काव्येषु
सर्वेषां शास्त्राणां तत्त्वं निहितं वर्तते इति वाक्यम् असकृत् शृण्मः। परन्तु
तानि तत्त्वानि आत्मसात्करणीयानि इति धिया काव्यं न पठामः। प्रायेण
विश्वविद्यालयेषु काव्यानि पठितानि भवन्ति। तेन काव्याध्ययनेन काचित् कथा ज्ञाता
भवति इत्येव फलम्। असहृदयाः शिक्षकाः यदि काव्यं पाठयन्ति तर्हि विद्यमानं रसमेव
नाशयन्ति। सहृदयानां रसास्वादनाय काव्यशास्त्रज्ञानस्यापेक्षया समीचीनानि
काव्यव्याख्यानानि आवश्यकानि। तत्र व्याख्याकारेषु मल्लिनाथः प्रसिद्धः। तस्य
व्याख्यानपुरस्सरं कालिदासस्य काव्यानि पठामः चेत् दुग्धे शर्करायाः योजनमिव रुचिं
ददाति।
काव्यश्लोकानां पारायणद्वारा कण्ठस्थीकरणपरम्परा तु वर्तते एव। यथा काव्यपद्यानि कण्ठस्थानि पदे पदे मनः रञ्जयन्ति तद्वद् व्याख्यानं न रञ्जयति। यद्यपि सहृदयमनोहारित्वं व्याख्याने अस्ति तथापि तस्य असकृत् अवलोकनं तु न भवत्येव। सकृत् पठित्वा रसमास्वाद्य तत्परित्यजामः। पुनः तस्य पठने इच्छा भवति चेदपि पुस्तकं हस्तलभ्यं न भवति, कस्मिन् श्लोके अपेक्षिता पङ्क्तिः वर्तते इति न स्मर्यते इत्यादयः अनेकाः समस्याः भवन्ति। अन्यकार्यव्यापृताः व्याख्यानपङ्क्तीः विस्मरामः। वस्तुतः काव्यवत् सुन्दरस्य अमूल्यस्य च व्याख्यानस्य अवगणनमेव कुर्मः।
मल्लिनाथस्य व्याख्यानं यथा सरसं तद्वत् क्वचित् प्रौढमपि विद्यते। तस्य आकूतं ज्ञातुं कुत्रचित् महान् परिश्रमः, ग्रन्थान्तराणां परिशीलनादिकं च करणीयं भवति। नानपेक्षितमुच्यते इति प्रतिज्ञाय अनेकान् महतः विषयान् स्तोकैः पदैः एव वदति। तथा च क्वचित् कविप्रयुक्तस्य शब्दस्य साधुताप्रतिपादने अनेकाः युक्तीः प्रदर्शयति। मल्लिनाथस्य एतादृशस्य विशिष्टस्य व्याख्यानस्य पठने एव तस्य आनन्दः अनुभूयते।
संस्कृतभारत्याः अक्षरभवने विद्यमानाः कार्यालयीयाः प्रतिसप्ताहं बुधवासरे गुरुवासरे च प्रातः ८.३० तः १०.०० वादनपर्यन्तम् अध्ययनं कुर्मः। ज्येष्ठः जनार्दन हेगडेमहोदयः मार्गदर्शनं करोति। तत्र पूर्वार्धे कुमारसम्भवम् उत्तरार्धे संस्कृतभारत्या प्रकाशितं किञ्चन पुस्तकं च पठिष्यामः। कुमारसम्भवस्य प्रतिश्लोकं पठित्वा तस्यार्थं ज्ञात्वा मल्लिनाथव्याख्याने उक्तान् अंशान् अवगन्तुं प्रयतामहे। प्रतिदिनं केषाञ्चन श्लोकानां पारायणं च कुर्मः। अध्ययनसत्रमिदं निरन्तरं प्रवर्तते। दश जनाः कक्ष्यायां भागं गृह्णीमः। तत्र अनिवार्यतया कोऽपि क्लेशः अस्ति चेत् केचन अनुपस्थिताः भवन्ति। तथापि कक्ष्यायां ७-८ जनास्तु भवामः एव। जनार्दनमहोदयः नास्ति चेदपि कक्ष्यायाः विरामः न भवति। वयमेव पठितुं प्रयासं कुर्मः। अग्रे यदा जनार्दनमहोदयः उपस्थितः भवति तदानीं तं पृष्ट्वा संशयान् निवारयामः।
एवं सप्टेम्बर् मासादारभ्य इदमध्ययनं प्रवर्तते। एप्रिल् मासान्ते कुमारसम्भवस्य सर्गद्वयस्य पठनं समाप्तम्। तत्र मल्लिनाथव्याख्याने उक्ताः विशेषांशाः जनार्दनमहोदयेन सङ्गृहीताः। ते प्रायः उपपञ्चाशाः वर्तन्ते। ते अंशाः दशस् जनेषु विभक्ताः। ते विषयाः पुनरपि ग्रन्थान्तरपरिशीलनादिना दशभिः प्रस्तोतव्याः। यथा मल्लिनाथटीकायाम् उद्धृतानि वामनमतानि कश्चन उपपादयति, पृषोदरादिसमासान् कश्चन प्रतिपादयति, विशिष्टनामपदानामर्थान् अपरः प्रस्तौति, अन्यः विशिष्टक्रियापदानामर्थं प्रतिपादयति, इतरः अकर्मकधातुप्रयोगविषये प्रतिपादयति एवमाहत्य दश जनैः विभिन्नाः विचाराः प्रस्तोतव्याः। तस्य प्रस्तुतेः परिशीलनार्थं महामहोपाध्यायाः जि.महाबलेश्वरभट्टवर्याः उपस्थास्यन्ते। एषा सभा जून् मासस्य सप्तदशे दिनाङ्के (१७-०६-२०१९) सोमवासरे मध्याह्ने ३.०० वादनतः अक्षरभवने निश्चिता वर्तते। यदि कोऽपि बाधः न स्यात् तर्हि तस्मिन्नेव दिने भविष्यति। अत्र श्रोतृरूपेण उपस्थातुं सर्वेषामपि मुक्तः अवसरः विद्यते।

सम्यक् निरूपितं मित्र ।
ಪ್ರತ್ಯುತ್ತರಅಳಿಸಿ