रीडायाः अनन्तरं पुरस्कारवितरणं च भवति । तयोः द्वयोः कार्यक्रमयोः निर्वहणं सुचारुतया प्रवर्तते ।
तत्रापि पुरस्कारप्रदानकार्यक्रमस्तु अनुसरणयोग्यः । तत्र भ्रमलेशोऽपि न भवति । देशस्य प्रसिद्धाः क्रीडाकार्यक्रमनिरूपकाः हर्षभोग्ले, मुरळिकार्तिकः, रविशास्त्री, आकाशचोप्रा इत्यादिषु अन्यतमः कार्यक्रमं निर्वहति । यद्यपि एते प्रसिद्धाः तथापि कार्यक्रमे स्वकीयं किमपि न योजयन्ति । संस्कृतक्षेत्रे तु एकैकस्य विदुषः क्रमः एकैकः भवति पिण्डे पिण्डे मतिर्भिन्ना तुण्डे तुण्डे सरस्वती इति वाक्यानुसारं स्वसिद्धान्तप्रतिपादनेन अव्यवस्था दृश्यते । शैलीभेदः प्रतिजनं भवेदेव । परन्तु क्रमभङ्गः भवति चेत् दोषाय । उदाहरणार्थं आरम्भे मङ्गलपद्यं गातव्यम्, उत स्वागतभाषणं करणीयम् इति निर्वाहकस्य भ्रमः भवति ।
ऐ.पि.एल्.क्रीडायामपि एतादृशः भ्रमः तत्र कार्यं कुर्वतां मध्ये स्याद् । परन्तु सः भ्रमः न प्रकटीभवति । कार्यक्रमस्यादौ सर्वे मञ्चे स्थिताः भवन्ति । निर्वाहकः प्रायोजकेभ्यः धन्यावादसमर्पणं करोति । तदनन्तरं अतिथीनां नाम्नः पदस्य(Designation) च परिचयः भवति । कः पुरस्कारः केन दातव्यः इति पूर्वमेव निश्चितं भवति, सः पुरस्कारहस्तः एव मञ्चे स्थितः भवति । ततः एकैकशः नामोद्घोषणं यदा भवति, तदा क्रीडकः पुरस्कारं स्वीकृत्य गच्छति । अतिवेगताडकः(super striker), अत्यधिकक्रीडनाङ्कवान् (Fantasy king), अत्यधिकषड्धावनाङ्कताटकः,(Maximum sixes) अत्यधिकचत्वारिधावनाङ्कताडकः (maximum fours), अत्यधिकधावनाङ्करहितकन्दुकक्षेपकः(Dot ball) इति पञ्च पुरस्काराः वितीर्यन्ते । तदन्तरं विजेतृगणनायकस्य लघुभाषणं, क्रीडायां सर्वश्रेष्ठक्रीडकस्य च भाषणं भवति । पञ्चभिः निमेषैः सर्वोऽपि कार्यक्रमः समाप्यते ।
अयमेव पुरस्कारप्रदानकार्यक्रमः यदि कस्मिंश्चित् संस्कृतविश्विद्यालये चाल्यते तर्हि कीदृशी स्थितिः भवेत् इति कल्पनां कर्तुं शक्नुयाम । पञ्चानां पुरस्काराणां वितरणं, तदर्थं पञ्चानाम् अतिथीनाम् आह्वानं बहूनां भाषणम् इत्यादिना अन्यूनं पञ्चानां घण्टानां कार्यक्रमः निश्चयेन भवेत् ।
विश्वविद्यालयीयाः कार्यक्रमाः भिन्नप्रकारकाः,
क्रीडाकार्यक्रमाः भिन्नप्रकारकाः । अतः द्वयोः तोलनं यदि क्रियेत तर्हि सा
हीनोपमा भवति इति तु सत्यमेव । परन्तु यस्मात् कार्यक्रमनिर्वहणक्रमात् सर्वोऽपि
त्रस्तः वर्तते, तादृशे सभाकार्यक्रमे गुणवत्परिवर्तनविषये चिन्तनं तु विधेयमेव
खलु ? तदर्थं
कस्यचित् उदाहरणम् अत्र दर्शितम् । दर्शिते उदाहरणे अपि दोषाः भवेयुः नाम, तथापि
गुणांशास्तु निश्चयेन स्वीकर्तुं योग्याः।

ಕಾಮೆಂಟ್ಗಳಿಲ್ಲ:
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ