अद्यत्वे नैके जनाः facebook
द्वारा एव स्वकीयां प्रतिभां प्रकाशयन्ति। कतिचन अमूल्याः लेखाः facebook पुटेष्वपि समुपलभ्यन्ते। केचन hashtag(#) निर्माय समानं विषयं विभिन्नदृष्टिकोणेषु प्रकटयन्ति। facebook पुटे कन्नडभाषया #ಕಲ್ಪನೆಯಲಿ_ಕೂಸು (कल्पनेयलि_कूसु) इत्यत्र अनेकाः रमणीयाः
कल्पनाः मित्रेण सुनीलेन प्रकाशिताः। तदाधारेण इमानि
पद्यानि रचितानि। एतानि पद्यानि प्राचीप्रज्ञापत्रिकायाः 2019 तमवर्षस्य एप्रिल् मासस्य काव्यधारायां प्रकाशितानि। (एतानि पद्यानि अश्लीलानि इति कस्याश्चित् पत्रिकायाः सम्पादकमण्डल्याः अभिप्रायः आसीत्।)
https://sites.google.com/site/praachiprajnaa/kavyadhara
सर्वत्रापि विशिष्टकल्पनपरः
शिष्टःसुनीलः कवि
स्त्वन्तर्जालपुटेषु वर्णयति यां
तां मानसीं सुन्दरीम्।
भाषायामहमेष सूर्य इह तान् भावान्
ब्रुवे साम्प्रतं
भारत्या बुधलोकवन्दनपरः वृत्तेन बद्ध्वापि
च॥
सुनीलभावनाः क्वचित्तथैव
संस्कृतीकृताः
क्वचित्तु सङ्कुचीकृताश्च
विस्तृताश्च काश्चन।
मयान्यथाकृताः क्वचित्तथापि
सभ्यरञ्जने
सुनीलकल्पनैव मूलहेतुरस्ति,
तद्दृढम् ॥
ಅದ್ಯಾಕೋ ಕಣ್ಣು ಮುಚ್ಚಿ ಮುಚ್ಚಿ ಬರುತಿದೆ ನಿನ್ನದೇ ಕನಸು ಕಾಣುವ
ತವಕವಿರಬಹುದು.
निमीलनेच्छा खलु पक्ष्मयोर्मे
सञ्जायमाना दयितावियोगे।
मन्ये हताशायुतमक्षियुग्मं
स्वप्ने प्रियादर्शनमिच्छतीति॥१॥
ಅನುಮಾನವಿದೆ ಪೋಲೀಸರ ಮೇಲೆ ಕಣ್ಣಲ್ಲೇ ಮಾರಕಾಸ್ತ್ರಗಳಿಟ್ಟಿರುವ
ನಿನ್ನ ಬಂಧಿಸದಿರುವ ಬಗ್ಗೆ.
तैस्सुन्दरीबन्धनकर्म कस्मा-
-दारक्षकैर्न
क्रियते विचित्रम्।
या मारकास्त्राणि निधाय नेत्रे
मुष्णाति यूनां हृदयं सदापि॥२॥
'ನೀನು ಹುಣ್ಣಿಮೆಯ ಚಂದ್ರನಂತೆ' ಅನ್ನೋಕೂ ಭಯ ಸರಿ ಹೋಗು ತಿಂಗಳಿಗೊಮ್ಮೆ ಸಿಗ್ತೀನಿ ಅಂದುಬಿಟ್ಟಾಳೋ...
ಅಂತ.
राकासुधांशोरिव कान्तियुक्तं
मुखं विभातीति वदामि भीत्या।
वदेत्प्रिया केवलपौर्णमास्या-
-मास्यं मदीयं प्रिय
दर्शयामि॥३॥
ಇತ್ತೀಚೆಗೆ ಸಂಜೆ ಗಾಳಿಯೂ ಬೀಸುತ್ತಿಲ್ಲ ಬಹುಶಃ ನಿನ್ನ ನೆನಪುಗಳ ಭಾರ
ಜಾಸ್ತಿಯಾಗಿರಬೇಕು.
सदागतिस्ते विरहे प्रिये स
सायन्तनो गन्धवहो न वाति।
त्वां चिन्तयन् भारयुतोऽस्ति भावै-
-र्मच्चित्तवत्स्तब्ध इहैव
तूष्णीम्॥४॥
ಅರಳುತಿರುವ ಮಲ್ಲಿಗೆ ಆಕೆಯ ಮುಗುಳುನಗೆ
शनैश्शनैरोष्ठपुटात्स्फुटन् हि
सुगन्धयुक्तो सितवर्णभूषः।
फुल्लच्छिरीषेण समः प्रियाया
हासो मुखे राजति सर्वकाले॥५॥
ಯಾಕಾದರೂ ಹೇಳಿದೆನೊ "ನೀನೊಂದು ಸುಂದರ ಮೌನ" ಅಂತ ಈಗ
ಮಾತೇ ಇಲ್ಲ....
त्वं चारुमौनं भवसीत्यवोचं
तेनैव दुःखं मम जायमानम्।
ब्रूषे न किञ्चिद्बहुभाषिणी धि-
-ग्वाक्यं मदीयं तव मौनहेतुम्॥६॥
ನಿನ್ನ ನಡಿಗೆ ನೋಡಿಯೇ ಹೇಳಬಹುದು ಇದು 'Moon
Walk' ಎಂದು
वृत्ते चलित्वा विधुतुल्यरूपे
जगाद मैखल् मम चन्द्रचर्या।
चन्द्रानने ते चलनेन चन्द्र-
-चर्येति शब्दः सफलोऽस्ति लोके॥७॥
ಅಮಾವಾಸ್ಯೆಯಂದು ನೀರಲ್ಲಿ ಮುಖ ನೋಡಿದರೂ ಚಂದ್ರಬಿಂಬವೇ ಕಾಣುವುದು
अन्ये जनाः केवलपौर्णमास्यां
पश्यन्ति खे पूर्णविधुं प्रिये
तम्।
आदर्शमात्रं स्वकरे गृहीत्वा
द्रष्टुं क्षमा दर्शनिशास्वपि
त्वम्॥८॥
ಅಂದ ನೋಡಿ ಕುಣಿಯುವುದಂತೆ ನವಿಲು ನಿನ್ನ ನೋಡಿ ಕುಣಿದಾಗ
ನಿಜವೆನಿಸಿತು
दृष्ट्वा प्रकृत्या रमणीयरूपं
बर्ही स नृत्यं प्रकरोति यद्वद्।
तद्वत्प्रियारूपमवेक्ष्य चारु
नृत्याम्यहं हृष्टमनाः सकेकम्॥९॥
ಮತ್ತೆ ಮತ್ತೆ ಕಾಡುವುದಕ್ಕೆ ಆಕೆಗೂ ಭಯವಿದೆ ಗುಂಗಿನಲ್ಲೇ ಈತ
ಕವಿಯಾದರೆಂದು!!
मुहुर्मुहुर्भावनिबन्धनेन
मत्पीडनात्सापि बिभेति बाला।
दिवानिशं मे स्मरणेन कान्तः
कविः स भूयादिति शङ्कयैव॥१०॥
ತಂಗಾಳಿಗೇಕೆ ಮಾತುಕಲಿಸಿದೆ ನೋಡೀಗ ನಿನ್ನ ಬಗ್ಗೆಯೇ ಕೇಳುತಿದೆ
अपाठयस्त्वं मलयानिलाञ्च
कुतः प्रिये भावविशिष्टभाषाम्।
ते कर्णमूलं मम विप्रयोग
आगत्य पृच्छन्ति तवैव वार्ताम्॥११॥
"ನೀ ಚಂದಾನೆ". ಕೊನೆಯಲ್ಲಿ ಪ್ರಶ್ನಾರ್ಥಕವಲ್ಲ ಪೂರ್ಣವಿರಾಮ.
न सुन्दरी त्वं किमिति प्रियेदं
वाक्यं समाकर्ण्य न कुप्य यस्माद्।
त्वं सुन्दरी वर्तस एव नून-
-मित्यर्थमित्थं दृढयामि काक्वा॥१२॥
ಆ ಮಗುವಿಗೆ ಚಂದಿರನ ತೋರಿಯೇ ಉಣಿಸಬೇಕಂತೆ ಹೋಗೊಮ್ಮೆ ಎದುರು ನಿಲ್ಲು
भुञ्जे न किञ्चिच्छशिदर्शनेन
विनेति बालो बहु रोदितीति।
चन्द्रानने गच्छ पुरः स बालो
भुञ्जीत नूनं तव दर्शनेन॥१३॥
ಚಂದಿರನ ತಂದುಕೊಡು ಎಂದರೆ ಕನ್ನಡಿಯನೇಕೆ ತಂದೆ ಎನ್ನುತ್ತಿದ್ದಾಳೆ.
चन्द्रानने त्वं शशिवीक्षणेच्छां
न्यवेदयत्ते मुकुरे प्रदत्ते।
किं दर्पणेनेति कुतो ब्रवीषि
तस्माद्विनास्यं कथमीक्षसे त्वम्॥१४॥
ನೋಡುತ್ತ ಕುಳಿತರೆ ಕಣ್ಣುಗಳಿಗೇ ಸಕ್ಕರೆ ಕಾಯಿಲೆ ಬರಬೇಕು
रोगः प्रसिद्धो रुधिरप्रवाहे
व्यत्यास एवं मधुमेहनामा।
लावण्यमाधुर्यगुणैस्त्वदीयै-
-र्दृष्टेः प्रिये मे भवतो गदौ
द्वौ॥१५॥
ಅಮಾವಾಸ್ಯೆಯಿಂದು ರಾತ್ರಿ ಹೊರಬರಬೇಡ ಚಂದಿರ ಧರೆಗಿಳಿದನೆಂದು
ತಾರೆಗಳು ಹೊತ್ತೊಯ್ಯಬಹುದು
कुहूनिशि त्वं न बहिर्भ्रम, त्वां
तारागणा वीक्ष्य, निजाधिपत्वम्।
त्वयि प्रकल्प्यैव नभो नयेयु-
-श्चन्द्राननेऽभ्यन्तर एव तिष्ठ॥१६॥
ಅಬ್ಬಾ! ಹಗಲಲ್ಲೇನಿದು ಮಿಂಚು ಓಹ್ ! ನಿನ್ನ ಕುಡಿನೋಟವಷ್ಟೇ
सत्यातपेऽसौ कथमद्य दृष्टा
सौदामनी कान्तियुता धरण्याम्।
प्रिया मदीया समुपागता स्या-
-द्यस्याः कटाक्षाः किल भान्ति
रम्याः॥१७॥
ನೋಡುತ್ತ ಕುಳಿತಿದ್ದೆ ನಿನ್ನ ಸಪ್ಪೆ ಚಹಾ ಕುಡಿದಿದ್ದೂ
ಗೊತ್ತಾಗಿಲ್ಲವಲ್ಲ
मुखस्य नेत्रस्य च दन्तपङ्के-
-र्लावण्यराशेस्तव कर्मणां च।
माधुर्यपानेन न वेद्मि बाले
चायं विना शर्करयैव पीतम्॥१८॥
ಹೃದಯ ನೋವೆಂದು ಎಕ್ಸರೇ ಮಾಡಿಸಿದರೆ ನಿನ್ನ ಪೋಟೋ ಕೊಟ್ಟರಲ್ಲ
वैद्यो मदीयं हृदयं विलोक्य
यन्त्रैर्विशिष्टैः किरणैश्च
वक्ति।
त्वमेव दृष्टा, परितश्च रक्तं
त्वां, नैव किञ्चिन्मम
दृष्टिगम्यम्॥१९॥
ಹಿಂಡಿ
ಬಿಡುತ್ತಿದ್ದೆ ಆಕೆಯ ಕೆನ್ನೆಯನು ಕರಗಿ ತುಪ್ಪವಾದೀತೆಂದು
ಸುಮ್ಮನಾದೆ
रम्यौ कपोलौ नवनीततुल्यौ
निष्पीडयेयं तव, मे कराभ्याम्।
हैयङ्गवीनत्वमवाप्नुयातां
तस्मादिदानीं न तथा करोमि॥२०॥
ನಿನ್ನ ಕುಡಿನೋಟಕ್ಕಿದೆ ಆ ಶಕ್ತಿ ಹತ್ತೂರಿಗೆ ಕರೆಂಟ್ ಹಂಚುವಷ್ಟು
मूर्खोऽबलां त्वां वदतीह बाले
प्रत्यङ्गमप्यस्ति बलं त्वदीये।
कटाक्षमात्रेण दशाधिकानि
पुराणि भायुर्निशि सत्यमेतद्॥२१॥
ಹಾಲುಕ್ಕುವುದ ನೋಡಿದವರು ಬಳಿಬರುವಂತೆ ನೀ ನಕ್ಕಾಗಲೂ ನಾ ಬಳಿ
ಬಂದಿದ್ದಷ್ಟೇ
वह्नेः प्रभावात्सितमुत्क्वथद्य-
-द्दृष्ट्वा पयस्तद्दिशि तूत्पतन्ति।
जनास्तथाहं मदनाग्निहेतो-
-स्ते हासमालोक्य समीपगामी॥२२॥
ಚೌತಿ ಚಂದ್ರನ ನೋಡಬಾರದು ಎಂದಾಗಲೇ ಅರಿವಾದದ್ದು ನಿನ್ನ ನೋಡುವುದು
ಅಪರಾಧವೆಂದು
गणेशपर्वाह्नि मुखं न दृष्टं
मयेति ते त्वं सखि नात्र कुप्य।
तस्मिन् दिने शीतकरेक्षणं हि
दोषाय भूयादिति रूढिरस्ति॥२३॥
ನಿನ್ನ ಆ ಕಣ್ಣೋಟಗಳೇ ನನ್ನುಸಿರಿಗೆ ದಂಗೆ ಏಳಲು ಕರೆಕೊಟ್ಟಿದ್ದು
न वाय्वभावो न ममास्ति रोगो
न धूमबाधो न च योगशीलः।
स्मरेषवस्ते निशिताः कटाक्षाः
श्वासप्रमाणं परिवर्तयन्ति॥२४॥
ಆಹಾ! ಹಾರುತಿರುವ ನಿನ್ನ ಮುಂಗುರುಳು ಚಿತ್ರಾನ್ನದಲಿ ಸಿಗುವುದು
ಯಾವಾಗ ಹೇಳು
ये कुन्तलास्ते परिपीडयन्ति
चित्तं मदीयं चलनैः सदापि।
कदा पतिष्यन्ति मदीयभोज्ये
पक्वे त्वयेत्युत्सुकमस्ति चेतः॥२५॥
ನಿನ್ನ ವರ್ಣಿಸಲು ಕಳುಹಿದ ವರ್ಣಲೇಖನೀ (ಕಾಮನಬಿಲ್ಲು)
यस्या प्रकृत्या रमणीयमङ्गं
तस्या प्रियायाः खलु वर्णनार्थम्।
दत्ता प्रकृत्या रमणीयवर्णाः
खे शक्रचापच्छविकैतवेन॥२६॥
ನಿನ್ನ ನಗುವಿನ ಚಿತ್ರಗಳನ್ನೆಲ್ಲ ಜೋಡಿಸಿಟ್ಟಿದ್ದೆ ನೋಡಿದವರೆಲ್ಲ 'ಮುತ್ತಿನಹಾರ' ಎಂದರಲ್ಲ
प्रियासुहासस्य सुचित्रराशे-
-श्चित्राणि पङ्क्तौ समयोजयं,
ताम्।
पङ्क्तिं विलोक्य ब्रुवते जना मां
मनोहरो मौक्तिकहार एषः॥२७॥
ಕೆನ್ನೆಯ ಮೇಲೆ ಮುಂಗುರುಳು ಕೆಂಬಾನಿನಲಿ ಹಕ್ಕಿಗಳು ಹಾರಿದಂತೆ
यथा प्रदोषेऽसितवर्णयुक्ता
आकाशमार्गे विहगाश्चरन्ति।
तथा प्रियाया वदने सकोपे
मनोहरा भान्ति चलालकास्ते॥२८॥
ಗುಳಿಕೆನ್ನೆ ನೋಡಿದಾಗಲೇ ಅನುಮಾನವಿತ್ತು ಚಂದಿರನ ಮೇಲೂ ಕುಳಿ
ಇರಬಹುದೆಂದು
तवास्यजं कूपकमीक्ष्य बाले
यद्धासकाले रुचिरं विभाति।
चन्द्रेऽपि गर्तो भवतीति तत्त्वं
विज्ञानिनो जज्ञुरिहेति मन्ये॥२९॥
ಚಂದಿರನ ಬಳಿ ಸುಳಿಯುವ ಆ ಚಿಕ್ಕ ಚಿಕ್ಕ ಮೋಡಗಳು ನಿನ್ನ
ಮುಂಗುರುಳಿನಂತೆ...
ये कृष्णवर्णा लघुगात्रयुक्ता-
-श्चन्द्रं स्पृशन्तो विलसन्ति
मेघाः।
तद्वत्प्रियाया वदनं स्पृशन्तो
मुहुर्मुहुश्चार्वलका विभान्ति॥३०॥
ವಸಂತಬರುವುದಂತೆ, ಕೋಗಿಲೆ ದನಿಯಮರೆತಿದೆಯಂತೆ ಮಾತನಾಡಿಬಿಡು,ಕಲಿಸಿಬಿಡು
प्राप्ते वसन्ते किल कूजनीयं
पिकेन बाले शिशिरोऽस्ति सद्यः।
त्वं पाठयाशु स्वरमाधुरीं तं
सार्धं मया भाषणकैतवेन॥३१॥
ಕೆನ್ನೆ ಸವರುವ ಕೈ ಅನೇಕ ಇರಬಹುದು ಮುತ್ತಿಕ್ಕುವ ತುಟಿ ನಿನ್ನದೇ
ಆಗಿರಲಿ
गण्डौ मदीयौ बहुधा स्पृशन्तु
तुष्यन्तु तेनैव हि ताः कृतार्थाः।
त्वं चुम्बनाख्येऽधिकृतासि कार्ये
स्वप्नेऽपि नान्या मम
जीवनेऽस्ति॥३२॥
ಹೊರಗೆಲ್ಲ ಮಳೆಬಂದು ಭೂಮಿ ತಂಪಾದರೂ ಮನೆಯೊಳಗಿನ ಗಿಡಕ್ಕೆ ನೀರು ಹಾಕಬೇಕು ಹೊರಗೆಲ್ಲ ಹುಡುಗಿಯರು ಕಂಡು ಕಣ್ತಂಪಾದರೂ ಮನಸಿಗೆ
ಮಾತ್ರ ನೀನೇ ಬೇಕು
वृष्टेऽपि देवेऽधिगृहं विराज-
-त्सस्यं जलं वाञ्छति ते
कराभ्याम्।
तथा बहिः स्यू रमणीयनार्य-
-स्त्वां वीक्ष्य तृप्ये किमु
ताभिरस्ति॥३३॥
ಹೊರಗೆಲ್ಲೂ ಸುಳಿಯಬೇಡ ನೀನು ಹೂವನ್ನರಸಿ ಜೇನುಗಳು ಬಂದಿವೆಯಂತೆ
गृहाद्बहिस्त्वं भ्रमणं न कुर्याः
पुष्पस्पृहास्ते मधुपा अटन्ति।
अब्जानने त्वां यदि लोकयन्ते
गृह्णन्ति नूनं मुखमेव तेऽद्य॥३४॥
ನೀನು ಮೌನವಾಗಿದ್ದನ್ನ ನೋಡಿಯೇ 'ಮೌನ ಬಂಗಾರ' ಎಂದಿರಬೇಕು
सम्भाषिता सा बहुभिः प्रकारैः
तथापि मौनं न जहाति बाला।
मौने स्थितां वीक्ष्य सखीं मदीयां
मौनं सुवर्णेन समं वदन्ति॥३५॥
ಹೃದಯದಲ್ಲೊಂದು ಇಂಗುಗುಂಡಿ ತೋಡಬೇಕು ನಿನ್ನದೇ ನೆನಪುಗಳ
ಇಂಗಿಸಿಕೊಳ್ಳಲು
सदापि बाले हृदये मदीये
तवैव चिन्ता भवतीति हेतोः।
संरक्षितुं ते स्मरणं प्रगाढं
गर्तो मयैकः खननीय एव॥ ३६॥
ನಿನ್ನತ್ತ ಸಾಗುತಿಹ ಸಾಲು ಇರುವೆಗಳ ಕೇಳಿದರೆ ಸಿಹಿಯಿದ್ದ ಕಡೆ
ಅವವುಗಳ ಪಯಣವೆಂದವು
कुतो प्रयान्तीति मयाद्य पृष्टाः
पिपीलिकास्त्वद्दिशि
सम्प्रयान्त्यः।
त्वां दर्शयित्वा प्रवदन्ति बाले
तत्रास्ति माधुर्यमतो व्रजामः॥३७॥
ಆಗಾಗ ಅರಿಶಿನವ ಹಚ್ಚುತ್ತಲಿರು ಸಿಹಿಯಾದ ಕೆನ್ನೆಗೆ ಇರುವೆಗಳು ದಾಳಿ
ಮಾಡಬಹುದು
कपोलभागेषु सदा हरिद्रा
संलेपनीया निजरक्षणाय।
पिपीलिकास्तेऽधरमाक्रमेयु-
-र्माधुर्यलोभाद्ध्रुवमेव
कान्ते॥३८॥
ನಿನ್ನ ಕಣ್ಣುಗಳಿಗೂ ಆಯುಧ ಪೂಜೆ ಮಾಡಿಸಬೇಕು
कार्यं
नवम्यां नवरात्रकाले
कटाक्षयोरायुधपूजनं
ते।
पूजासुवस्तू
तव देहजाते
चोष्ठप्रसूनं
रदनालिहारः॥३९॥
ಚಳಿಗೆ ಕಂಬಳಿ ಬಿಡಬೇಕಿತ್ತು, ನಿನ್ನದೇ ಸಹಕಾರ ಬೇಕಿತ್ತು
शैत्येऽप्यहं कम्बलहानमीहे
परं न शक्तः शयितुं रजन्याम्।
सामीप्यहेतोस्सखि ते सुखी स्यां
कुरु
कृपां त्वं मयि शीतलार्ते॥४०॥