चक्रवत्परिवर्तन्ते
दुःखानि च सुखानि च इति प्रसिद्धं वाक्यम्। दुःखं वा भवतु सुखं वा भवतु चिरं न
तिष्ठति इति तस्य अभिप्रायः मया गृहीतः। परन्तु अस्मिन् विषये कदाचित् सन्देहः एव
उत्पद्यते। यतो हि केषाञ्चन जीवनं पश्यामः चेत् सर्वदा अपि ते सुखमेव अनुभवन्ति। केषाञ्चन
जीवने तु कष्टपरम्पराः एव। यदि ब्रह्मा "एषः कष्टमेव अनुभवन् जीवेत्" इति ललाटे
लिखति चेत् किमपि कर्तुं न शक्यम् इति भाति।
कश्चन वृद्धः(वृद्ध इति पदं निन्दार्थे प्रयुज्यते इति जाने। तथापि सः स्वकथाकथनद्वारा क्लेषं जनितवान् इति कृत्वा वृद्ध इति पदं प्रयुक्तम्) मया सह अमिलत्। सः स्वजीवनगाथां श्रावितवान्। नवमे वयसि एव तस्य
पितुः मरणम् अभवत्। तदनन्तरं माता एनम् कथञ्चित् पालितवती। अध्ययनानन्तरं वित्तकोषे उत्तमः
उद्योगश्च लब्धः। विवाहोऽपि जातः। तावता सर्वं सम्यक् अभवत् इति चिन्तयामः चेत्, सः
तु सन्तुष्टः नासीत्। यतो हि वित्तकोषस्य उद्योगे तदा तदा स्थानान्तरणं भवति।
अन्ततो गत्वा स्थानान्तरणात् मुक्तिः प्राप्तव्या इति धिया मुम्बय्यां यदा आसीत् तदा
वित्तकोषोद्योगः त्यक्तः। तदानीं जीवननिर्वहणार्थं किमपि करणीयमासीत्। तदर्थं
सर्वकारेतरे वित्तकोषे उद्योगः गृहीतः। द्वित्रवर्षाणि यावत् मुम्बय्यामेव कार्यं
कृतम्। तदनन्तरं तेन वित्तकोषेनापि विदेशं प्रति तस्य स्थानान्तरणं कृतम्।
अनिवार्यरूपेण गन्तव्यमेव आपतितम्। तस्य स्थितिः तु पादप्रहर्त्रीं गावं विक्रीय
दुग्धरहितां गाम् आनीतवतः जनस्य स्थितिरिव जाता। जीवने सन्तोषः तु न लब्धः।
अन्यत्र गमनम् अनिवार्यम् अभवत्।
"न चाविद्वान्
रूपद्रविणगुणयुक्तोऽपि तनयः" इति सूक्तिः पञ्चतन्त्रे श्रूयते। परन्तु अस्य तनयौ तु
विद्वांसौ एव स्तः। मुम्बय्यां वासः करणीयः इति ज्येष्ठपुत्रः, बेङ्गलूरुनगरे वासः
करणीयः इति च कनिष्ठपुत्रः कदाचित् इच्छां प्रकटितवन्तौ। तस्मात् तेन मुम्बय्यां
बेङ्गलूरुनगरे च गृहं क्रीतम्। परन्तु सम्प्रति ज्येष्ठः पुत्रः अमेरिकादेशे कनिष्ठः
पुत्रः केनडा देशे च वसतः। मुम्बय्याः बेङ्गलूरुनगरस्थस्य च गृहरक्षदायित्वं
पितुः एव। मध्ये मध्ये मुम्बईं गच्छति, कदाचित् बेङ्गलूरुनगरे तिष्ठति इत्यस्ति तस्य
स्थितिः । तन्मध्ये स्नुषयोः प्रसूतिसमये विदेशस्थे पुत्रयोः गृहे अपि गन्तव्ये। एवम् अधुनापि अटनं तस्य प्रवर्तते। ये निर्धनाः, येषां स्वकीयं स्थानं नास्ति, ते तु एवम्
अटन्तः भवन्ति। परन्तु स्वकीयानि स्थानानि वर्तन्ते चेदपि अस्य अटनस्य कष्टं न
समाप्तम्।
केनडादेशे
विद्यमानस्य द्वितीयपुत्रस्य द्वौ पुत्रौ। तत्र कनिष्ठस्य उपनयनं मार्च् मासे
निर्वोढव्यम्। पुत्रः सपत्नीकः उपनयनावसरे एव आगमिष्यति। तत्सम्बद्धाः सर्वाः
पूर्वसिद्धताः तेन स्वयं करणीयाः। अस्य जनस्य अधुना सप्ततिः आयुः। तदुद्दिश्य
भीमरथशान्तिः करणीया इति तन्माता इच्छति। अतः स्वस्य भीमरथशान्तिः स्वेनेव
आयोजनीया। स्वहस्तकुचमर्दनमिव खल्वेतत्। अस्मिन्नपि वयसि अटित्वा सर्वं साधनीयं
चेत् कथं क्लेषमनुभूयात् सः जनः।
अत एव पूर्वमुक्तं मया "ब्रह्मणा
ललाटे जीवने कष्टम् अनुभोक्तव्यं, मनः शान्तिः न स्याद्" इति ललाटे लिखितं चेत् केनापि
मार्जयितुं न शक्यते। प्रभूतं धनं, वासार्थं महानगर्योः स्वकीयगृहद्वयम्, अनुकूला
पत्नी, उत्तमौ पुत्रौ इत्येतदस्ति चेत् सुखेन जीवितुम् अन्यत् किम् अपेक्ष्यते इति
बहवः पृच्छेयुः। परन्तु सस्त्वप्येतेष्वंशेषु इतोऽपि कष्टेन जीवनं यापयन्तम् अमुं
दृष्ट्वा सुखस्य न किमपि करणं कारणं वा विद्यते इति वक्तुं शक्नुमः।
