ಸೋಮವಾರ, ಜೂನ್ 16, 2025

दत्तपदी (वृष्टिः अथवा यक्षगानम्)

 

15.06.2025 तमे दिनाङ्के उडुपिनगरे राजाङ्गणे वेङ्कटराम-ऐताळवर्यस्य संस्मरणकार्यक्रमाङ्गत्वेन आयोजिते डा. रामकृष्णपेजत्तायमहोदयस्य अष्टावधाने अहम् दत्तपदिविभागस्य पृच्छकः आसम् । तत्र मया हर, शिव, शङ्कर, शम्भु इत्येतानि पदानि विन्यस्य वृष्टिकालस्य अथवा यक्षगानस्य वर्णनं करणीयम् इति मया दत्तपदिविभागे प्रश्नः पृष्टः । अवधानिना रामकृष्णपेजत्तायवर्येण वृष्टिविषये पद्यं रचितम् । मया श्लेषानुप्राणितोपमालङ्कारं प्रयुज्य यक्षगानं वर्षणसदृशम् इति वर्णितम् । तद्यथा –


सन्तापनादिहरणं रसदृष्टिहेतु-

-रिन्द्रप्रभावजनितं निशि वल्गुनादम् ।

चापाशुगांशमनिशं करविप्रयोगं

स्याद्वर्षणेन सदृशम्भुवि यक्षगानम् ॥

 

पदच्छेदः – सन्तापनादिहरणं रसदृष्टिहेतुः इन्द्रप्रभावजनितं निशि वल्गुनादम् चापाशुगांशमनिशं करविप्रयोगं स्याद्वर्षणेन सदृशं भुवि यक्षगानम् ।

 

अन्वयः - सन्तापनादिहरणं रसदृष्टिहेतुः इन्द्रप्रभावजनितं निशि वल्गुनादम् चापाशुगांशमनिशं करविप्रयोगं वर्षणेन सदृशं यक्षगानं स्यात् ।

 

यक्षगानं वर्षणेन सदृशं स्यात् । कथं वर्षणेन सदृशम् ? इत्यत्र उक्ताः साधारणधर्माः वर्षणम् इत्यत्र, यक्षगानम् इत्यत्र अपि अन्वयं प्राप्नुवन्ति । तद्यथा –

 

पदम्

वर्षणपक्षे

यक्षगानपक्षे

सन्तापनादिहरणम्

सूर्यतापः धूलिः इत्यादीनां नाशकम्

मनसः तापः म्लानता इत्यादीनां नाशकं

रसदृष्टिहेतुः

जलदर्शने कारणम्

शृङ्गारादिरसानां दर्शने कारणम्

इन्द्रप्रभावजनितम्

वृष्टिदेवता इन्द्रः, तत्प्रभावेन जनितम्

नाट्यम् इन्द्रसभायां प्रथमं प्रवृत्तमिति शास्त्रं वदति । तथा च यक्षगानेऽपि सामान्यतः सर्वासु कथासु इन्द्रप्रभावोऽपि भवति ।

निशि वल्गुनादम्

रात्रौ हितकारिणं नादं बिभर्ति

रात्रौ यक्षगानं प्रवर्तते । तस्य नादः हितकरः भवति ।

चापाशुगांशम्

इन्द्रधनुषः, वायोः च अंशेन युक्तम्

धनुषः, बाणस्य च अंशेन युक्तम् । नाट्ये धनुः बाणश्च प्रदर्श्यते ।

अनिशम्

निरन्तरम्

निरन्तरम्

करविप्रयोगम्

सूर्यकिरणानां प्रयोगरहितम् । अन्धकारयुतम् इति तात्पर्यम् । अथवा कस्य जलस्य रवेः सूर्यस्य च प्रयोगः दर्शनं यत्र । वृष्टिकाले सूर्यस्य दर्शनं विरलम् इत्यभिप्रायः ।

अथवा कस्य जलस्य रवेः सूर्यस्य च प्रयोगः । कदाचित् वृष्टिः कदाचित् सूर्यः इत्यभिप्रायः ।

करस्य हस्तस्य विशिष्टप्रयोगः यत्र तादृशं यक्षगानम् ।

 

अत्र हरणम् इत्यत्र हर इति पदस्य, निशि वल्गुनादम् इत्यत्र शिव इति पदम्, अनिशं करविप्रयोगम् इत्यत्र शङ्कर इति पदम्, सदृशं भुवि इत्यत्र च शम्भु इति पदं च दृश्यते ।

 


15.06.2025 ರಂದು ಉಡುಪಿಯ ರಾಜಾಂಗಣದಲ್ಲಿ ವೆಂಕಟರಾಮ ಐತಾಳರ ಸಂಸ್ಮರಣೆಯ ಅಂಗವಾಗಿ ರಾಮಕೃಷ್ಣ ಪೆಜತ್ತಾಯರ ಅಷ್ಟಾವಧಾನ ಕಾರ್ಯಕ್ರಮ ನಡೆಯಿತು. ಅವದಾನದಲ್ಲಿ ನಾನು ದತ್ತಪದಿ ಪೃಚ್ಛಕನಾಗಿದ್ದೆ. ಹರ, ಶಿವ, ಶಂಕರ, ಶಂಭು ಎಂಬ ಪದಗಳನ್ನು ಬಳಸಿಕೊಂಡು ಮಳೆ ಅಥವಾ ಯಕ್ಷಗಾನದ ವರ್ಣನೆ ಮಾಡಬೇಕು ಎಂದು ಪ್ರಶ್ನೆ ಕೇಳಿದ್ದೆ. ಅವಧಾನಿಗಳು ಮಳೆಯನ್ನು ವರ್ಣಿಸಿದರು. ನಾನು ಯಕ್ಷಗಾನ ಮಳೆಯಂತೆ ಎಂದು ವರ್ಣಿಸಿ ಸಾಧಾರಣಧರ್ಮಗಳಾಗಿ ಶ್ಲೇಷಪೂರ್ಣಪದಗಳನ್ನು ಬಳಸಿದ್ದೆ. ಪದ್ಯ ಈ ಕೆಳಗಿನಂತಿದೆ.

 

ಸಂತಾಪನಾದಿಹರಣಂ ರಸದೃಷ್ಟಿಹೇತು

ರಿಂದ್ರಪ್ರಭಾವಜನಿತಂ ನಿಶಿ ವಲ್ಗುನಾದಮ್

ಚಾಪಾಶುಗಾಂಶಮನಿಶಂ ಕರವಿಪ್ರಯೋಗಂ

ಸ್ಯಾದ್ವರ್ಷಣೇನ ಸದೃಶಂ ಭುವಿ ಯಕ್ಷಗಾನಂ

 

ಪದ್ಯದ ಪದಚ್ಛೇದ ಹಾಗೂ ಅನ್ವಯಗಳನ್ನು ಮೇಲಿರುವ ಸಂಸ್ಕೃತ ಆವೃತ್ತಿಯಲ್ಲಿ ಕಾಣಬಹುದು. ಶ್ಲೇಷಯುಕ್ತ ಪದಗಳು ಹೀಗಿವೆ.

 

ಪದ

ಮಳೆ ಎಂಬ ಅರ್ಥದಲ್ಲಿ

ಯಕ್ಷಗಾನ ಎಂಬ ಅರ್ಥದಲ್ಲಿ

ಸಂತಾಪನಾದಿ ಹರಣಂ

ಸೂರ್ಯನ ಬಿಸಿಲು, ಧೂಳು ಮುಂತಾದುವುಗಳನ್ನು ನಾಶಮಾಡುವ

ಮನಸ್ಸಿನ ತಾಪಗಳನ್ನೂ, ಬೇಸರ ಮುಂತಾದುವುಗಳನ್ನೂ ದೂರಗೊಳಿಸುವ

ರಸದೃಷ್ಟಿಹೇತುಃ

ನೀರು ಕಾಣಿಸಿಕೊಳ್ಳಲು ಕಾರಣವಾಗುವ

ಶೃಂಗಾರಾದಿ ರಸಗಳನ್ನು ಕಾಣಲು ಕಾರಣವಾಗುವ

ಇಂದ್ರಪ್ರಭಾವಜನಿತಮ್

ಮಳೆಯ ದೇವತೆ ಇಂದ್ರ. ಆತನ ಪ್ರಭಾವದಿಂದ ಜನಿಸಿದ

ನಾಟ್ಯ ಇಂದ್ರನ ಸಭೆಯಲ್ಲೇ ಆರಂಭವಾಯಿತು ಎಂಬುದಾಗಿ ನಾಟ್ಯಶಾಸ್ತ್ರದಲ್ಲಿ ಹೇಳಲಾಗಿದೆ. ಅಂತೆಯೇ ಯಕ್ಷಗಾನದಲ್ಲೂ ಪ್ರತಿ ಪ್ರಸಂಗದಲ್ಲಿ ಇಂದ್ರನ ಪ್ರಭಾವ ಇರುತ್ತದೆ.

ನಿಶಿ ವಲ್ಗುನಾದಮ್

ರಾತ್ರೆಯಲ್ಲಿ ಮಳೆ ಹಿತವಾದ ನಾದವನ್ನು ಸೂಸುತ್ತದೆ.

ಯಕ್ಷಗಾನ ಪ್ರದರ್ಶನ ರಾತ್ರೆಯಲ್ಲಿ ಹಿತವಾದ ರಾಗಾದಿಗಳಿಂದ ಕೂಡಿರುತ್ತದೆ

ಚಾಪಾಶುಗಾಂಶಮ್

ಕಾಮನಬಿಲ್ಲು ಹಾಗೂ ಗಾಳಿಯ ಪ್ರಭಾವ ಮಳೆಯಲ್ಲಿರುತ್ತದೆ. (ಚಾಪ= ಕಾಮನಬಿಲ್ಲು, ಆಶುಗ=ಗಾಳಿ)

ಬಿಲ್ಲು ಬಾಣಗಳಿಂದ ಕೂಡಿದ

(ಚಾಪ= ಬಿಲ್ಲು, ಆಶುಗ=ಬಾಣ)

ಅನಿಶ

ನಿರಂತರವಾಗಿ

ನಿರಂತರವಾಗಿ

ಕರವಿಪ್ರಯೋಗಮ್

ಸೂರ್ಯಕಿರಣಗಳ ಪ್ರಯೋಗ ಇಲ್ಲದಿರುವಂತಹ (ಕರ=ಕಿರಣ). ಅಥವಾ ಕಂ ಎಂದರೆ ನೀರು ರವಿ ಎಂದರೆ ಸೂರ್ಯ. ಒಮ್ಮೆ ಮಳೆಯ ಪ್ರಯೋಗ ಒಮ್ಮೆ ಸೂರ್ಯನ ಪ್ರಯೋಗ ಇರುವಂತಹ.

ಕರ ಎಂದರೆ ಕೈ. ಕೈಯ ವಿಶಿಷ್ಟ ಪ್ರಯೋಗ ಇರುವಂತಹ

 

ಇಲ್ಲಿ ಹರಣಂ ಎಂಬಲ್ಲಿ ಹರ ಎನ್ನುವ ಪದ, ನಿಶಿ ವಲ್ಗುನಾದಮ್ ಎಂಬಲ್ಲಿ ಶಿವ ಎಂಬ ಪದ, ಅನಿಶಂ ಕರವಿಪ್ರಯೋಗಮ್ ಎನ್ನುವ ಪದ, ಸದೃಶಂ ಭುವಿ ಎಂಬಲ್ಲಿ ಶಂಭು ಎನ್ನುವ ಪದವನ್ನೂ ಕಾಣಬಹುದು.

ಮಂಗಳವಾರ, ಜೂನ್ 3, 2025

पानीयं किम् इच्छति ?

पानीयं किं स्वीकरोति ? भारतदेशे यदा कदापि यस्य कस्यचित् गृहं प्रविशामः तर्हि गृहिणीनां मुखतः सहजतया अयं प्रश्नः निस्सरति । किमपि मास्तु इति अतिथिना कथिते अपि पुनः पुनः पृष्ट्वा यत्किमपि सज्जीकर्तुं पाकगृहं धावन्ति गृहिण्यम् । एवं शक्तिमत्यः गृहिण्यः तु कुर्युः । परन्तु यदि उत्थातुम् एव न शक्यते । स्वनिमित्तमपि पानीयम् अन्येन दातव्यम् इति स्थितिः भवति, तदाऽपि काचित् महिला शय्यातः उत्थाय पानीयं दातुं उत्सुका भवति चेत् तत् विशिष्टमेव । एतादृशीषु विशिष्टासु महिलासु अन्यतमा सुचेताभगिनी ।

मूलतः उत्तरकर्णाटकीया । गृहभाषा मराठी । शिक्षणं कन्नडमाध्यमेन प्राप्तम् ।  संस्कृतसेवाव्रतिनीरूपेण तिपटूरु, हासन, देहली मध्यप्रदेशः इत्यादिप्रदेशेषु कार्यं कृतम् । ततः केरलीयेन पूर्णकालिकेन सह विवाहः । कस्मिंश्चित् सङ्घटने पूर्णकालिकरेण (पूर्णकालिकाः सामर्थ्ये सत्यपि स्वनिमित्तं धनं न सम्पादयन्ति । सङ्घटनस्य सूचनानुगुणं स्वव्ययं निर्वहन्तः जीवनं यापयन्ति ।) कार्यं कुर्याम् इति मनःस्थितिसम्पादनं कठिनम् । परन्तु पूर्णकालिकं परिणयामि इति निश्चयः तु कठिनतरः ।  यतो हि गृहजनाः, बान्धवाः, मित्राणि च तत्र बहुविधापत्तीः दर्शयेयुः । तथापि तत्सर्वं सोढ्वा जीवनं करिष्यामि इति दृढनिर्णयस्तु श्रेष्ठानां महिलानाम् एव सम्भवेत् । 

पूर्णकालिकं परिणीय अमेरिकादेशं प्रति गमनं तत्र संस्कृतकार्यकरणम् इति तु इतोऽपि महाकार्यम् । यदि सम्यक् धनार्जनस्य व्यवस्था वर्तते, तर्हि एव मातृभूमिं त्यक्त्वा विदेशेषु वासार्थं जनाः उद्युक्ताः भवन्ति । सेवा करणीया इत्यस्ति चेत् मम परिचिते प्रदेशे एव भवतु इति मनःस्थितिः बहूनां भवति । परन्तु सेवार्थमेव दूरदेशं गत्वा तत्रापि सुचेताभगिनी महत् कार्यं, जनसम्पर्कं च साधितवती । अधुना अपि विदेशेभ्यः बेङ्गलूरुनगरम् आगन्तारः जनाः सुचेताभगिन्याः दर्शनं वाञ्छन्ति स्म । 

मम कार्यालये सुचेताभगिन्याः पत्या सह परिचयः जातः । सः कार्यवशात् मां गृहम् नीतवान् । कस्यचित् महापणस्य पृष्ठतः लघुगृहं भगिन्याः आसीत् । यद्यपि अहं प्रथमवारं भगिनीं पश्यन् आसं, तथापि सा अत्यन्तं परिचितः इव मया सह सम्भाषणं कृतवती । पानीयं किम् इच्छति इति वार्तालापं कुर्वती पानीयादिकं दत्तवती । गृहमपि मध्ये मध्ये आगच्छतु इति आहूतवती । 

ततः मम कार्यालयस्य समीपे एव तस्याः गृहपरिवर्तनं जातम् । अतः मध्ये मध्ये तस्याः गृहगमनं भवति स्म । भोजनं समाप्य साक्षात् तस्याः गृहं गच्छामि चेद् अपि सा खादितुं किम् इच्छति इति पृच्छति स्म । कदाचित् तस्याः सङ्गणकयन्त्रं समीकर्तुम् अहं गृहं गतः । सः अल्पाहाकालः अहम् अल्पाहारं खादित्वा एव आगतवान् इति उक्तवान् अपि आसम् । तथापि सा कष्टेन किमपि बहु निर्माय दत्तवती आसीत् । 

यद्यपि बहु अस्वस्था, उत्थातुं च न शक्नोति तथापि मम विवाहानन्तरं सपत्नीकं माम् आहूय भोजयित्वा उपायनं च दत्त्वा प्रेषितवती । एतादृशाः सज्जनाः लोके भवन्ति इति मम पत्नी ऐदम्प्राथम्येन दृष्टवती आसीत् । 

सुचेताभगिनी अत्यन्तं स्वाभिमानिनी । यद्यपि उत्थातुम् असमर्था तथापि स्वकार्याणि स्वयमेव निर्वहति स्म । यदि उत्थातुमेव असामर्थ्यं भवति तर्हि एव अन्येषां साहाय्यं स्वीकरोति स्म । यदि रुग्णाः भवन्ति, तर्हि अन्यजनाः आगत्य स्वव्यथां शृणुयुः इति भावः अनेकेषां रोगिणां भवति । शय्यायामेव त्रिचतुरदिनानि केवलानि भवन्ति चेत् मानसिकरूपेण अपि त्रस्ताः भवन्ति । परन्तु सुचेताभगिनी मानसिकरूपेण अत्यन्तं दृढा आसीत् । कस्यापि समीपे रोदनं तु न करोति स्म । कस्मैचित् अपि किमपि कार्यं न वदति स्म । 

अद्य(03.06.2025) सा दिवङ्गता । तस्याः पार्थिवशरीरस्य मुखं पश्यामि चेत् किं पानीयम् इच्छति?  इति पृच्छन्ती इव भासते ।  


ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...