शृङ्गेर्याम्
अध्ययनावसरे अतीव सन्तोषं(तदा वयं दुःखदायकम् इत्यपि चिन्तयामः स्म) जनयति स्म देवालयभोजनम् ।
आरम्भिकेषु त्रिचतुरवर्षेषु प्रतिदिनं मध्याह्ने देवालयस्यैव भोजनं करोमि स्म ।
सोमवासरतः शुक्रवासरपर्यन्तं यदा विद्यालये कक्ष्याः चलन्ति, तदानीं तु देवालयात्
अन्नम्, सारः क्वथितश्च विद्यालयं प्रति एव प्रेष्यते स्म । शनिभानुवासरयोः रात्रौ
च इयं व्यवस्था नासीत् ।
विद्यालयः देवालयतः
किलोमीटर् त्रयपरिमिते दूरे अस्ति । प्रथमवर्षे सायङ्काले अहं प्रथमदीक्षाकक्ष्यां
गच्छामि स्म । सा च कक्ष्या देवालयस्य पार्श्वे एव चलति स्म । सायं
सार्धपञ्चवादनतः सप्तवादनपर्यन्तं कक्ष्या आसीत् । सप्तवादने साक्षात् मन्दिरं
प्रविश्य शारदाम्बायाः दर्शनं कृत्वा सपादसप्तवादने भोजनारम्भे प्रथमपङ्क्तौ
प्रथमे स्थाने मित्रैः सह भवामि स्म । प्रथमदीक्षाकक्ष्यायाः समाप्त्यनन्तरं तु
रात्रौ मन्दिरे भोजनं विरलतया करोमि स्म ।
प्रतिशनिवासरं
भानुवासरं च मध्याह्ने भोजनार्थं मन्दिरं गच्छामः स्म । गमनसमये आनन्देन पद्भ्यां
गमनं, देवालये आकण्ठं भोजनं, ततः बस् यानेन प्रत्यागमनम् इत्येवं क्रमः आसीत् ।
गमनावसरे सूर्यस्य प्रखरे आतपे गणशः विद्यार्थीनां गमनं भवति स्म । मन्दिरगमनं तु
विनीतवेषेणैव भवति स्म इति कृत्वा वेष्टिधारिणां गणाः मार्गेषु राराजन्ते स्म ।
मित्रैः सह मन्दिरगमनम् इत्येषः अंशः आनन्ददायकः आसीत् । छात्रावासतः प्रस्थीयते
चेत् मन्दिरपर्यन्तं विविधाः घटनाः स्मरन्तः चलामः स्म ।
परन्तु
त्रिचतुरवर्षाणाम् अनन्तरं मन्दिरगमनस्य अभ्यासः बहुभिः परित्यक्तः । स्वयम्पाके
रुचिः आगता आसीत् । अन्यच्च मन्दिरपर्यन्तं यत् किलोमीटर्त्रयपरिमितं दूरम् अस्ति
तदेव महद्दूरायते स्म अनेकेषाम् । तथापि त्रिचतुराणां गणः (यत्र अहमपि अन्तर्भूतः)
प्रतिदिनं मन्दिरं गच्छति स्म ।
अधुना तु छात्रावासतः
भोक्तुं मन्दिरगन्तारः न्यूनाः जाताः । तत्रापि पादाभ्यां गमनं तु न कुर्वन्त्येव
इति वार्ता श्रुता । तुङ्गायां यथा नूतनं जलं प्रवहति तथा छात्राणां मनस्थितिरपि
नूतना भवति । इदानीन्तनाः छात्राः प्रतिदिनं मन्दिरं प्रति गमनागमनकार्यं
मूर्खकार्यमिति मन्येरन् । तथापि तस्य आनन्दं ये अनुभूतवन्तः ते एव जानन्ति ।

ಕಾಮೆಂಟ್ಗಳಿಲ್ಲ:
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ